| YouTube Channel

विच्छायं (vicchAyaM)

 
शब्दकल्पद्रुमः
Sanskrit
विच्छायं,
क्ली,
पक्षिणां छाया इत्यमरः
समासे षष्ठ्यन्तात् परा च्छाया क्लीवे स्यात् ।सा चेत् बहूनां सम्बन्धिनी स्यात् स्वयमुदा-हरति वीनां पक्षिणां चाया विच्छायम् ।इत्यमरटीकायां भरतः
(यत्तु भागवते ।१० १२ ।“विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः
”इति दृश्यते तत्तु वेः पक्षिणश्चाया विच्छायातत एकशेषद्बन्द्वे कृते विच्छायास्ताभिर्विच्छाया-भिरिति सिद्धं स्यादिति सुधीभिर्विभाव्यम्
*
विगता च्छाया यस्य ।) छायारहिते, त्रि
(विगता च्छाया कान्तिर्य्यस्य कान्तिरहिते चत्रि यथा, भागवते १४ २४ ।“विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः ।पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम्
”)