| YouTube Channel

विक्रयः (vikrayaH)

 
Apte
English
विक्रयः [vikrayḥ], 1 Sale, selling
यासां नाददते शुल्कं ज्ञातयो विक्रयः
Ms.*
3.54.
The selling price
Ms.*
7.127.
The market
विक्रयाद्यो धनं किंचिद् गृह्णीयात् कुलसंनिधौ
Ms.*
8. 21.
Comp.
-अनुशयः rescission of a sale
Ms.*
8.5.-पत्रम् a bill of sale, sale-deed. -वीथिः market.
Apte 1890
English
विक्रयः Sale, selling: Ms. 3. 54.
Comp.
अनुशयः rescission of a sale.
पत्रं a bill of sale, sale-deed.
Apte Hindi
Hindi
विक्रयः
पुं*
- वि + क्री + अच्
"विक्री, बेचना"
विक्रयः
पुं*
- वि+की+अच्
बिक्री
विक्रयः
पुं*
- वि+की+अच्
विक्रयमूल्य
विक्रयः
पुं*
- वि+की+अच्
मण्डी
Wordnet
Sanskrit
Synonyms:
विक्रयः, पणनम्, विपणः
noun
मूल्यं स्वीकृत्य कस्यचित् वस्तुनः दानम्।
"सा सामग्री विक्रयस्य कृते अस्ति।"
अमरकोशः
Sanskrit
Word: विक्रयः
Root: विक्रय
Gender: पुं
Number: all
Meaning(s):
sale
vending
selling
Shloka(s):
2|9|83|1 विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु। (वैश्यवर्गः)
Synonym(s):
2|9|83|1 विपणः (विपण) (पुं) bet, sale, shop, wager, market, selling, market-place, trading-place, low or petty traffic
2|9|83|1 विक्रयः (विक्रय) (पुं)
Related word(s):
परा_अपरासंबन्धः वणिक्कर्मः
जातिः क्रिया
शब्दकल्पद्रुमः
Sanskrit
विक्रयः,
पुं,
(विक्रयणमिति वि + क्री + “एरच् ।”३ ५६ इति अच् ।) विक्रयणक्रिया वेचाइति भाषा
तत्पर्य्यायः विपणः इत्य-मरः
विपणनम् पणनम् इति शब्द-रत्नावली
व्यवहारः पणाया इतिजटाधरः
अस्य विहिताविहितनक्षत्राणियथा, --“यमाहिशक्राग्निहुताशपूर्व्वानेष्टाः क्रये विक्रयणे प्रशस्ताः ।पौष्णाग्निचित्राशतबिन्दुवाताःक्रये हिता विक्रयणे निषिद्धाः
”इति ज्योतिःसारसंग्रहः
*
क्रयविक्रयनिर्णयो यथा मूल्यं दास्यामीतिकृत्वा ग्रहणादपि क्रयसिद्धिः तथा विवाद-चिन्तामणौ कात्यायनः ।“पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत् ।ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात्
”अतएव बृहस्पतिः ।“गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते
”क्रयविक्रये समयविशेषाभ्यन्तरे पश्चात्तापाद-सिद्धिः यथा मनुः ।“क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयोभवेत् ।सोऽन्तर्द्दशाहे तद्दव्यं दद्याच्चैवाददीत वा
”एतद्याज्ञवल्क्योक्तेतरपरम् यथा याज्ञ-वल्क्यः ।“दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकम् ।बीजायोबाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम्
”अत्र बृहस्पतिः ।“अतोऽर्व्वाक् पण्यदोषस्तु यदि संजायतेक्वचित् ।विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्यमवाप्नुयात्
”अतस्तद्द्रव्यपरीक्षणकालात् कात्यायनः ।“अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् ।क्रीतं तत् स्वामिने देयं पण्यं कालेऽन्यथा नतु
”काले प्रागुक्तपरीक्षाकालाभ्यन्तरे परीक्षितेतु बृहस्पतिः ।“परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत् ।परीक्षितं बहुमतं गृहीत्वा पुनस्त्यजेत्
”अत्र विशेषयति नारदः ।“क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी ।विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम्
द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमाहरेत् ।द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत्
”आहरेत् दद्यात् विक्रेत्रे इति शेषः द्विगुणंत्रिंशांशस्य याज्ञवल्क्यः ।“राजदैवोपघातेन पण्ये दोष उपागते ।हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः
”नारदः ।“उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः
दीयमानं गृह्णाति क्रीतं पण्यन्तु यः क्रयी ।स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः
”इति प्रायश्चित्ततत्त्वम्
*
अपि ।“न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति ।विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा
”न्यासं कृत्वा आधिं करोति आधिं कृत्वावा विक्रयं करोति विक्रयपदं स्वत्वध्वंसकत्वात्दानं लक्षयति परा क्रिया सिद्धेत्यर्थः एवञ्चविक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रय-दाने तत्कर्त्तृतुल्यस्वत्वजननात तत्र तत्क्रेतृ-प्रतिग्रहीतृभ्यामाध्युद्धारः कार्य्यः इति ।तत्र ।“न स्थावरस्य समस्तस्य गोत्रसाधारणस्य ।नैकः कुर्य्यात् क्रयं दानं परस्परमतं विना
विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः ।एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये
”इति व्यासवचनाभ्यामेकस्य दानबन्धकविक्रया-धिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्यस्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वच-नञ्च स्वामित्वेन दुर्व्वृत्तपुरुषगोचरविक्रयादिनाकुटुम्बविरोधादधर्म्मज्ञापनार्थनिषेधरूपं तुविक्रयाद्यनिष्पत्यर्थमिति दायभागः
*
एवञ्च ।“स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया
”इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवंभूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसा-दर्शनाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकंदत्त्वा दानरूपेण स्थावरविक्रय इति विज्ञाने-श्वरः
वस्तुतस्तु स्थावरविक्रयनिषेधो अवि-भक्तस्थावरविषयः तत्रापि यदि विक्रयं विनाअवस्थितिर्न भवति तदा विक्रयः कर्त्तव्यः ।पूर्व्वपुरुषार्ज्जितनष्टोद्धारे विशेषयति मिता-क्षरायाम् ।“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् ।असम्भूय सुतान् सर्व्वान् दानं विक्रयः
”इत्यादि
अस्यापवादमाह ।“एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम् ।आपत्काले कुटुम्बार्थे धर्म्मार्थे विशेषतः
”इति दायतत्त्वम्
द्रव्यविशेषविक्रयनिषेधो यथा स्मृतिः ।“विक्रीणन् मद्यमांसानि ह्यभक्षस्य भक्षणम् ।कुर्व्वन्नगम्यागमनं शूद्रः पतति तत्क्षणात्
कपिलाक्षीरपानेन ब्राह्मणीगमनेन ।वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत्
”कालिकापुराणम् ।“विक्रयं सर्व्ववस्तूनां कुर्व्वन् शूद्रो दोषभाक् ।मधु चर्म्म सुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्
”मनुः ।“सद्यः पतति लौहेन लाक्षया लवणेन ।त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात्
अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव ।यद्यवश्यन्तु विक्रेयास्तिला धान्येन तत्समाः
”इत्याह्निकतत्त्वम्
“गवां विक्रयकारी गवि लोमानि यानि ।तावद्वर्षसहस्राणि गवां गोष्ठे क्रिमिर्भवेत्
”इति यमवचनम्
“गोवधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः ।तडागारामदाराणामपत्यस्य विक्रयः ।भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः
”इत्यादि मानवे ११ अध्याये उपपातकमध्येगणितम्
कृदन्तरूपमाला
Sanskrit
1 {@“डुक्रीञ् द्रव्यविनिमये”@} 2 क्रायकः-यिका, 3 क्रापकः-पिका, चिक्रीषकः-षिका, चेक्रीयकः-यिका
4 क्रेता-त्री, क्रापयिता-त्री, चिक्रीषिता-त्री, चेक्रीयिता-त्री
5 कीणन् 6 ती, क्रापयन्-न्ती, चिक्रीषन्-न्ती
-- क्रेष्यन्-न्ती-ती, क्रापयिष्यन्-न्ती-ती, चिक्रीषिष्यन्-न्ती-ती
-- क्रीणानः, 7 परिक्रीणानः 8 -विक्रीणानः-अवक्रीणानः
क्रापयमाणः, चिक्रीषमाणः, चेक्रीयमाणः
केष्यमाणः, क्रापयिष्यमाणः, चिक्रीषिष्यमाणः, चेक्रीयिष्यमाणः
9 यवक्रीः-यवक्रियौ-यवक्रियः
-- -- क्रीतम्-तः, 10 क्रापितः, चिक्रीषितः, चेक्रीयितः-तवान्, कयः, 11 मांसविक्रयी, 12 सोमविक्रयी, अन्नविक्रयी, 13 धान्यविक्रायः, क्रापः, चिक्रीषुः, चेक्रियः
क्रेतव्यम्, कापयितव्यम्, चिक्रीषितव्यम्, चेक्रीयितव्यम्
क्रयणीयम्, क्रापणीयम्, चिक्रीषणीयम्, चेक्रीयणीयम्
14 क्रय्यम्-क्रेयम्, क्राप्यम्, चिक्रीष्यम्, चेक्रीय्यम्
ईषत्कयः-दुष्क्रयः-सुक्रयः
-- -- क्रीयमाणः, क्राप्यमाणः, चिक्रीष्यमाणः, चेक्रीय्यमाणः
15 16 क्रयः, 17 निष्क्रयः, 18 अवक्रयः, विक्रयः, क्रापः, 19 क्रीत्रिमम्, क्रापः, चिक्रीषः, चेक्रीयः
क्रेतुम्, क्रापयितुम्, चिक्रीषितुम्, चेक्रीयितुम्
विक्रीतिः, क्रापणा, चिक्रीषा, चेक्रीया
परिक्रयणम्, क्रापणम्, चिक्रीषणम्, चेक्रीयणम्
क्रीत्वा, क्रापयित्वा, चिक्रीषित्वा, चेक्रीयित्वा
विक्रीय, विक्राप्य, विचिक्रीष्य, विचेक्रीय्य
क्रायम् २, क्रीत्वा २, क्रापम् २, क्रापयित्वा २, चिक्रीषम् २, चिक्रीषित्वा २, चेक्रीयम्
चेक्रीयित्वा
20 इकन् प्रत्यये क्रयिकः इति रूपम्।
पण्यसङ्ग्रहीता = क्रयिकः।]] क्रयिकः।
प्रासङ्गिक्यः
01
=>
(२७४)
02
=>
(९-क्र्यादिः-१४७३। सक। अनि। उभ।)
03
=>
[[७। ‘कीङ्जीनां णौ’ (६-१-४८) इत्यात्वे, ‘अर्तिह्रीव्ली--’ (७-३-३६) इति णौ पुगागमः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[पृष्ठम्०२८४+ २५]
05
=>
[[१। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। णत्वम्।]]
06
=>
[[आ। ‘क्रीणन् गुणैर्जनमतिं प्रियरूप ईशः मांसश्रियां प्रमयकृत् सितपीतचेलः।’ धा। का। ३-५।]]
07
=>
[[२। ‘परिव्यघेभ्यः क्रियः’ (१-३-१८) इत्यात्मनेपदमेव, तु शता।]]
08
=>
[[B। ‘कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्। पित्रा संरक्षितं शक्रात् मैनाकाद्रिमैक्षत।।’ भ। का। ८-८।]]
09
=>
[[३। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्।]]
10
=>
[[C। ‘सम्भोगाय परिक्रीतः कर्ताऽस्मि तव नाप्रियम्।।’ भ। का। ८-७८।]]
11
=>
[[४। ‘कर्मणीनिर्विक्रियः’ (३-२-९३) इत्यत्र ‘कुत्सितग्रहणं कर्तव्यम्’ (वा। ३-२-९३) इति वचनात् कुत्मायामिनिः।]]
12
=>
[[ड्। ‘मांसविक्रयिणः कर्म व्याधस्यापि विगर्हितम्।’ भ। का। ६-१२९।]]
13
=>
[[५। कुत्साया अभावे ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
14
=>
[[६। ‘क्रय्यस्तदर्थे’ (६-१-८२) इति निपातनात् यति अयादेशः। ‘क्रेतारः क्रीणीयु- रिति बुद्ध्या आपणे प्रसारितं द्रव्यम् = क्रय्यम्। क्रेयम् अन्यत्।’ इति सिद्धान्तकौमुदी।]]
15
=>
[पृष्ठम्०२८५+ २६]
16
=>
[[१। ‘एरच्’ (३-३-५६) इति भावे अच्।]]
17
=>
[[आ। ‘स्वामिनो निष्क्रयं गन्तुमाविष्कृतबलः कपिः। रराज समरे शत्रून् घ्नन् दुष्कृतबहिष्कृतः।।’ भ। का। ९-६१।]]
18
=>
[[२। ‘आयस्थानेषु वणिगादिभिर्दीयमानः स्वामिग्राह्यो भागः = अवक्रयः। यस्य ‘पिण्डक’ इति प्रसिद्धिः।’ इति माधवधातुवृत्तौ। ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति घः।]]
19
=>
[[३। ‘ड्वितः क्त्रिः’ (३-३-८८) इति भावे क्त्रिः। ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति तेन निर्वृत्तम्-- (४-४-१९) इत्यर्थे मप्। मप्प्रत्ययान्त एव प्रयोज्यः।]]
20
=>
[[४। औणादिके [द। उ। ३-१६]