| YouTube Channel

वाहनं (vAhanaM)

 
Apte 1890
English
वाहनं [वाहयति वह्-णिच् ल्यु ल्युट् वा] 1 Bearing, carrying, conveying.
2 Driving (as a horse).
3 A vehicle, conveyance of any kind
Ms. 7. 75
N. 22. 45.
4 An animal used in riding or draught, as a horse
दुष्प्रापयशाः प्रापदाश्रमं श्रांतवाहनः R. 1. 48, 9. 25, 60.
5 An elephant.
शब्दकल्पद्रुमः
Sanskrit
वाहनं,
क्ली,
(वहत्यनेनेति वह + करणे ल्युट् ।“वाहनमाहितात् ।” इत्यत्र“वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।”इति भट्टोजिदीक्षितोक्त्या निपातनात् वृद्धिः ।)हस्त्यश्वरथदोलादिः तत्पर्य्यायः यानम् २युग्यम् पत्रम् धोरणम् इत्यमरः ।२ ५८
*
(यथा, रघुः ११ १० ।“पूर्व्ववृत्तकथितैः पुराविदःसानुजः पितृसखस्य राघवः ।उह्यमान इव वाहनोचितःपादचारमपि व्यभावयत्
”)देव्या वाहनानि यथा, --“विष्णब्रह्मशिवैर्द्देवैर्ध्रियते सा जगन्मयी
सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः ।हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः
स्वमूर्त्त्या वाहनत्वन्तु तेषां यस्मान्न युज्यते ।तस्मान्मूर्त्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः
यस्मिन् यस्मिन्महामाया प्रीणाति सततंशिवा ।तेन तेनैव रूपेण आसनान्यभवन् त्रयः
”इति कालिकापुराणे ५७ अध्यायः
*
देवदानवानां वाहनानि यथा, --पुलस्त्य उवाच ।“शृणुष्व कथयिष्यामि सर्व्वेषामपि नारद ।वाहनानि समासेन एकैकस्यानुपूर्व्वशः
रुद्रहस्ततलोत्पन्नं महाकायं महागजम् ।श्वेतवर्णं महावीर्य्यं देवराजस्य वाहनम्
रौद्रौजःसम्भवं भीमं कृष्णवर्णं मनोजवम् ।पौण्ड्रकं नाम महिषं धर्म्मराजस्य नारद
रुद्रमानस-सम्भूतं श्यामं जलधिसंज्ञकम् ।शिशुमारं दिव्यगतिं वाहनं वरुणस्य
रौद्रं शकटचक्राक्षं शैलाकारनरोत्तमम् ।अम्बिकापादसम्भू तं वाहनं धनदस्य तु
एकादशानां रुद्राणां वाहनानि महामुने ।गन्धर्व्वाश्च महावीर्य्या भुजगेन्द्राः सुदारुणाः
श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि ।रथं चन्द्रमसश्चार्द्धं सहस्रहंसवाहनम्
हयोढरथवाहाश्च आदित्या मुनिसत्तम ।कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः
किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ ।शारङ्गाधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः
शुकारूढाश्च कवयो गन्धर्व्वाश्च पदातिनः ।आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः
सन्नह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः
*
नारद उवाच ।गदितानि सुरादीनां वाहनानि महामुने ।दैत्यानां वाहनान्येवं यथावद्वक्तुमर्हसि
पुलस्त्य उवाच ।शृणुष्व दानवादीनां वाहनानि द्विजोत्तम ।कथयिष्यामि तत्त्वेन यथावत् श्रोतुमर्हसि
अन्धकस्य रथो युक्तः श्रेष्ठः परमवाजिभिः ।कृष्णवर्णः सहस्रारस्त्रिनल्वपरिमाणवान्
प्रह्नादस्य रथो दिव्यः श्बेतवर्णैर्हयोत्तमैः ।उह्यमानस्तथाष्टाभिः श्वेतरुक्ममयः शुभः
विरोचनस्य तु गजः कुम्भस्य तु तुरङ्गमः ।जम्भस्य तु रथो दिव्यो हयैः काञ्चनसन्निभैः
शङ्कुकर्णस्य तरगो हयग्रीवस्य कुञ्जरः ।रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः ।शम्बरस्य विमानोऽभूदायः शङ्कोर्मृगाधिपः
”इति श्रीवामनपुराणे अध्यायः
(वाहयतीति वह + स्वार्थे णिच् + ल्युः ।वाहके, त्रि यथा, कथासरित्सागरे १२४ ।२२० -- २२२ ।“स वाहनानां नागानां शीकराम्बुमहाभरैः ।शूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः
”“नागानां वाहना मेघाः शूकरप्रेयसी क्षितिः ।विष्णोः शूकररूपस्य सा हि प्रियतमोच्यते
तस्यां मेघाम्बुभिर्धान्यमुत्पन्नं चेत् किमद्भुतम्
”)