| YouTube Channel

वासकः (vAsakaH)

 
Wordnet
Sanskrit
Synonyms:
वासकः, वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासिका, वाजिदन्तकः, वाशा, वृशः, अटरुषः, वाशकः, वासा, वासः, वाजी, वैद्यसिंही, मातृसिंहौ, वासका, सिंहपर्णी, सिंहिका, भिषङ्माता, वसादनी, सिंहमुखी, कण्ठीरवी, शितकर्णी, वाजिदन्ती, नासा, पञ्चमुखी, सिंहपत्री, मृगेन्द्राणी
noun
औषधीयक्षुपः यः चतुष्पादम् आरभ्य अष्टपादपर्यन्तं विस्तृतः भवति एवं श्वेतपुष्पाणि भवन्ति।
"वासकस्य फलं पादोनचतुरङ्कुलं उन्नतं रोमावृतं भवति एवं प्रत्येकस्मिन् फले बीजचतुष्टयं भवति।"
Synonyms:
वासकः
noun
एकः सर्पः
"वासकस्य उल्लेखः महाभारते अस्ति"
Synonyms:
वासकः
noun
एकः सर्पासुरः
"वासकस्य उल्लेखः महाभारते वर्तते"
Synonyms:
वासकः
noun
एकः जनसमुहः
"वासकस्य उल्लेखः मार्कण्डेयपुराणे वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: वासकः
Root: वासक
Gender: पुं
Number: all
अर्थः वाशा
Meaning(s):
Justicia adatoda and J ganderussa
Tamil Āḍātoḍai
Shloka(s):
3|3|101|2 वासके त्वाटरूषः स्यात् सिंहास्यो वाजिदन्तकः॥ (भूमिकाण्डः/वनाध्यायः)
3|3|102|1 वाशा सिंही वैद्यमाता वार्ताक्यां दुष्प्रधर्षिणी। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|101|2 वासकः (वासक) (पुं) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
3|3|101|2 आटरूषः (आटरूष) (पुं) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
3|3|101|2 सिंहास्यम् (सिंहास्य) (नपुं) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
3|3|101|2 वाजिदन्तकः (वाजिदन्तक) (पुं) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
3|3|102|1 वाशा (वाशा) (स्त्री) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
3|3|102|1 सिंही (सिंही) (स्त्री) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
3|3|102|1 वैद्यमातृ (वैद्यमातृ) (स्त्री) Justicia adatoda and J ganderussa
Tamil Āḍātoḍai वाशा
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
वासकः,
पुं,
(वासयतीति वासि + ण्वुल् ।) वृक्ष-विशेषः वाकस इति भाषा तत्पर्य्यायः ।वैद्यमाता सिंही वासिका वृषः ५अटरुषः सिंहास्यः वाजिदन्तकः ।इत्यमरः
वाशा वाशिका १० वृशः ११अटरूषः १२ वाशकः १३ इति तट्टीका
वासा १४ वासः १५ वाजी १६ वैद्यसिंही १७मातृसिंही १८ इति शब्दरत्नावली
वासका १९ सिंहपर्णी २० इति जटाधरः
सिंहिका २१ भिषङ्माता २२ वसादनी २३सिंहमुखी २४ कण्ठीरवी २५ शितकर्णी २६वाजिदन्ती २७ नासा २८ पञ्चमुखी २९सिंहपत्री ३० मृगेन्द्राणी ३१ अस्य गुणाः ।तिक्तत्वम् कटुत्वम् शीतत्वम् काशरक्त-पित्तकामलाकफवैकल्यज्वरश्वासक्षयनाशित्वञ्च ।तत्पुष्पगुणाः कटुपाकित्वम् तिक्तत्वम् कास-क्षयहरत्वञ्च इति राजनिर्घण्टः
अपि ।“वासको वासिका वासा भिषङ्माता चसिंहिका ।सिंहास्यो वाजिदन्तः स्यादाटरुषोऽटरूषकः
आटरूषो वृषो नाम्ना सिंहपर्णश्च स्मृतः ।वासको वासकृत् सर्य्यः कफपित्तास्रनाशनः
तिक्तस्तुवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत् ।श्वासकासज्वरच्छर्द्दिमोहकुष्ठक्षयापहः
”इति भावप्रकाशः
*
गानाङ्गविशषः यथा, --“मनोहरोऽथ कन्दर्पश्चारुनन्दन एव ।चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा
”केषाञ्चिन्मते नामान्यपि पृथक् ।“विनोदो वरदश्चैव नन्दः कुमुद एव ।चत्वारो वासकाः प्रोक्ता गीतवाद्यविशारदैः
”इति सङ्गीतदामोदरः
(वासरः इति वासकसज्जाशब्दार्थे आलङ्का-रिकाः
)