| YouTube Channel

वारुणं (vAruNaM)

 
शब्दकल्पद्रुमः
Sanskrit
वारुणं,
क्ली,
(वरुणो देवतास्येति वरुण +अण् ।) जलम् इति राजनिर्घण्टः
(शत-भिषानक्षत्रम् यथा, तिथितत्त्वे ।“वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा
”उपपुराणविशेषः यथा, देवीभागवते ।३ १५ ।“वारुणं कालिकाख्यञ्च शाम्बं नन्दिकृतंशुभम् ।सौरं पाराशरप्रोक्तमादित्यं चातिबिस्तरम्
”पुं, भारतस्य खण्डविशेषः यथा, विष्णुपुराणे ।२ ।“इन्द्रद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ बारुणः
”)वरुणसम्बन्धिनि, त्रि यथा, --“पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते ।उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत्
उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ।प्लक्षश्चोत्तरतो धन्यो विपरीतास्त्वसिद्ध्वये
”इति मात्स्ये २२९ अध्यायः
(यथा महाभारते १०२ ।“समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् ।कालेयाः संप्रवर्त्तन्ते त्रैलोक्यस्य विनाशने
”)