| YouTube Channel

वाराणसी (vArANasI)

 
शब्दसागरः
English
वाराणसी
f.
(-सी) The holy city Benares.
E.
वर best, अनस् water, affs.
अण् and ङीष् i. e. the Ganges on which it stands
also वराणसी
Capeller Eng
English
वाराणसी
f.
N.
of a city (Benares).
Yates
English
वाराणसी (सी) 3.
f.
Benares.
Spoken Sanskrit
English
वाराणसी vArANasI
f.
Benares
काशि kAzi
f.
Benares
काशिका kAzikA
f.
Benares
तपःस्थली tapaHsthalI
f.
Benares
तीर्थराजी tIrtharAjI
f.
Benares
वरणाशी varaNAzI
f.
Benares
काशिनगर kAzinagara
n.
Benares
वाराणसी vArANasI
f.
city Benares
जित्वरी jitvarI
f.
city of Benares
वाणारसी vANArasI
f.
city of Benares
वराणसी varANasI
f.
city of Benares
काशीनाथ kAzInAtha
m.
lord of Benares
काशिवर्धन kAzivardhana
n.
city of Benares
काशीमाहात्म्य kAzImAhAtmya
n.
glory of Benares
काशीपति kAzIpati
m.
sovereign of Benares
काशीराज kAzIrAja
m.
sovereign of Benares
महायात्रा mahAyAtrA
f.
pilgrimage to Benares
वाराणस्याम् vArANasyAm
ind.
in Varanasi (Benares)
वाराणसेय vArANaseya
adj.
produced or born in Benares
काशी-नगरी kAzI-nagarI
f.
city of Benares or VaraaNaasi
रुद्रावास rudrAvAsa
m.
rudra's abode i.e. kAzi or Benares
पञ्चक्रोशी paJcakrozI
f.
ground extending to that distance round Benares
पञ्चक्रोश paJcakroza
m.
ground extending to that distance round Benares
काशिखण्ड kAzikhaNDa
n.
section of the skanda-purANa treating of Benares
Wilson
English
वाराणसी
f.
(-सी) The holy city Benares.
E.
वर best, अनस् water, affs. अण् and ङीष्, i. e. the Ganges on
which it stands
also वराणसी.
Apte
English
वाराणसी [vārāṇasī], The holy city of Benares
कदा वाराणस्याम- मरतटिनीरोधसि वसन् Bh.
Apte 1890
English
वाराणसी The holy city of Benares.
Monier Williams Cologne
English
वाराणसी
f.
the city Benares (more properly written Banāras
accord.
to
JābālUp.
so called after the names of two rivers, वरणा and असि, or असी
also written वाणारसी, q.v., वराणसी or वारणसी),
MBh.
Kāv.
&c.
cf.
RTL.
434.
Monier Williams 1872
English
वाराणसी वाराणसी, f. the holy city Benares,
(also written वराणसी, q. v.)
—वाराणसी-माहात्-
म्य, अम्, n. ‘the glory of Benares, N. of a section
in the Kūrma and other Purāṇas.
Macdonell
English
वाराणसी vārāṇasī,
f.
N. of a city, Benares.
Benfey
English
वाराणसी वाराणसी,
f.
The city
Benares, Lass. 5, 20.
Apte Hindi
Hindi
वाराणसी
स्त्री*
- "वरणा असी तयोः नद्योरदूरे भवा इत्यर्थ अण् + ङीप्, पृषो* साधुः"
बनारस का पावन नगर
L R Vaidya
English
vArARasI {% f. %} The holy city of Benares.
Lanman
English
vārāṇasī, f. Vārānasī, the modern
Benares.
Wordnet
Sanskrit
Synonyms:
वाराणसी
noun
उत्तरप्रदेशे वर्तमानम् एकं मण्डलम्।
"वाराणसीमण्डलस्य मुख्यालयः वाराणस्यां वर्तते।"
Synonyms:
काशी, वाराणसी, मुक्तिक्षेत्रम्
noun
उत्तरप्रदेशे वर्तमानं नगरं यद् विख्यातं तीर्थस्थलम् अस्ति।
"वाराणसी गङ्गातटे अस्ति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
काशिर्वराणसी वाराणसी शिवपुरी सा ९७४
-wordlist-
काशि (स्त्री), वराणसी (स्त्री), वाराणसी (स्त्री), शिवपुरी (स्त्री)
अभिधानरत्नमाला
Sanskrit
काशि
काशि, वाराणसी
विदेहा मिथिला प्रोक्ता काशिर्वाराणसी स्मृता
verse 2.1.1.287
page 0034
Tamil
Tamil
வாராணஸீ : காசி.
Mahabharata
English
Vārāṇasī, a city in the country of the Kāśis, the present Benares. § 167 (Vicitravīryoparama): I, 102, 4084 (the residence of the father of Ambā, etc.).--§ 370 (Tīrthayātrāp.): III, 84, 8056 (a tīrtha).--§ 561c (Kṛshṇa Vāsudeva): V, 48, †1883 (nagarī, burnt by Kṛshṇa).--§ 561 (Yānasandhip.): V, 50, 2007 (Kāśipatī rājā Vºyāṃ).--§ 589g (Dhṛshṭadyumna): VII, 10, 364 (at V. Dhṛshṭadyumna had vanquished the son of the Kāśi king).--§ 630 (Rājadh.): XII, 27, 807 (at V. Bhīshma had challenged all the kings, all. to § 167).--§ 680b (Tulādhāra-Jājalisaṃv.): XII, 262, 9284, 9287, 9319, 9321 (the abode of Tulādhāra).--§ 730 (Ānuśāsanik.): XIII, 14, 694 (Indra worshipped Śiva in V.)
18, 1333 (in V. Śiva made grants to Jaigīshavya).--§ 736b (Vītahavyop.): XIII, 30, 1955 (built by Divodāsa).-§ 763b (Maitreyabhikshā): XIII, 120, 5795.--§ 778b (Saṃvartta-Maruttīya): XIV, 6, 141 (the abode of Śiva), 146 (purīṃ). Cf. Kāśinagara, Kāśipura, Kāśipurī.
पुराणम्
English
वारणासी / VĀRAṆĀSĪ (vārāṇasī). kāśī.
(Before reading the information given here refer to the details given about kāśī under kāśī and divodāsa).1) The name vāraṇāsī. Formerly this place was known as prayāga. Later it got the name vāraṇāsī and then kāśī. The name vāraṇāsī is originated from two rivers. Bhagavān Yogaśāyī who stays in prayāga was born from a portion of Mahāviṣṇu. From the right leg of Yogaśāyī the river varaṇā started and from his left leg the river Asī started. These two rivers are praised and worshipped all over the world. The temple of Yogaśāyī is situated in the place between these two rivers. As the place is situated between varaṇā and Asī it is called Vāraṇāsi. (vāmana purāṇa, Chapter 3).2) Other information. (i) bhīṣma went to kāśī and took ambā, ambikā and ambālikā, the daughters of the King of kāśī, to his kingdom by force. (M.B. Ādi Parva, Chapter 102, Stanza 3).(ii) vāraṇāsī is a holy place of pilgrimage. By bathing in Kapilāhrada, a holy bath there, and worshipping śaṅkara, one could obtain the fruits of performing the sacrifice rājasūya. (M.B. Vana Parva, Chapter 84, Stanza 78).(iii) The middle part of vāraṇāsī is called avimukta. Those who forsake their lives at avimukta will obtain heaven. (M.B. Vana Parva, Chapter 84, Stanza 79).(iv) Once śrī kṛṣṇa made vāraṇāsī a prey to fire. (M.B. Udyoga Parva, Chapter 48, Stanza 76).(v) A very great scholar named tulādhāra vaiśya once lived in vārāṇasī. (M.B. śānti Parva, Chapter 261, Stanza 41).(vi) Once, in ancient days, śiva imparted to the hermit Jaigīṣu at this place, the eight miraculous attainments such as aṇimā, garimā etc. (M.B. Anuśāsana Parva, Chapter 18, Stanza 37).(vii) vāraṇāsī is equal to the capital city of indra (amarāvatī). (M.B. anuśāsana parva, Chapter 30, Stanza 16).(viii) In ancient days a hermit named Saṁvartta used to come here daily to worship śiva. It was at this place that the emperor marutta accepted the hermit Saṁvartta as his priest. (M.B. aśvamedha Parva, Chapters 6 and 7).
शब्दकल्पद्रुमः
Sanskrit
वाराणसी,
स्त्री,
(वरणा असी तयोर्नद्यो-रदूरे भवा “अदूरभवश्च ।” ७० ।इत्यण् ङीप् पृषोदरादित्वात् साधुः अस्यानिरुक्तिर्यथा, --“वरणासी नद्यौ द्वे पुण्ये पापहरे उभे ।तयोरन्तर्गता या तु सैषा वाराणसी स्मृता
”)मोक्षदपुरीविशेषः वनारस् इति हिन्दीभाषा तत्पर्य्यायः वारणसी काशी ३शिवपुरी इति हेमचन्द्रः
जित्वरी ५तपःस्थली वरणसी तीर्थराजी काशिका९ इति शब्दरत्नावली
तस्या माहात्म्यंयथा, --ईश्वर उवाच ।“परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।सर्व्वेषामेव भूतानां संसारार्णवतारिणी
तत्र भक्ता महादेवि ! मदीयं व्रतमाश्रिताः ।निवसन्ति महात्मानः परं नियममास्थिताः
उत्तमं सर्व्वतीर्थानां स्थानानामुत्तमञ्च यत् ।ज्ञानानामुत्तमं ज्ञानं अविमुक्तपुरं मम
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि ।श्मशानसं स्थितान्येव दिव्यभूमिगतानि
भूर्लोके नैव संलग्नमन्तरीक्षे ममालयम् ।अमुक्तास्तन्न पश्यन्ति मुक्ताः पश्यन्ति चेतसा
श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् ।कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि !
देवीदं सर्व्वगुह्यानां स्थानं प्रियतरं मम ।यद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतञ्च यत् ।ध्यानमध्ययनं ज्ञानं सर्व्वं तत्राक्षयं भवेत्
जन्मान्तरसहस्रेषु यत् पापं पूर्व्वसञ्चितम् ।अविमुक्तं प्रविष्टस्य तत्सर्व्वं व्रजति क्षयम्
ब्राह्मणाः क्षत्त्रिया वैश्या शूद्रा ये वर्णसङ्कराः ।स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पाप-योनयः
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।कालेन निधनं प्राप्ताः स्वविमुक्ते वरानने !
चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।शिवे मम पुरे देवि ! जायन्ते तत्र मानवाः
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्विषी ।ईश्वरानुगृहीता हि सर्व्वे यान्ति परां गतिम्
मोक्षं सुदुर्ल्लभं मत्वा संसारञ्चातिभीषणम् ।अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः
दुर्ल्लभा तपसा चापि पूतस्य परमेश्वरि ! ।यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ! ।अप्रबुद्धा पश्यन्ति मम मायाविमोहिताः
अविमुक्तं पश्यन्ति मूढा ये तमसावृताः ।विण्मूत्ररेतसां मध्ये तेषां वासः पुनः पुनः
हन्यमानोऽपि यो विद्वान् वसेद्बिघ्नशतैरपि ।स याति परमं स्थानं यत्र गत्वा शोचति
जन्ममृटत्युजरायुक्तं परं यान्ति शिवालयम् ।अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम्
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डिताः ।न दानैर्न तपोभिश्च यज्ञैर्नापि विद्यया
प्राप्यते मतिरुत्कृष्टा या विमुक्ते तु लभ्यते ।नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः
किल्विषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।भेषजं परमं तेषामविमुक्तं विदुर्ब्बुधाः
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम्
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।तेषां तत् परमं ज्ञानं ददाम्यन्ते परं पदम्
प्रयागं नैमिषं पुण्यं श्रीशैलोऽथ हिमालयः ।केदारं भद्रकर्णञ्च गया पुष्करमेव
कुरुक्षेत्रं रुद्रकोटिर्नर्म्मदा स्नातकेश्वरम् ।शालग्रामञ्च कुब्जाम्रं कोकामुखमनुत्तमम्
प्रभासं विषयेशानं गोकर्णं भद्रकर्णकम् ।एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि तु
यास्यन्ति परं मोक्षं वाराणस्यां तथा मृताः ।वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ।अन्यत्र शुभगा गङ्गा श्राद्धं दानं तपो जपः
व्रतानि सर्व्वमेवैतत् वाराणस्यां सुदुर्लभम् ।यजेत जुहुयान्नित्यं ददात्यर्च्चयतेऽमरान्
वायुभक्ष्यश्च सततं वाराणस्यां स्थितो नरः ।यदि पापो यदि शठो यदि वा धार्म्मिको नरः ।वाराणसीं समासाद्य पुनाति सकलं नरः
वाराणस्यां महादेवं येऽर्च्चयन्ति स्तुवन्ति वै ।सर्व्वपापविनिर्म्मुक्तास्ते विज्ञेया गणेश्वराः
अन्यत्र योगज्ञानाभ्यां सन्न्यासादथ नान्यतः ।प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मनः
ये भक्त्या देवदेवेशं वाराणस्यां वसन्ति वै ।ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।अविमुक्तं तदासाद्य नान्यद्ग च्छेत्तपोवनम्
ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् ।या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु
यानि चैवाविमुक्तस्य देहे भुक्तानि कृत्स्नशः ।पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिका शुभा
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ।व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तके
तत्तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ।एकेन जन्मना देवि वाराणस्यां तदाप्नुयात्
भ्रूमध्ये नाभिमध्ये हृदये चैव मूर्द्धनि ।यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ।वारणायास्तथा चास्या मध्यं वाराणसी पुरी
तत्रैव संस्थितं भद्रं नित्यमेवाविमुक्तकम् ।वाराणस्याः परं स्थानं भूतं भविष्यति
यत्र नारायणो देवो महादेवाधिरीश्वरः ।तत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः ।उपासते मां सततं देवदेवः पितामहः
महापातकिनो ये ये वै पापकृत्तमाः ।वाराणसीं समासाद्य ते यान्ति परमां गतिम् ।तस्मान्मुमुक्षुर्विवशो वसेद्वै मरणान्तिकम्
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ।किन्तु विघ्ना भविष्यन्ति पापौघहतचेतसः
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।यथेश्वराणां गिरिशः स्थानानां वै तदुत्तमम्
यैः समाराधितो रुद्रः पूर्व्वस्मिन्नेव जन्मनि ।ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम्
ये स्मरन्ति सदा कालं वदन्ति पुरीमिमाम् ।तेषां विनश्यति क्षिप्रमिहामुत्र पातकम्
आचक्षध्वमिदं स्थानं सेवितं मोक्षकाङ्क्षिणाम् ।मृतानाञ्च पुनर्जन्म भूयो भवसागरे
तस्मात् सर्व्वप्रयत्नेन वाराणस्यां वसेन्नरः ।योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः
”इति कौर्म्मे २८ अध्यायः
*
अन्यच्च ।“वाराणसी नाम पुरी गङ्गातीरे मनोहरे ।वरणायास्तथा वासेर्मध्ये चापाकृतिः सदा
स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् ।सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः
वियत्स्था सा पुरी नित्यं भर्गयोगबलाद्भृता ।दिव्यं ज्ञानं ददात्येष तत्र यो म्रियते जनः
तस्मै स्वयं महादेवः संसारग्रन्थिमुक्तये ।स भूत्वा परमो योगी मृतस्तत्र भवान्तरे
सुलभेनैव निर्व्वाणमाप्नोति स्मरहासमः ।योगयुक्तो महादेवः पार्व्वत्या सहितः सदा
देवगन्धर्व्वयक्षाणां मानुषाणाञ्च नित्यशः ।ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम्
तत्र कामदो देवो चिराच्च प्रसीदति ।आराधितश्चिरं भक्त्या निर्व्वाणाय प्रसीदति
गौर्य्यादिवर्ज्जिता सा तु पुरी तत्र गच्छति ।योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी
आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् ।कथितं नातिदूरे वर्त्ततेऽमरसत्तमौ
”इति कालिकापुराणे ५० अध्यायः
*
अथ काशीयात्राविधिः ।सूत उवाच ।“यात्रापरिक्रमं ब्रूहि जनानां हितकाम्यया ।यथावत् सिद्धिकामानां सत्यवत्याः सुतो मम
व्यास उवाच ।निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ।यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्म्मुद
सचेलमादौ संस्नाय चक्रपुष्करिणीजले ।सन्तर्प्य देवान् सपितॄन् ब्राह्मणांश्च तपस्विनः
आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम् ।नमस्कृत्य ततो गच्छेत् द्रष्टुं ढुण्ढिविनायकम्
ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्च्चयेत् ।तारकेशं समभ्यर्च्च्य महाकालेश्वरं ततः
ततः पुनर्द्दण्डपाणिमित्येषा पञ्चतीर्थिका ।दैनन्दिनी विधातव्या महाफलमभीप्सुभिः
*
ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धये ।द्विसप्तायतनानाञ्च कार्य्या यात्रा प्रयत्नतः
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ।अथवा प्रतिभूतञ्च क्षेत्रसिद्धिमभीप्सुभिः
तत्ततीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः ।मौनेन यात्रां कुर्व्वाणः फलं प्राप्नोति यात्रिकः
ओँकारं प्रथमं पश्येत् मत्स्योदर्य्यां कृतोदकः ।त्रिपिष्टपमहादेवं ततो वै कृत्तिवाससम्
रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् ।धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः
विश्वकर्म्मेश्वरञ्चाथ मणिकर्णीश्वरं ततः ।अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ।एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः
यस्तु क्षेत्रमुषित्वापि नैतां यात्रां समाचरेत् ।विघ्नास्तस्योपजायन्ते क्षेत्रोच्चाटनसूचकाः
*
अष्टायतनयात्रान्या कर्त्तव्या विघ्नशान्तये
दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः ।गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ।दृश्यान्येतानि लिङ्गानि महापापापशान्तये
*
अपरापि शुभा यात्रा योगक्षेमकरी सदा ।सर्व्वविघ्नोपहन्त्री कर्त्तव्या क्षेत्रवासिभिः
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्व्वकम् ।स्नानन्तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः
स्वर्नीलतीर्थे सुस्नातः पश्येत् स्वर्नीलमीश्वरम् ।स्नात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः
पश्येद्धिरण्यगर्भाख्यं तत्र तीर्थं कृतोदकः ।पञ्चचूडह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत्
चतुःसमुद्रकूपे तु स्नात्वा देवं ततोऽर्च्चयेत् ।देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ।शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः ।दण्डखाते नरः स्नात्वा व्याघ्रेशं पूजयेत्ततः
शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत् ।जम्बुकेशं महालिङ्गं कृत्वा यात्रामिमां नरः
क्वचिन्न जायते भूयः संसारे दुःखसागरे ।समारभ्य प्रतिपदं यावत् कृष्णां चतुर्द्दशीम्
एतत्क्रमेण कर्त्तव्यान्येतदायतनानि वै ।इमां यात्रां नरः कृत्वा भूयोऽप्यभिजायते
अन्या यात्रा प्रकर्त्तव्यैकादशायतनोद्भवा ।अग्नीध्रकुण्डसुस्नातः पश्येदग्नीध्रमीश्वरम्
उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।आषाढीशं ततो दृष्ट्वा भावभूतेश्वरं ततः
लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् ।ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत्
मदालसेश्वरं तस्मात् तिलपर्णेश्वरं ततः ।यात्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः
इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्नुयान्नरः * ।अतः परं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम्
शुक्लपक्षतृतीयायां या यात्रा विश्ववृद्धिका ।गोप्रेक्ष्यतीर्थे सुस्नाय सुखनिर्म्मालिकां व्रजेत्
ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरिं समर्च्चयेत् ।सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः
ततः शृङ्गारगौरीञ्च तत्रैव कृतोदकः ।स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत्
सुस्नातो ललितातीर्थे ललितामर्च्चयेत्ततः ।स्नात्वा भवानीतीर्थे तु भवानीं परिपूजयेत्
मङ्गला ततोऽभ्यर्च्च्या बिन्दुतीर्थकृतोदकैः ।ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये
इमां यात्रां नरः कृत्वा क्षेत्रेऽस्मिन्मुक्तिजन्मनि ।न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित्
*
कुर्य्यात् प्रतिचतुर्थीह पूजां विघ्नेशितुः सदा ।ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे
भौमे भैरवयात्रा कार्य्या पातकहारिणी ।रविवारे रवेर्यात्रां षष्ठ्यां वा रविसंयुजि
तथैव रविसप्तम्यां सर्व्वविघ्नोपशान्तये ।नवम्यामथवा षष्ठ्यां चण्डीयात्रा शुभावहा
*
अन्तर्गृहस्य यात्रा वै कर्त्तव्या प्रतिवत्सरम् ।प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् ।नमस्कृत्वा विश्वेशं स्थित्वा निर्व्वाणमण्डपे ।अन्तर्गृहस्य यात्रां हि करिष्येऽघौघशान्तये
गृहीत्वा नियमञ्चेति गत्वाथ मणिकर्णिकाम् ।स्नात्वा मौनेन चागत्य मणिकर्णीशमर्च्चयेत्
कम्बलाश्वतरौ नागौ वासुकीशं प्रणम्य ।पर्व्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ
ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः ।ततो वै सोमनाथञ्च वराहञ्च ततो व्रजेत्
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ।कश्यपेशं नमस्कृत्य हरिकेशवनन्त्वथ
वैद्यनाथं ततो गत्वा ध्रुवेशमथ वीक्ष्य ।गोकर्णेशं ततोऽभ्यर्च्च्य हाटकेशमथो व्रजेत्
अस्थिक्षेपतडागेऽथ दृष्ट्वा वै कीकशेश्वरम् ।भावभूतं ततो नत्वा चित्रगुप्तेश्वरं ततः
चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् ।पितामहेश्वरं गत्वा ततस्तु कलसेश्वरम्
चन्देशन्त्वथ वीरेशो विघ्नेशोऽग्नीश एव
नागेश्वरो हरिश्वन्द्रश्चिन्तामणिविनायकः ।सेनाविनायकश्चाथ द्रष्टव्यः सर्व्वविघ्नहृत्
वशिष्ठवामदेवौ मूर्त्तिरूपधरावुभौ ।द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशनौ ।सीमाविनायकं नाथं करुणेशं ततो व्रजेत्
त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका ।आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः
चतुर्वक्रेश्वरं लिङ्गं ब्रह्मेशस्तु ततः परम् ।ततो मनःप्रकाशेश ईशानेशस्ततः परम्
चण्डीचण्डीश्वरौ दृश्यौ भवानीशङ्करौ ततः ।ढुण्ढिं प्रणम्य ततो राजराजं समर्च्चयेत्
लाङ्गलीशस्ततोऽभ्यर्च्च्यस्ततस्तु नकुलीश्वरः ।परार्णेशमथो नत्वा परद्रव्येश्वरं ततः
प्रतिग्रहेश्वरञ्चापि निष्कलङ्केशमेव ।मार्कण्डेयेशमभ्यर्च्च्य ततः अप्सरसेश्वरम्
गङ्गेशोऽर्च्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् ।नन्दिकेशं तारकेशं महाकालेश्वरं ततः
दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः ।वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः
विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् ।ततो मौनं विसृज्याथ मन्त्रमेनमुदीरयेत्
अन्तर्गृहस्य यात्रेयं यथावद्यन्मया कृता ।न्यृनातिरिक्तया शम्भुः प्रीयतामनया विभुः
इति मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे ।विश्राम्य यायाद्भवनं निष्पापः पुण्यवान्नरः
*
संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः ।कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये
नवम्यां पञ्चदश्याञ्च कुलस्तम्भं समर्च्चयेत् ।दुःखरुद्रपिशाचत्वे भवेदस्य पूजनात्
श्रुत्वा पूर्व्वमिमा यात्राः कर्त्तव्यास्तीर्थवासिभिः ।पर्व्वस्वपि विशेषेण कार्य्या यात्राश्च सर्व्वतः
बन्ध्यं दिवसं कुर्य्यात् विना यात्रां क्वचित् कृती ।यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् ।आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्भुवम्
यस्य बन्ध्यं दिनं जातं काश्यां निवसतः सतः ।निराशाः पितरस्तस्य तस्मिन्नेत दिनेऽभवन्
दष्टः कालसर्पेण दष्टो मृत्युना स्फुटम् ।स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः
सर्व्वतीर्थेषु सस्नौ सर्व्वयात्रां व्यधात् ।मणिकर्ण्यान्तु यः स्नातो यो विश्वेशं निरैक्षत
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका
व्यास उवाच ।सूत स्कान्दमिमं श्रुत्वा काशीमाहात्म्यमुत्तमम् ।नरो निरयं याति कृत्वाप्यघसहस्रकम्
”इति काशीखण्डे १०० अध्यायः
वाचस्पत्यम्
Sanskrit
वाराणसी स्त्री वरणा असी सोसात्वेनास्त्यस्या अण्पृषो० काशीपुर्य्यां हेम० पर्पा० वराणस्यप्यत्र वरणाशब्दे४८४९ पृ० दृश्यम्
Capeller
German
वाराणसी
f.
die Stadt Benares.
Burnouf
French
वाराणसी वाराणसी cf. वरणसी।
Stchoupak
French
वाराणसी-
(-र-)
f.
n.
d'une ville (Benares).