वापी (vApI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishवापी - vApI - - lake
वापी - vApI - - pool
वापी - vApI - - any pond
वापी - vApI - - particular constellation
वापी - vApI - - oblong reservoir of water
वापी - vApI - - large oblong pond
वापी - vApI - - tank
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Macdonell
EnglishApte Hindi
Hindiवापी
- वप् + ङीप्
"कुआँ, बावड़ी पानी का विस्तृत आयताकार जलाशय"
वापी
- "वप्+इञ्, ङीप्"
"बावड़ी, बड़ा कुआँ"
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishLanman
EnglishSanskrit Tibetan
Tibetankhron pa
१( उदपान २) कूप ३) कूपक ४) वापी
अभिधानचिन्तामणिः
Sanskritआहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ॥ १०९२ ॥
वापी स्यात्क्षुद्रकूपे तु चूरी चूण्ढी च चूतकः ।
आहाव (पुं), निपान (पुंक्ली), दीर्घिका (स्त्री), वापी (स्त्री), क्षुद्रकूप (पुंस्त्री), चुरी (स्त्री), चुण्ढी (स्त्री), चूतक (पुं)
अभिधानरत्नमाला
Sanskritवापी
वापी, आहाव
निपानमुदपानं च वाप्याहावश्च कथ्यते ॥ ६८४ ॥
verse 3.1.1.684
page 0078
अमरकोशः
SanskritWord: वापी
Root: वापी
Gender: स्त्री
Number: all
Meaning(s):
⇒ tank
⇒ lake
⇒ pool
⇒ any pond
⇒ large oblong pond
⇒ particular constellation
⇒ oblong reservoir of water
Shloka(s):
1|10|28|2 ► वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥ (वारिवर्गः)
Synonym(s):
➠ 1|10|28|2 ⇢ वापी (वापी) (स्त्री) ⇒ tank, lake, pool, any pond, large oblong pond, particular constellation, oblong reservoir of water
➠ 1|10|28|2 ⇢ दीर्घिका (दीर्घिका) (स्त्री)
Related word(s):
परा_अपरासंबन्धः ➡ तटाकादयः
जातिः ➡ मानवनिर्मितिः
शब्दकल्पद्रुमः
Sanskritवापी, (वापि + कृदिकारादिति ङीष् ।)दीघिका । इत्यमरः । १ । १० । २८ ॥
उप्यतेपद्मादिकं अस्याम् । वाप्यां वापिरपि स्मृता ।इति द्विरूपकोषः ॥
इति तट्टीकायां भरतः ॥
* ॥
तस्या लक्षणं यथा । नव्यवर्द्धमानधृतो वशिष्ठः ।शतेन धनुर्भिः पुष्करिणी । त्रिभिः शतै-र्दीर्घिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः ।द्रोणाद्दशगुणा वापी । तेन चतुर्द्दिक्षु पञ्चत्रिंश-द्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेनदीर्घिका । चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यूनतायांषोडशशतहस्तान्तरान्यूनत्वेन द्रोणः । चतु-र्द्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडश-सहस्रहस्तान्तरान्यूनत्वेन वापी । इति जला-शयोत्सर्गतत्त्वम् ॥
* ॥
तत्खननफलं यथा, --“यो वापीमथवा कूपं देशे वारिविवर्ज्जिते ।खानयेत् स दिवं याति बिन्दौ बिन्दौ शतंसमाः ॥
”इति कल्पतरौ वायुपुराणम् ॥
तज्जलगुणाः ।“याप्यं गुरु कटु क्षारं पित्तलं कफवातजित् ।”इति राजवल्लभः ॥
तत्खनने दिङ्निषेधो यथा, --“वापीकूपतडागं वा प्रासादं वा निकेतनम् ।न कुर्य्याद्वृद्धिकामस्तु अनलानिलनैरृते ॥
आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म्मकृत् ।वायव्यां बलवित्तञ्च पीयमाने जले प्रिये ॥
स्थानस्य पावके भागे वापीकूपतडागकम् ।अग्निदाहं सदा कुर्य्यात् समानुषचतुष्पदाम् ॥
नैरृते पीयमानन्तु आत्मना दुःखितो भवेत् ।कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः ॥
इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥
तत्करणफलं यथा, --शर्म्मिल उवाच ।“तडागोदकवापीनां कृतानामिह यत् फलम् ।विशेषेण पितृश्रेष्ठ वक्तुमर्हस्यशेषतः ॥
यम उवाच ।धर्म्मस्यार्थस्य कामस्य यशसश्च द्बिजोत्तम ।तडागं सुप्रभूताम्बु परमायतनं स्मृतम् ॥
देवताः पितरो नागा गन्धर्व्वा यक्षराक्षसाः ।पशुपक्षिमनुष्याश्च संश्रयन्ति जलाशयम् ॥
कृत्स्नं तारयते वंशं पश्य खाते जलाशये ।गावः पिबन्ति पानीयं मनुष्याः पशवस्तथा ॥
शरदृतौ तडागेषु सलिलं यस्य तिष्ठति ।अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥
येषां शिशिरकाले तु पानीयं प्रतितिष्ठति ।वाजपेयातिसत्राभ्यां फलं बिन्दन्ति मानवाः ॥
वसन्ते चैव ग्रीष्मे तु सलिलं यस्य तिष्ठति ।राजसूयाश्वमेधाभ्यां स फलं समुपाश्नुते ॥
तडागं सर्व्वसत्त्वानां जीवनन्तु दिवानिशम् ।तस्मात् सर्व्वात्मना वत्स तडागमिह कार-येत् ॥
कृत्स्नं हि तारयेद्बंशं पुरुषस्य न संशयः ।सावतारः कृतः कूपः सम्प्रभूतजलस्तथा ॥
यस्य स्वादुजलं कूपे पिबन्ति सततं जनाः ।स नरो विरजो लोके देववद्दिवि मोदते ॥
पीत्वैवेक्षुरसं क्षीरं दधि मधु सुरासवम् ।तावत् पिपासा नापैति यावत्तोयं न पीयते ॥
जीवन्ति चान्नरहिता दिवसानि बहून्यपि ।तृषितस्तोयरहितो दिनमेकं न जीवति ॥
तस्माद्ददाति यो नित्यं पानीयं प्राणिनामिह ।स ददाति नरः प्राणान् माभूत्ते ह्यत्र संशयः ॥
प्राणदानात् परं नाम नान्यद्दानं हि विद्यते ।तस्माद्वापीश्च कूपांश्च तडागानि च कार-येत् ॥
सवृक्षाणि ह विप्रर्षे यदीच्छेत् श्रियमात्मनः ।शुष्कं परनिपानन्तु यः कारयति शक्तितः ।सन्तारयति भूयोऽपि द्विगुणं तस्य वै फलम् ॥
”इति वह्निपुराणे तडागवृक्षप्रशंसानामाध्यायः ॥
वाचस्पत्यम्
Sanskritवापि(पी) स्त्री वप--इञ् वा ङीप् । “द्रोणात् दशगुणाषापी” इत्युक्तलक्षणे १ जलाशयभेदे जलाशयशब्दे दृश्यम्२ जनाशयमःत्रे च “वापीं स्नातुभितो गतासि” इतिकाव्यप्र० । “यो वापीमथ वा कूपं देशे वारिविवर्जिते ।खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्पतरौ वायुपु० तज्जलगुणाः “वाप्यं गुरु कदुक्षारं पित्तलकफवातजित्” राजवल्लभ । “वापीकूपतडागं वापासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनला-निलनैरृते । आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्मकृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे! ।स्थानस्य पःपके भागे वापीकूपतडानकम् । अग्निदाहसदा कुर्याव समानुषचतुष्पदाम् । नैरृते पीयमा-नन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलंपीत्वा पतिं गृह्णाति कामतः” देवीपु० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
