| YouTube Channel

वाक्पारुष्य (vAkpAruSya)

 
शब्दसागरः
English
वाक्पारुष्य
n.
(-ष्यं) Abuse, scurrility, defamation, wordy violence or
assault.
E.
वाक् speech, पारुष्य violence.
Capeller Eng
English
वाक्पारुष्य
n.
roughness of speech, verbal injury.
Yates
English
वाक्-पारुष्य (ष्यं) 1.
n.
Abuse, scurrility.
Spoken Sanskrit
English
वाक्पारुष्य vAkpAruSya
n.
harshness of speech
वाक्पारुष्य vAkpAruSya
n.
abusive words
वाक्पारुष्य vAkpAruSya
n.
insulting or scurrilous language
Wilson
English
वाक्पारुष्य
n.
(-ष्यं) Abuse, scurrility, defamation, wordy violence or
assault.
E.
वाक् speech, पारुष्य violence.
Monier Williams Cologne
English
वाक्—पारुष्य
n.
harshness of sp°,
ŚārṅgP.
abusive words, insulting or scurrilous language,
Mn.
Pañcat.
Apte Hindi
Hindi
वाक्पारुष्यम्
नपुं*
वाच्- पारुष्यम् -
भाषा की कर्कशता
वाक्पारुष्यम्
नपुं*
वाच्- पारुष्यम् -
"शब्दों द्वारा अपमान, अपशब्दयुक्त भाषा, मानहानि"
L R Vaidya
English
vAkpAruzya {% n. %} severity of language, defamation (in law).
Indian Epigraphical Glossary
English
vāk-pāruṣya (EI 30), use of abusive language.
अभिधानचिन्तामणिः
Sanskrit
--source--
मृगयाक्षः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ७३८
दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम्
-wordlist-
मृगया (स्त्री), अक्ष (पुं), स्त्री (स्त्री), पान (क्ली), वाक्पारुष्य (क्ली), अर्थदूषण (क्ली), दण्डपारुष्य (क्ली), व्यसनसप्तक (क्ली)
पुराणम्
English
वाक्पारुष्य / VĀKPĀRUṢYA (Using harsh words). One of the wrongs brought under the rule of chastisement in ancient india. Without caring for the truth or falsity, a man praising another with a view to tease or offend him, is Vākpārusya. The teasing may be aimed at somebody with disabled members of the body or disabled organs of sense. Besides, using heart-rending words also comes under this crime. In olden days kings issued orders to fine anybody found guilty of this crime. Ordinarily the fine was 25 Paṇas. If the crime was committed against one who was below the level of the culprit the fine to be paid was only half. If harsh words were used against other women or people of a higher level the fine was double. (agni purāṇa, Chapter 258).
शब्दकल्पद्रुमः
Sanskrit
वाक्पारुष्यं,
क्ली,
(वाचा कृतं पारुष्यम् ।)अप्रियवाक्योच्चारणम् तत्तु सप्तधाव्यसनान्त-र्गतव्यसनविशेषः यथा, --“मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतज्ज्ञेयं व्यसनसप्तकम्
”इति हेमचन्द्रः
*
तल्लक्षणं नारदेनोक्तम् ।“देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् ।यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते
”देशादीना आक्रोशन्यङ्गसंयुतम् उच्चैर्भाषण-माक्रोशः न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थंउद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते
तस्य दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्य-मभिधाय तल्लक्षणं तेनैवोक्तम् ।“निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।गौरवानुक्तमात्रस्य दण्डोऽपि स्यात् क्रमाद्-गुरुः
साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् ।पतनीयैरुपाक्रोशैस्तीव्रमाहुर्म्मनीषिणः
इति
तत्र निष्ठुराक्रोशे स्ववर्णविषये दण्डमाह ।“सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।क्षेपङ्करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश
काणञ्चाप्यथवा खञ्चमन्यं वापि तथाविधम् ।तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम्
”इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् यदापुनः पुत्त्रादयो मात्रादीन् शपन्ति तदा शतंदण्डनीया इति तेनैवोक्तम् ।“मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् ।आक्षारयन् शतं दाप्यः पन्थानञ्चाददद्गुरोः
”इति
एतच्च सापराधेषु मात्रादिषु गुरुषु निरप-राधायाञ्च जायायां द्रष्टव्यम्
*
अश्लीला-क्षेपे दण्डमाह ।“अभिगन्तास्मि भगिनीं मातरं वा तवेति ।शपन् तन्दापयेद्राजा पञ्चविंशतिकं दमम्
दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः ।प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः
वणानामानुलोम्येन तस्मादर्द्धार्द्धहानितः
*
मनुः ।“शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु वधमर्हति
पञ्चशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने ।वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्बादशको दमः
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।शत्यस्तदर्द्धिकः पादो नासाकर्णकरादिषु
अशक्तस्तु वदन्नेव दण्डनीयः पणान् दश ।तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।उपपातकयुक्ते तु दाप्यः प्रथमसाहसः ।त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः
”इति मिताक्षरा
*
वाक्पारुष्ये अभियोगमनिस्तीर्य्य प्रत्यभियोजनेप्रतिप्रसवो यथा, --“कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु ।”वाक्पारुष्ये शस्त्रादिप्रहारेषु यथा पूर्व्व-महमप्यनेनाक्रुष्टः शस्त्रेण हतः इत्यपराधा-भावाय प्रत्यभियोगं कुर्य्यात् इति व्यवहार-तत्त्वम्
वाचस्पत्यम्
Sanskrit
वाक्पारुष्य
न०
वाचा कृतं पारुष्यम् वाक्यकृते पारुष्येतद्विषके विवादभेदे तद्विवृतिः वीरमि० उक्ता यथा“तस्य स्वरूपमाह नारदः “देशजातिकुलादीवामा-क्रोशं न्यङ्गसंयुतम् यद्वचः प्रतिकूलार्थं वाक्षारुष्यंतदुच्यते” इति आक्रोशः आक्षेपः भर्त्सनमिति यावत्कलहप्रियाः गौडा इति देशाक्रोशः अत्यन्तलोलुपाब्राह्मणा इति जात्याक्रीशः “क्रूरचरिता वैश्वामित्राइति कुलाक्षेपः न्यङ्गं निकृष्टाङ्गमवद्यञ्च तदुभययुक्तंयदुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यमित्यर्थः तस्यत्रैविध्यमाह एव “निष्ठुराश्लीलतीव्रत्वादपि तत् त्रिविधंस्मृतम् गौरवानुक्रमात्तस्य दण्डीऽपि स्यात् कमाद्गुरु-रिति” निष्ठुरादीनां स्वरूपमाह एव “साक्षेपन्निष्ठुरंज्ञेयमश्लीलं न्यङ्गसंयुतम् पतनीयैरुपाक्रोशैस्तीव्रमाहु-र्मनीषिणः” इति धिङ्मूर्ख! जाल्म! इत्यादिसाक्षेपम्भाषणं निष्ठुरम् न्यङ्गसंयुतं अवद्यम्भगिन्या-दिगमनसंयुतम् अश्लीलम् पतनीयैः सुरापानादिभि-रुपाक्रोशैस्तीव्रं वाक्पारुष्यमित्यर्थः कात्यायनोऽपि“यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् अभूतैर्वाथभूतैर्वा निष्ठुरा वाक् स्मृता तु सा न्यग्भावकरणंवाचा क्रोधात्तु कुरुते यदा वृत्तदेशकुलानान्तुअश्लीला सा बुधैः स्मृता महापातकयोक्त्री राम-द्वेषकरी या जातिभ्रंशकरी वाथ तीव्रा साप्रथिता तु वागियि ।” कल्पतरौ न्यङ्गावगूरणमितिपठित्वा निकृष्टाङ्गप्रकाशनेन तिरस्करणमिति व्याख्या-तम् न्यग्भावकरणमिति तु माधवादिसंमतः पाठः ।प्रथममध्यमोत्तममेदेन त्रैविध्यमाह वहस्पतिः “दोग्रामकुलादीनां क्षेपः पापेन योजनम् द्रव्यं विनातु प्रथमं वाक्पारुष्यं तदुच्यते भगिनीमातृसम्बन्ध-मुपपातकशंसनम् पारुष्यं मध्यमं प्रोक्तं वाचिकंशास्त्रवेदिभिः अभक्ष्यापेयकथनं महापातकदूषणम् ।पारुष्यमुत्तम “प्रोक्तं तीव्रं मर्माभिघट्टनमिति ।” द्रव्यंविनेत्यत्र द्रव्यशब्दोऽभिधेयपरः तेनोच्यमानार्थव्यति-रेकेणैवंविधमभिधानं वाक्पारुष्यमित्यर्थः इति कल्पतरौ द्रव्यं विना द्रव्यवैशिष्ट्यं विनेति मदनरत्ने ।अभिघट्टनं उत्पाटनम् निष्ठुराक्रोशे दण्डमाहयाज्ञवल्क्यः “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदशानिति अन्यथास्तोत्रन्निन्दास्तुतिः न्यूनाङ्गाः करा-दिरहिताः न्यूनेन्द्रियाः नेत्रादिरहिताः रोगिणःकुष्ठ्यादयः अर्द्धत्रयोदशान् अर्द्धाधिकद्वादशपणानि-त्यर्थः एतत् सवर्णविषयम् अतएव वृहस्पतिः“समजातिगुणानान्तु वाक्पारुष्ये परस्परम् विनयो-विहितः शास्त्रे पणा अर्द्धत्रयोदशाः” इति “विष्णुरपि“समवर्णाक्रोशे द्वादश पणान्दण्ड्य इति” परस्परमितिशेषः मनुनारदावपि “समवर्णे द्विजातीनां द्वादशैव व्यति-क्नमे वादेष्ववचनीयेषु तदेव द्विगुणं भवेदिति” शङ्खतिखितावपि “समवर्णव्यतिक्रमे द्वादशपणा यथारूप-विशिष्टाक्षेप्रेषु विशिष्टस्य चतुर्विंशतिरविशिष्टस्यातिक्रमेच विशिष्टस्य ततोऽर्द्धमिति अत्र द्वादशसार्द्धद्वादशयो-रुत्कृष्टानुत्कृष्टत्वेन व्यवस्था कात्यायनोऽपि” “योमुणान् कीर्त्तयेत् क्रोधान्निर्गुणे वा गुणज्ञताम् अन्यसंज्ञानियोजो वाग्दुष्टं तन्नरं विदुरिति” “नारदोऽपि“दुष्टस्यैव तु यो दोषान् कीर्त्तयेत् क्रोधकारणात् ।अन्यायदेशवादी वाग्दुष्टं तन्नरं विदुरिति” “अत्रकोधकारणादित्यनेन दुष्टपरित्यागार्थं दोषकीर्त्तने दोषइति सूचितम् अतएवोक्तं कात्यायनेन “यत्र स्वात्परि-हारार्थं पतितस्तेन कीर्त्तितः वचनात्तत्र स्यात्तु दोषोयम विभावयेदिति” “वचनात् दोषकीर्त्तनात् यत्रा-मियोगादौ पातित्यादिकं साधयेत्तत्रापि वचनाद्दोषो नस्यादिति यत्र विभावयेदित्यस्यार्थ उक्तः स्मृतिचन्द्रिका-याम् अत्रापि दण्डपारुष्यन्यायेन युगपत्प्रवृत्तयो-र्दण्डतुल्यत्वं अयुगपत्प्रवृत्तयोः पूर्वप्रवृत्तस्य दण्डाधि-क्यमिति द्रष्टव्यम् जातिगुणकृते विशेषे दण्डवैषम्य-माह तिः “नयोः ममो दण्डोन्यूनस्य -णोदमः “उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्पर-मिति” हीनस्योत्तनाक्षेपे द्विगुणः उत्तमस्य हीना-क्षेपेऽर्द्धपरिमितोदण्ड इत्यर्थः याज्ञवलक्योऽपि“अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु दण्डप्रण-यनं कार्यं वर्णजात्युत्तराधरैरिति” “अर्द्धः सार्द्धद्वाद०शपणात्मक इत्यर्थः पूर्ववाक्ये “पञ्चविंशतिको दम” इतिपञ्चविंशतेः प्राकृतत्वात् वर्णा ब्राह्मणादयः जातयोमूर्द्धावसिक्तादयः ते ते उत्तराधराश्च वर्णजात्यु-त्तराधरास्तैरन्योन्याक्षेपे क्रियमाणे दण्डस्य प्रणयनम्ऊहनीयं ज्ञातव्यम् उत्तराधरभावमालोच्य दण्डःकल्पनीय इत्यर्थः तमेव कल्पनीयं दण्डं प्रदर्शयतिमनुः “शतं व्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु बधमर्हति विप्रः पञ्चा-शतं दण्ड्यः क्षत्त्रियस्यामिशसने वैश्ये स्यादर्द्धपञ्चा-शच्छूद्रे द्वादशको दम इति ।” वृहस्पतिरपि क्षिपन्विप्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति” शङ्ख-लिखितावपि “आक्रोशे ब्राह्मणस्य क्षत्त्रियः पणशतंदण्ड्यः, शतार्द्धं वैश्यस्य पञ्चविंशतिं शूद्रस्येति” वृह-स्पतिरपि “विप्रः शतार्द्धं दण्ड्यस्तु क्षत्त्रियस्याभिशंसने ।विशस्तथार्द्धं पञ्चाशच्छूद्रस्यार्द्धत्रयोदश सच्छूद्रस्या-यमुदितो विनयोऽनपराधिनः गुणहीनस्य पारुष्येब्राह्मणो नापराघ्नुयात् वैश्यस्तु क्षत्तिया-क्रोशे दण्डनीयः शतम्भवेत् तदर्द्धं क्षत्त्रियो वैश्यंक्षिपन् विनयमर्हति शूद्राक्रोशे क्षत्त्रियस्य पञ्चविंश-तिको दमः वैश्यस्य चैतद्द्विगुणः शास्त्रविद्भिरुदा-हृतः वैश्यमाक्षारयन् शूद्रोदाप्यः स्यात् प्रथमंदमम् क्षत्त्रियं मध्यमञ्चैव विप्रमुत्तमसाहसमिति ।”जिह्वाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः तथा चस एव “धर्मोपदेशकर्त्ता वेदोदाहरणान्वितः ।आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते” इतिशूद्र इत्यनुषङ्गः आपस्तम्बोऽपि “जिह्वाछेदनं शूद्र-स्वार्यं धार्मिकमाक्रोशतः” इति गौतमोऽपि “शूद्रोद्विजातीनभिसन्धायाभिहत्य वाग्दण्डपारुप्याभ्याम-ङ्गम्मोच्यो येनोपहन्यादिति” अभिसन्धाय बुद्धिपूर्वंवाचातिक्रम्य अभिहत्य उग्रेण दण्डेन ताडयित्वा अङ्ग-मोच्यो येनाङ्गेनाभिहन्यते तेन वियोजमीय इत्यर्थः ।गुर्वाद्याक्रोशे त्वाहतः शङ्खलिखितौ “तथाऽधिकृतान् वि-प्रान् गुरुश्च निवासनम्मुण्डनं ताडनं वा गोमयानुलेपनंखरारोहणं दर्पहरणं वा दण्डो वेति दण्डः कार्षा-पणशतरूपः अतएव विष्णुः “गुरूनाक्षारयन् कार्षा-पणशतमिति” पुत्रादिभिर्मात्रादीनामाक्रोशे दण्डमाहमनुः “मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।आक्षारयन् शतन्दाप्यः पन्थानञ्चाददद्गुरोरिति” ।भ्रातरं ज्येष्ठभ्रातरम् एतच्च साफराधेषु मात्रादिषुनिरपराधायां जायायामिति मिताक्षरायामभाणि ।श्वश्र्वाद्यधिक्षेपे दण्डमाह वृहस्पतिः “क्षिपन्शश्व्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति ।” वाह्वा-दिच्छेदन निष्ठुरभाषाभिभाषणे दण्डमाह याज्ञवल्क्यः“बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः शत्यस्त-दर्द्धिकः पादनासाकर्णकरादिष्विति ।” बाह्वादिविनाशेवाचिके करिष्यामीति वाचा प्रतिपादितं शत्यः शतपरि-मितो दण्डः पादादिभङ्गं करिष्यामीत्याक्षेपे पञ्चा-शत्परिमितो दण्ड इत्यर्थः एवंवादिनोऽशक्तस्य दश-पणा दण्डनीया इत्याह एव “अशक्तस्तु वदन्नेवंदण्डनीयः पणान्दशेति ।” यः पुनः शक्तोऽशक्तस्यबाह्वादिभङ्गाक्षेपं करोति केवलं दण्ड्यः किन्तुअशक्तक्षेमार्थं प्रतिभुवमपि दापनीय इत्याह एव“तथा शक्तः प्रतिभुवन्दाष्यः क्षेमाय तस्य त्विति” अश्ली-लभाषणे दण्डमाह एव “अभिगन्तास्मि भगिनींसातरं वा तवेति शपन्तन्दापयेद्राजा पञ्चविंशतिकंदममिति ।” तीव्राक्रोशे दण्डमाह एव “पतनीयकृते क्षेपे दण्डमुत्तमसाहसम् उपपातकयुक्ते तुदाप्यः प्रथमसाहसमिति ।” पतनीयैः पातित्यहेतुमि-र्ब्रह्महत्यादिभिः उपपातकानि गोबधादीनि मनु-रपि “ब्राह्मणक्षत्त्रियाभ्यान्तु दण्डः कार्य्यो विजानता ।ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः विट्-शूद्रयोस्त्वेवमेव स्वजातिं प्रति तत्त्वतः छेदवर्जं प्रणयनंदण्डस्येति विनिश्चयः पापोपपातवक्तारो महापातक-शंसकाः आद्यमध्योत्तमान्दण्डान्दद्युस्त्वेते यथाक्रम-मिति ।” विष्णुरपि “परस्परपतनीये क्षेपे कृते तूत्तम-साहसं उपपातकयुक्तन्तु मध्यमम् त्रैविद्यवृद्धानांक्षेपेजातिपूगानाञ्च ग्रामदेशयोः प्रथममिति” देशाद्याक्रोशेदण्डमाह वृहस्पतिः “देशादिकं क्षिपन्दाप्यः पणा-नर्द्धत्रयोद्रश पापेन योजयन् दर्पाद्दाप्यः प्रथमसाह-सम् एष दण्डः समाख्यातः पुरुषापेक्षया मया ।समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिरिति ।” याज्ञ-वल्क्योऽपि “मध्यमो जातिपूगानां प्रथमो ग्रामदेशयो-रिति ।” राज्ञ आक्रोशे दण्डमाह नारदः “अव-क्रुश्य राजानं वर्त्मनि स्वे व्यवस्थितम् जिह्वा-च्छेदाद्भनेच्छुद्धिः सर्वस्वहरणेन वेति ।” याज्ञवल्क्योऽपि“राज्ञोऽनिष्टप्रवक्तारन्तस्यैवाक्रोशकन्तथा तन्मन्त्रस्यच भेत्तारञ्छित्त्वा जिह्वाम्प्रवासयेदिति ।” सत्यदोषा-भिधानेऽपि वाक्पारुष्यदण्डोऽस्त्येव तथा नारदः“पतितं पतितेत्युक्त्वा तथा चौरेति वा पुनः वचना-चुल्यदोषः स्यान्मिथ्याद्विर्दोषतां व्रजेदिति ।” मनुनारदा-वपि “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् ।तथ्येनापि ब्रुवन्दाप्यो दण्डङ्कार्षापणाबरमिति ।”विष्णुरपि “काणखञ्जादीनान्तथ्यवाच्यपि कार्षापणद्वय-मिति ।” एतच्च दुर्वृत्तविषयमिति माधवीये विद्यारण्य-श्रीपादैरभ्यधायि मिथ्यावदनशीलानां दण्डमाहकात्यायनः “अनृताख्यानशीलानाञ्जिह्वाच्छेदो विशो-धनमिति ।” हारीतोऽपि “मिथ्याभाषिणां मेलका-नाञ्च राजा जिह्वाञ्छिन्द्याद्दण्डयेद्वेति” मेलको भक्षकः ।कस्यचिद्वाक्पारुष्यकृतोऽर्द्धदण्डमाहोशनाः “मोहात्-प्रमादात्सङ्घर्षात् प्रीत्या वोक्तं मयेति यः नाहमेवंपुनर्वक्ष्ये दण्डार्द्धन्तस्य कल्पयेदिति ।”
Burnouf
French
वाक्पारुष्य वाक्पारुष्य
n.
(वाच्) violence de
langage
injure.