| YouTube Channel

वस्ति (vasti)

 
शब्दसागरः
English
वस्ति mf. (-स्तिः)
1. The lower belly, hypogastric or pubic region.
2.
The bladder.
3. A clyster-syringe, or bag made of bladder or gut,
with a wooden or metallic nozzle.
4. Abiding, dwelling, staying.
plu. only (-स्तयः) The ends of a cloth.
E.
वस् to wear, Unādi
aff.
ति
or वस् to abide, क्तिन्
aff.
or वस्ते आवृणोति मूत्रम् वस्-तिच्
Capeller Eng
English
वस्ति॑
m.
f.
bladder
*fringe.
Yates
English
वस्ति (स्त्रिः) 2.
m.
f.
The abdomen
bladder
a syringe
staying.
plu. Ends of cloth.
Spoken Sanskrit
English
वस्ति - vasti -
f.
- the ends or skirt of a cloth
वस्ति - vasti -
f.
- dwelling
वस्ति - vasti -
f.
- abiding
वस्ति - vasti -
f.
- staying
वस्ति - vasti -
f.
- abdomen
वस्ति - vasti -
f.
- injection-syringe made of bladder or the injection itself
वस्ति - vasti -
m.
f.
- pelvis
वस्ति - vasti -
m.
f.
- lower belly
वस्ति - vasti -
m.
f.
- bladder
वस्ति vasti
f.
injection-syringe made of bladder or the injection itself
प्रवेश praveza
m.
syringe of an injection pipe
Wilson
English
वस्ति
mf. (-स्तिः)
1 The lower belly, hypogastric or pubic region.
2 The bladder.
3 A glyster, syringe, or bag made of bladder or gut, with a wooden or metallic
nozzle.
4 Abiding, dwelling, staying. plur. only (-स्तयः) The ends of a
cloth.
E.
वस to wear as clothes, Uṇādi
aff.
ति, or वस to abide,
क्तिन्
aff.
Apte
English
वस्तिः [vastiḥ],
m.
,
f.
[वस्-तिः,
Uṇ.*
4.188]
Residing, dwelling, staying.
The abdomen, the lower belly.
The pelvis.
The bladder.
A syringe, clyster.Comp. -कर्मन्
n.
the application of an enema, injection. -कर्माढ्यः the soap-berry (Mar. रिठा). -कोशः a bladder, bag. -पीडा spasm in the bladder. -बिलम्, -मूलम् aperture of the bladder. -मलम् urine. -शिरस्n.
the pipe of a clyster.
the neck of the bladder.-शोधनम् a diuretic (which clears the bladder).
Apte 1890
English
वस्तिः m., f. 1 Residing, dwelling, staying.
2 The abdomen, the lower belly.
3 The pelvis.
4 The bladder.
5 A syringe, clyster.
Comp.
मलं urine.
शिरस् n. {1} the pipe of a clyster. {2} the neck of the bladder.
शोधनं a diuretic (which clears the bladder).
Monier Williams Cologne
English
1. वस्ति
m.
or
f.
(for 2. See col. 2) the ends or skirt of a cloth (also
pl.
),
L.
2. वस्ति
f.
(for 1. See col. 1, for 3. See
p.
933, col. 1) abiding, dwelling, staying,
W.
3. वस्ति॑ mf. (also written बस्ति
perh. connected with 2. वस्ति See
p.
932, col. 3) the bladder,
AV.
&c.
&c.
the lower belly, abdomen,
VarBṛS.
,
KāśīKh.
the pelvis,
MW.
an injection-syringe made of bladder or the injection itself,
Kathās.
Suśr.
&c.
वस्ति [cf.
Lat.
venter, vesica
Germ.
wanast, Wanst.]
Monier Williams 1872
English
1. वस्ति, इस्, m. f. (?) , cloth. (only the pl. वस्तयस्
seems to be used, and is said to mean ‘the ends or
skirt of a cloth.)
2. वस्ति, इस्, m. f. (for 1. see p. 896, col. 1),
abiding, dwelling, staying
the lower belly, abdomen,
the hypogastric or pubic region
the pelvis
the
bladder
a clyster, syringe, bag made of bladder or
gut with a wooden or metallic nozzle.
—वस्ति-कर्-
माढ्य (°म-आढ्°), अस्, m. the soap berry, Sapin-
dus Detergens.
—वस्ति-मल, अम्, n. ‘bladder-
excretion, ‘urine.
—वस्ति-शिरस्, अस्, n. the neck of
the bladder
the pipe of a clyster.
—वस्ति-शोधन,
अम्, n. ‘bladder-cleanser, a diuretic.
Macdonell
English
वस्ति vasti,
m.
bladder
f.
abdomen (below 🞄the navel)
m.
f.
syringe: -mūla,
n.
(bottom 🞄=) aperture of the bladder
-śīrṣa,
n.
sg. 🞄or
m.
du. neck of the bladder.
Benfey
English
वस्ति वस्ति,
m.
and
f.
1. The belly
below the navel, Man. 8, 234.
2. The
bladder, Suśr. 2, 201, 12.
3. A bag
made of bladder.
4. Abiding (vb.
1. वस्).
5. pl. The skirt of a cloth (vb.
3. वस्).
--
Comp.
इन्द्र-, the calf (of the
leg), Suśr. 1, 348, 16.
Hindi
Hindi
आंतरिक सफाई
Apte Hindi
Hindi
वस्तिः
पुं*
- वस् + तिः
"निवास, आवास, टिकना"
वस्तिः
पुं*
- -
"उदर, पेट का नाभि से नीचे का भाग"
वस्तिः
पुं*
- -
पेडू
वस्तिः
पुं*
- -
मूत्राशय
वस्तिः
पुं*
- -
"पिचकारी, एनीमा"
वस्तिः
पुं*
स्त्री*
- वस्+तिः
"वसना, रहना"
वस्तिः
पुं*
स्त्री*
- वस्+तिः
मूत्राशय
वस्तिः
पुं*
स्त्री*
- वस्+तिः
"श्रोणि, पेडू"
L R Vaidya
English
vasti {% m.f. %} 1. Dwelling, staying
2. the abdomen, the pubic region
3. the pelvis
4. a syringe.
Bopp
Latin
वस्ति m. f. (r. वस् s. ति) abdomen. AM.
Sanskrit Tibetan
Tibetan
chu so
१) वस्ति २) वास्तेय ३) श्रोणि
अभिधानचिन्तामणिः
Sanskrit
--source--
नाभेरधो मूत्रपुटं वस्तिर्मूत्राशयोऽपि ६०६
-wordlist-
मूत्रपुट (स्त्री), वस्ति (पुंस्त्री), मूत्राशय (पुं)
--source--
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ६६५
मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम्
सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ६६६
पटः प्रौतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः
-wordlist-
नूपुर (क्ली), तुलाकोटि (पुंक्ली), पादकटक (पुंक्ली), पादाङ्गद (क्ली), मञ्जीर (पुंक्ली), हंसक (पुंक्ली), शिञ्जिनी (स्त्री), अंशुक (क्ली), वस्त्र (पुंक्ली), अम्बर (क्ली), सिचय (पुं), वसन (क्ली), चीर (पुं), आच्छाद (पुं), सिञ्च् (स्त्री), चेल (क्ली), वासस् (क्ली), पट (त्रि), प्रोत (पुं), अञ्चल (पुंक्ली), वर्ति (पुंस्त्री), वस्ति (पुंस्त्री), दशाः (पुंस्त्रीब)
अभिधानरत्नमाला
Sanskrit
धौत
धौत, उद्गमनीय, वर्ति, वस्ति, दशा, सिच्
धौतमुद्गमनीयं वर्तिर्वस्तिर्दशाः सिचः
verse 2.1.1.551
page 0062
शब्दकल्पद्रुमः
Sanskrit
वस्तिः,
पुं,
स्त्री,
(वसति मूत्रादिकमत्र वस् +“वसेस्तिः ।” उणा० १७९ इति तिः ।)नाभेरधोभागः इत्यमरः
वस्ते आच्छादयतिमूत्राशयपुटं वस्तिः वस स्तृतौ नाम्नीतितिक् मूत्राशयपुटो वस्तिरिति रत्नमाला ।इति तट्टीकायां भरतः
*
अथ वस्ति-विधिः ।“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परः ।यः स्नेहैर्दीयते स्यादनुवासननामकः
कषायक्षारतैलैर्यो निरूहः निगद्यते ।वस्तिभिर्दीयते यस्मात् तस्माद्बस्तिरिति स्मृतः
”वस्तिभिः मृगादीनां मूत्राशयैः ।“तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते ।अनुवासनभेदश्च मात्रावस्तिरुदीरितः
पलद्वयं तस्य मात्रा तस्मादर्द्धापि वा भवेत् ।अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला-निली
नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी ।नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्-युताः
शोथमूर्च्छारुचिभयश्वासकासक्षयातुराः ।नेत्रं कार्य्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः ।नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते
”नेत्रं नाडी तथा विश्वप्रकाशे ।नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने ।नेत्रबन्धे नाड्याञ्च नेत्रो नेतरि भेदवदिति
“एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम् ।ततो द्बादशकं यावन्मानं स्यादष्टसंमितम्
ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता ।मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिरन्ध्रकम्
यथासंख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्
”मूले स्थूलम् ततः क्रमात् कृशम् मुद्गच्छिद्रादि-प्रमाणं नेत्रं क्रमेण षड्वर्षाय द्वादशवर्षायतदूर्द्धवर्षाय ज्ञेयम् ।“आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते ।कनिष्ठिकापरीणाहमग्रे गुटिकामुखम्
”परिणाहोऽत्र स्थौल्यम् ।“तन्मूले कर्णिके द्वे कार्य्ये भागाच्चतुर्थकात् ।कर्णिका गवादिकर्णवत् कर्णिका छत्राकारागुदाधिकान्तःप्रवेशरोधिनी कर्णिकेति कर्णि-काकारत्वात् कर्णिकेति कथ्यते ।“योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः ।मृगाजशूकरगवां महिषस्यापि वा भवेत्
”वस्तिरिति शेषः ।“मूत्रको यस्य वस्तिस्तु तदलाभे तु चर्म्मजः ।कषायरक्तः समृदुर्वस्तिःस्निग्धो दृढो हितः
व्रणवस्तेस्तु नेत्रं स्यात् श्लक्ष्णमष्टाङ्गुलोन्मितम् ।मुद्गच्छिद्रं गृध्रपक्षनालिकापरिणाहि
शरीरोपचयं वर्णं बलमारोग्यमायुषः ।कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः
दिवा शीते वसन्ते स्नेहवस्तिः प्रदीयते ।ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् ।बवातिस्निग्धमशनं भोजयित्वानुवासयेत् ।मदं मूर्च्छाञ्च जनयेत् द्बिधा स्नेहप्रयोजितः
”द्विधाभाजने वस्तौ ।“रूक्षं भुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत् ।युक्तस्ने हमतो जन्तुं भोजयित्वानुवासयेत्
”युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयित्वाइत्यर्थः ।“हीनमात्रावुभौ वस्ती नातिकार्य्यकरौ स्मृतौ ।अतिमात्रौ तथानाहक्लमातिसारकारकौ
”उभौ वस्ती अनुवासननिरूहाख्यौ ।“उत्तमा स्यात् पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः ।पलद्वयेन हीना स्यादुक्ता मात्रानुवासने
*
अथ स्नेहवस्तिः ।“शताह्वासैन्धवाभ्यां देयं स्नेहे चूर्णकम् ।तन्मात्रोत्तममध्यान्त्याः षट्चतुर्द्वयमाषकैः
विरेचनात् सप्तरात्रे गते जातबलाय ।भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः ।भोजयित्वा यथाशास्त्रं कृतं चंक्रमणं ततः
उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेहवस्तिना
”उष्णाम्बस्वेदितं उष्णाम्बुना स्नापितम् ।“सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः ।कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत्
ऊर्द्ध्वं वस्तिमुखं मूत्रैर्व्वामहस्तेन धारयेत् ।पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः
जृम्भाकासक्षवादींश्च वस्तिकाले कारयेत् ।त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने
ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत् ।स्वजानुनः करावर्त्तं कुर्य्याच्छोटिकया युतम्
एषा मात्रा भवेदेका सर्व्वत्रैवैष निश्चयः ।निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाथ वा
गुर्व्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः ।प्रसारितैः सर्व्वगात्रैर्यथावीर्यं प्रसर्पति
”यथावीर्य्यं स्नेहादि ।“ताडयेत्तलयोरेनं त्रींस्त्रीन् वारान् शनैःशनैः ।स्फिचोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः
स्फिचोश्चैनं स्वपार्ष्णिभ्यां पूर्व्ववत्ताडयेद्बुधः ।शय्याञ्च पादतस्तस्य त्रीन् वारानुत्क्षिपेत्ततः ।जाते विधाने तु ततः कुर्य्यान्निद्रां यथासुखम्
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु ।उपद्रवं विना शीघ्रं सम्यगनुवासितः
”उपद्रवस्थाने उषचोषाविति सुश्रुते पाठः ।“जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः ।लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि
अनुवासिताय देयमितरेऽह्नि सुखोदकम् ।धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम्
”सुखोदकमुष्णोदकम् व्यापत्तिर्व्याधिः ।“अनेन विधिना षड्वा सप्त वाष्टौ नवापि वा ।विधेया वस्तयस्तेषामन्ते चैव निरूहणम्
दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ ।सम्यग्दत्तो द्बितीयस्तु मूर्द्धस्थमनिलं जयेत्
बलं वर्णञ्च जनयेत् तृतीयस्तु प्रयोजितः ।चतुर्थपञ्चमौ दत्तौ स्नेहयेतां वसासृजी
षष्ठो मांसं स्नेहयति सप्तमो मेद एव ।अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्
”यथाक्रममिति वचनादष्टमोऽस्थि स्नेहयेत् ।“एवं शुक्रगतान् दोषान् द्बिगुणः साधु साध-येत्
द्विगुणः अष्टादशदिवसाधिको वस्तिः ।“अष्टादशाष्टादशकान् वस्तीनां यो निषेवते ।स कुञ्जरबलोऽश्वस्य रये तुल्योऽमरप्रभः
रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने ।दद्याद्वैद्यस्तथान्येषामग्र्यावाधभयात्त्र्यहात्
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः ।”अनत्ययोऽवाधकः ।“तथा निरूहः स्निग्धानां मलमात्रः प्रशस्यते
अथवा यस्य तत्कालं स्नेहो निर्याति केवलः ।तस्यान्योऽल्पतरो देयो नहि स्निह्यति तिष्ठति
”स्निह्यति स्नेग्धे तिष्ठति दत्तस्नेह इति शेषः ।“अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।तदाङ्गवेदनाध्माने शूलं श्वासश्च जायते
पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम् ।तीक्ष्णं तीक्ष्णौषधैर्युक्ता फलवर्त्तिर्हिताथवा
यथानुलोमगोवायुर्मलं स्नेहश्च जायते ।तथा विरेचनं दद्यात् तीक्ष्णं नस्यं शस्यते
यस्य नोपद्रवं कुर्य्यात् स्नेहवस्तिर्विनिःसृतः ।सर्व्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः विजानता
अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत् ।स्नेहवस्तावनायाते नाल्पः स्नेहो विधीयते
गुडूच्येरण्डपूतीकभार्गीवृष्याकरौहिषम् ।शतावरीसहचरं काकनासां पलोन्मिताम्
यवमायातसीकोलकुलत्थात् प्रसृतोन्मितात् ।चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः ।अनुवासनमेतद्धि सर्व्ववातविकारनुत्
”पूतिकः करञ्जः रौहिषं रोहिष इति सुगन्ध-तृणविशेषः काकनासा कौयाठोठी प्रसृतंपलद्वयम् ।“षट्सप्ततिव्यापदस्तु जायन्ते वस्तिकर्म्मणः ।दूषितात् समुदायेन ताश्चिकित्सास्तु सुश्रुतात्
”समुदायेन अनुचितनेत्रादिसामग्र्या ।“पानाहारविहाराश्च वस्तिकर्म्मणि कृत्स्नशः ।स्ने हपानसमाः कार्य्या नात्र कार्य्या विचा-रणा
*
अथ निरूहवस्तिविधिः ।“निरूहवस्तिर्बहुधा भिद्यते कारणान्तरैः ।तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः
”कारणान्तरैः समवायिकारणभेदैः ।“निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः ।स्वस्थानस्थापनाद्दोषधातूनां स्थापनं मतम्
निरूहस्य प्रमाणञ्च प्रस्थः पादोत्तरं परन् ।मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः
”परं श्रेष्ठम् ।“अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा ।”अक्लिष्टदोषः अनुत्क्लिष्टदोषः अदत्तोत्क्लेशनइति यावत् क्षतोरस्कः उरःक्षतवान् ।“आध्मानच्छर्दिहिक्वार्शः शोथश्वासप्रपीडितः ।गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः
गर्भिणी मधुमेही नास्थाप्याश्च जलोदरी ।वातव्याधावुदावर्त्ते वातासृग्विषमज्वरे
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु ।वृद्धसृग्दरमन्दाग्निप्रमेहेषु निरूहणम्
शूलेऽम्लपित्ते हृद्रोगे योजयेद्बिधिवद्बुधः ।उत्सृष्टानिलविण्मूत्रस्निग्धं स्विन्नमभोजितम्
मध्याह्ने गृहमध्ये यथायोग्यं निरूहयेत् ।”स्निग्धं स्वभ्यक्तम् स्विन्नं उष्णाम्बुस्नपितम् ।“स्नेहवस्तिविधानेन बुधः कुर्य्यान्निरूहणम्
जाते निरूहे ततो भवेदुत्कटकासनः ।तिष्ठेन्मुहूर्त्तमात्रन्तु निरूहागमनेच्छया
”अत्र मुहूर्त्तमात्रशब्दे नैतदपि बोधितम् ।निरूहप्रत्यागमनकालो मुहूर्त्तमात्रः ।“अनायातं मुहूर्त्तात्तु निरूहं शोधनैर्हरेत् ।निरूहैरेव मतिमान् क्षारमूत्राम्लसैन्धवैः
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः ।ला ञ्चोपजायेत सुनिरूढं तमादिशेत्
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ।आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्ष-णम्
”विविक्तता दत्तौषधनिःसरणम् ।“अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित् ।द्बितीयं वा तृतीयं वा चतुर्थं वा यथोचितम्
सस्नेह एकः पवने पित्ते द्वौ पयसा सह ।कषायकटुका मूत्रा कफे तृष्णास्त्रयो हिताः
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् ।निरूहं भोजयित्वा ततस्तमनुवासयेत्
सुकुमारस्य वृद्धस्य बालस्य मृदुर्हितः ।वस्तिस्तीक्ष्णा प्रयुक्ता हि तेषां हन्याद्बला-युषी
दद्यादुत्क्लेशनं पूर्व्वं मध्ये दोषहरं ततः ।पश्चात् संशमनीयञ्च दद्याद्बस्तिं विचक्षणः
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा ।हपुषा फलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः
”इत्युत्क्लेशनवस्तिः
*
“शताह्वा मधुकं विल्वं कौटजं फलमेव ।सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः
”इति दोषहरवस्तिः
*
“प्रियङ्गुर्मधुकं मुस्ता तथैव रसाञ्जनम् ।सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः
”इति शमनवस्तिः
*
“त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः ।ऊषकादिप्रतीवाया वस्तयो लेखनाः स्मृताः
”ऊषकादिप्रतीवायाः ऊषकादिगणविशेषचूर्ण-प्रक्षेपाः इति लेखनवस्तयः
*
“बृंहणद्रव्यनिःक्वाथैः कल्कैर्मधुरकैर्युताः ।सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः
”इति वृंहणवस्तयः
*
“वदर्य्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः ।”ऐरावती नाराङ्गी शेलुः बहुवारः ।क्षीरसिद्धाः क्षौद्रयुक्ता नाम्ना पिच्छिलसंज्ञिताः
अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः ।”अजश्छागः उरभ्रो मेषः एणः कृष्णमृगः ।“मात्रा पच्छिलवस्तीनां पलैर्द्बादशभिर्मता
”इति पिच्छिलावस्तयः
*
“दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् ।विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम्
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् ।संमूर्च्छिते कषायन्तु चतुःप्रसृतिसम्मितम्
गृह्णीयाच्च तदावापमन्ते द्विप्रसृतोन्मितम् ।क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक्
एवं प्रकल्पितो वस्तिर्द्बादशप्रसृतो भवेत् ।वाते चतुःपलं क्षौद्रं दद्यात् स्नेहस्य षट्पलम्
पित्ते चतुःपलं क्षौद्रं स्नेहं दद्यात् पलत्रयम् ।कफे तु षट्पलं क्षौद्रं क्षिपेत् स्नेहं चतुः-पलम्
”इति निरूहमात्रा
“एरण्डक्वाथतुल्यांशं मधु तैलं पलाष्टकम् ।शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम्
मधुतैलिकसंज्ञोऽयं वस्तिर्दारुविलोडितः ।मेदोगुल्मकृमिप्लीहमलोदावर्त्तनाशनः
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः
”इति मधुतैलिकवस्तिः
“क्षौद्राज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत् ।हपुषा सैन्धवाक्षांशो वस्तिः स्याद्यापनःपरः
”यापनः सारकः इति यापनवस्तिः
*
“एरण्डमूलनिष्क्वाथो मधु तैलं ससैन्धवम् ।एष युक्तरथो वस्तिः सवचापिप्पलीफलः
”इति युक्तरथवस्तिः
“पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु ।ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः
”इति सिद्धवस्तिः
“स्नानमुष्णोदकैः कुर्य्याद्दिवास्वप्नमजीर्णताम् ।वर्ज्जयेदपरं सर्व्वमाचरेत् स्नेहवस्तिवत्
”अथोत्तरवस्तिविधिः ।“अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम् ।निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः
द्वादशाङ्गुलकं नेत्रं मध्ये कृतकर्णिकम् ।मालतीपुष्पवृन्ताभं छिद्रं सर्षपनिर्गमम्
पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिका ।तदूर्द्धं प्रलमात्रा स्नेहस्योक्ता भिषग्वरैः
अथ स्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः ।स्थितस्य जानुमात्रेण पीठेऽन्विष्य शलाकया
स्निग्धया मेढ्रमार्गन्तु ततो नेत्रं नियोजयेत् ।शनैः शनैर्घृताभ्यक्ते मेढ्ररन्ध्रेऽङ्गुलानि षट्
ततोऽवपीडयेद्वस्तिं शनैर्नेत्रं विनिर्हरेत् ।ततः प्रत्यागते स्नेहे स्नेहवस्तिक्रमो हितः
स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्य्याद्दशाङ्गुलम् ।मुहुः प्रवेशं योज्यञ्च योन्यन्तश्चतुरङ्गुलम्
द्व्यङ्गुलं मूत्रमार्गे सूक्ष्मनेत्रं वियोजयेत् ।मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्
शनैर्निष्क्रम्यमाधेयं सूक्ष्मं नेत्रं विचक्षणैः ।”मालतीपुष्पवृन्ताभं नेत्रमित्युक्तत्वात् पुनः सूक्ष्म-शब्दाभिधाने बालानां ततोऽपि नेत्रस्य सूक्ष्मता-बोधनार्थम् ।“योनिमार्गेषु नारीनां स्ने हमात्रा द्विपालिका
मूत्रमार्गे पलोन्माना बालानाञ्च द्विकार्षिकी ।उत्तानायै स्त्रियै दद्यात् ऊर्द्ध्वजान्वै विचक्षणः
अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते ।भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः
फलवस्तिं विदध्याद्वा योनिमार्गे दृढं भिषक् ।सूत्रैर्विनिर्म्मितां स्निग्धां शोधनद्रव्यसंयुताम्
दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः ।क्षीरिवृक्षकषायेण पयसा शीतलेन वा
”दह्यमाने वस्तौ यस्मिन् स्थाने वस्तिर्दत्तस्तस्मिन्दह्यमाने ।“वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः ।हन्यादुत्तरवस्तिस्तु नोचिता मेहिनां क्वचित्
सम्यग्दत्तस्य लिङ्गानि व्यापदक्रम एव ।वस्तेरुत्तरसंज्ञस्य समानः स्नेहवस्तिना
*
अथ फलवर्त्तिविधिः ।“घृताभ्यक्ते गुदे क्षिप्त्वा श्लक्ष्णा स्वाङ्गुष्ठसन्निभा ।मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता
”इति भावप्रकाशः
*
(“चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वातया वस्तिप्रतिकर्म्म कुर्य्यात् ।नातिचोष्णे काले शीते भोजिते ।न निद्रालौ मूत्रार्त्ते विष्ठार्त्ते वेदभाक्
वस्तिकर्म्म निरूहञ्च कारयेत्तं निरस्य ।आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नातिशिथिलशय्यायां शाययित्वा वामाङ्गे वामपादंदक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घोपरि-संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडीं सुधीःसञ्चारयेत् ततः शनैः शनैर्वस्तिं निष्पीड्यद्विपलपरिमिततैलेन निरूहं कुर्य्यात् निरुहा-नन्तरं शनैः शनैरुत्तानं शाययित्वा ऊर्द्ध्वीकृत्य पश्चात् सङ्कोच्य पाणिभिः पञ्च वारान्स्फिक्पिण्डान् त्रोटयेत् ततः स्वस्थं कृत्वाक्षणेनाप्यामाशयं मलस्थानं बोधयति वस्त्यु-दरवातान् दोषान् निवारयति पण्डितास्तंवस्तिनिरूहं तद्वस्तिकर्म्म विदुः ।” इतिहारीते सूत्रस्थाने तृतीयेऽध्याये
“कृतक्षणं शैलवरस्य रम्येस्थितं धनेशायतनस्य पार्श्वे ।महर्षिसंधैर्वृतमग्निवेशःपुनर्व्वसुम्प्राञ्जलिरन्वपृच्छत्
वस्तिर्नरेभ्यः किमपेक्ष्य दत्तःस्यात् सिद्धिमान् किन्नयनस्य नेत्रम् ।कीदृक् प्रमाणाकृति किङ्गुणञ्चकेषाञ्च किं योनिगुणश्च वस्तिः
निरूहकर्म्म प्रणिधानमात्राःस्नेहस्य वा काः शमने विधिः कः ।के वस्तयः केषु मता इतीदंश्रुत्वोत्तरं प्राह वचो महर्षिः
समीक्ष्य दोषौषधदेशकाल-सात्म्याग्निसत्त्वौकवयोबलानि ।वस्तिः प्रयुक्तो नियतं गुणायस्युः सर्व्वकर्म्माणि सिद्धिमन्ति
सुवर्णरूप्यत्रपुताम्रवीतिंकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः ।नलैर्व्विषाणैर्मणिभिश्च तैस्तैःकार्य्याणि नेत्राणि सुकर्णिकानि
षड्द्वादशाष्टाङ्गुलसम्मितानिषड्विंशतिर्द्वादशवर्षजानाम् ।स्युर्मुद्गकर्कन्धुसतीनवाहि-छिद्राणि वर्त्त्या पिहितानि चापि
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यांमूलाग्रयोः स्युः परिणाहवन्ति ।ऋजूनि गोपुच्छसमाकृतीनिश्लक्ष्णानि स्युर्गुलिकामुखानि
स्यात् कर्णिकैकाग्रचतुर्थभागेमूलाश्रिते वस्तिनिबन्धने द्बे ।जरद्गवो माहिषहारिणो वास्यात् शौकरो वस्तिरजस्य वापि
दृढस्तनुर्नष्टशिरो विगन्धःकषायरक्तः सुमृदुः सुशुद्धः ।नृणां वयो वीक्ष्य यथानुरूपंनेत्रेषु योज्यस्तु सुबद्धसूत्रः
वस्तेरमावे प्लवानां गलो वास्यादङ्कपादः सुघनः पटो वा ।आस्थापनार्हं पुरुषं विधिज्ञःसमीक्ष्य पुण्येऽहनि शुक्लपक्षे
प्रशस्तनक्षत्रमुहूर्त्तयोगेजीर्णान्नमेकाग्रमुपक्रमेत ।बालां गुडूचीं त्रिफलां सरास्नांद्वे पञ्च मूले पलोन्मितानि
अष्टौ पलान्यर्द्धतुलाञ्च मांसा-च्छागात् पचेदप्सु चतुर्थशेषम् ।पूतं यवानीफलविल्वकुष्ठ-वचाशताह्वा घनपिप्पलीनाम्
कल्कैर्गुडक्षौद्रयुतैः तैलै-र्युतं सुखोष्णं तु पिचुप्रमाणैः ।गुडोत्पलं द्बिप्रसृतान्तु मात्रांस्नेहस्य युक्त्या मधुसैन्धवादि
प्रक्षिप्य वस्तौ मथितं खजेनसुबद्धमुच्छाम्य निर्व्व्यलीकम् ।अङ्गुष्ठमध्येन मुखं पिधायनेत्राग्रसंस्थामपनीयवर्त्तिम्
तैलाक्तगात्रं कृतमत्र विट्कंनाति क्षुधार्त्तं शयने मनुष्यम् ।समेऽथ वेधन्नतशैरसेवानात्युच्छ्रिते स्वास्तरणोपपन्ने
सव्येन पार्श्वेन सुखं शयानंकृत्वर्ज्जुदेहं स्वभुजोपधानम् ।निकुच्च्य सव्येतरमस्य सक्थिवामं प्रसार्य्य प्रणयेत्ततस्तम्
स्निग्धे गुदे नेत्रचतुर्थभागंस्निग्धं शनैर्मृद्वृजुपृष्ठवंशम् ।अकम्पनावेपनलाधवादीन्पाण्योर्गुणांश्चापि विदर्शयन् हि
प्रपीड्य चैकग्रहणेन दत्तंनेत्रं शनैरेव ततोऽवकर्षेत् ।तिर्य्यक्प्रणीते तु याति धारागुदव्रणः स्याच्चरिते नेत्रे
दत्तः शनैर्नाशयमेति वस्तिःकण्ठं प्रधावत्यतिपीडितश्च ।शीतस्त्वतिस्तम्भकरो विदाहंमूर्च्छाञ्च कुर्य्यादतिमात्रमुष्णः ।स्निग्धोऽतिजाड्यं पवनन्तु रुक्ष-स्तन्वल्पमात्रा लवणस्त्वयोगम् ।करोति मात्राभ्यधिकोऽतियोगंक्षामन्तु सान्द्रः सुचिरेण चेति
दाहातिसारौ लवणोऽतिकुर्य्या-त्तस्मात् प्रयुक्तं सममेव दद्यात् ।पूर्व्वं हि योज्यं मधुसैन्धवन्तुस्नेहं विनिर्मथ्य ततोऽनुकल्कम्
विमथ्य संयुज्य पुनद्रवैस्तत्वस्तौ निदध्यान्मथितं खजेन ।आमाशयोऽग्निर्ग्रहणीगुदञ्चतत्पार्श्वसंस्थस्य सुखोपलब्धिः
लीयन्त एवं वलयश्च तस्मात्सव्यं शयानोऽरतिवस्तिदानम् ।विड्वातवेगो यदि चार्द्धदत्तेनिष्कृष्य दत्ते प्रणयेदशेषम्
उत्तानदेहस्य कृतोपधानःस्याद्वीर्य्यमाप्नोति तथास्य देहम् ।एकोऽपकर्षत्यनिलं स्वमार्गात्पित्तं द्वितीयस्तु कफं तृतीयः
प्रत्यागते कोष्णजलावसिक्तःशाल्यन्नमद्यात्तनुना रसेन ।जीर्णे तु सायं लघु चाल्पमात्रंभुक्तेऽनुबास्यः परिवृंहणार्थम्
”“स्निग्धोष्ण एकः पवने निरूहोद्वौ स्वादुशीतौ पयसा पित्ते ।त्रयः समूत्राः कटुकोष्णतीक्ष्णाःकफे निरूहा परं विधेयाः
रसेन वाते प्रति भोजनं स्यात्क्षीरेण पित्ते तु कफे यूषैः ।तथानुवास्येषु विल्वतैलंस्याज्जीवनीयं फलसाधितञ्च
”इति चरके सिद्धिस्थाने तृतीयेऽध्याये
“तत्र स्नेहादीनां कर्म्मणां वस्तिकर्म्मप्रधान-तममाहुराचार्य्याः कस्मादनेककर्म्मकरत्वा-द्वस्तेरिह वस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणांसंशोधनसंशमनसंग्रहणानि करोति क्षीण-शुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्ष-यति चक्षुः प्रीणयति वलीपलितमुपहन्ति वयःस्थापति शरीरोपचयं वर्णं बलमारोग्य-मायुषः परिवृद्धिञ्च करोति वस्तिः सम्य-गुपासितः
तथा ज्वरातीसारतिमिरप्रति-श्यायशिरोरोगाधिमन्थार्द्दिताक्षेपकपक्षाघातै-काङ्गसर्व्वाङ्गरोगाध्मानोदरशर्कराशूलवृद्ध्युप-दंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्र-पुरीषोदावर्त्तशुक्रार्त्तवस्तन्यनाशहृद्धनुमण्याग्रहा-र्शोऽश्मरी मूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते
”“तत्र द्विविधो वस्तिः नैरूहिकः स्नैहिकश्च ।आस्थापनं निरूह इत्यनर्थान्तरम् तस्यविकल्पो माधुतैलिकः तस्य पर्य्यायशब्दोयापनो युक्तरथः सिद्धवस्तिरिति सदोष-निर्हरणाच्छरीररोगहरणाद्वा निरूहः वयःस्थापनादायुःस्थापनाद्बास्थापनम् माधुतैलि-कविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः
तत्र यथा प्रमाणगुणविहितः स्नेहवस्ति-विकल्पोऽनुवासनः पादावकृष्टः अनुवसन्नपिन दुष्यत्यनुदिवसं दीयत इत्यनुवासनः
तस्यापि विकल्पोऽर्द्धार्द्धमात्रावकृष्टोऽपरि-हार्य्योमात्रावस्तिरिति
इति सुश्रुते चिकित्सितस्थाने ३५ अध्यायः
“अत ऊर्द्ध्वं प्रवक्ष्यामि व्यापदः स्नेहवस्तिजाः ।बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः
अल्पवीर्य्यं तदा स्नेहमभिभूय पृथग्विधान् ।कुर्व्वन्त्युपद्रदान् स्नेहः चापि निवर्त्तते
तत्र वाताभिभूते तु स्नेहे मुखकषायता ।जृम्भावातरुजास्तास्ता वेपथुर्विषमज्वरः
पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् ।दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता
श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता ।गौरवं छर्द्दिरुच्छ्वासः कृच्छ्रः शीतज्वरोऽरुचिः
तत्र दोषाभिभूते तु स्नेहे वस्तिं निधापयेत् ।यथास्वं दोषशमनान्युपयोज्यानि यानि
अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदातदा ।गुरुरामाशयः शूलं वायुश्चाप्रतिसञ्चरः
हृत्पीडामुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः ।तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।तदाङ्गसदनाध्माते श्वासः शूलञ्च जायते
पक्वाशयगुरुत्वञ्च तत्र दद्यान्निरूहणम् ।अतितीक्ष्णौषधैरेवं सिद्धञ्चाप्यनुवासनम्
शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् ।गात्रेषु सर्व्वेन्द्रियाणामुपलेपोऽवसादनम्
स्नेहगन्धिमुखन्तत्र कासश्वासावरोचकः ।अतिपीडितवत्तत्र विविधा स्थापनन्तथा
अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयो-जितः ।शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहयेत्
विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति ।तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम्
अल्पं युक्तवतोऽल्पो हि स्नेहोमन्दगुणस्तथा ।दत्तो नैति क्लमोत्क्लेशौ भृशं वा रतिमाव-हेत्
तत्र वास्थापनं कार्य्यं शोधनीयेन वस्तिना ।अन्वासनञ्च स्नेहेन शोधनीयेन शस्यते
अहोरात्रादपि स्नेहः प्रत्यागच्छेन्न दूष्यति ।कुर्य्याद्वस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्
यस्य नोपद्रवं कुर्य्यात् स्न हवस्तिरनिःसृतः ।सर्व्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः विजा-नता
अनायान्तन्त्वहोरात्रात् स्नेहं संशोधनैर्जयेत्
स्नेहवस्तावनायाते नान्यः स्नेहो विधीयते ।इत्युक्ता व्यापदः सर्व्वाः सलक्षणचिकित्-सिताः
”इति सुश्रुते चिकित्सितस्थाने ३७ अध्यायः
)
वाचस्पत्यम्
Sanskrit
वस्ति
पु०
वस्ते आवृणोति मूत्रम् वस--तिच् नाभेरधो-भगे मूत्राधारे स्थाने वासे वसनदशायां पुंस्त्रीब० व० अमरः (पिचकारी) औषधदानार्थे द्रव्यभेदेपु० तद्विधिः भावप्र०“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परम् ।यः सेहो द्रीयते सः स्यादनुवासननामकः कषायक्षीरतैलैर्यो निरूहः निगद्यते वस्तिभिदींयतेयस्मात्तस्माद्वस्तिरिति स्मृतः ।” वस्तिभिः मृगादीनांमूत्राशयैः “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्रकथ्यते अनुवासनभेदश्च मात्रावस्तिरुदीरितः पलद्वयन्तस्य मात्रा तस्मादर्द्धापि वा भवेत् अनुवास्यस्तुरूक्षः स्यात्तीक्ष्णाग्निः केवलानिली नानुवास्यस्तु कुष्ठीस्यान्मेही स्थूलस्तथोदरी नास्थाप्या नानुवास्याश्चजीर्णोन्मादतृडर्दिताः शोथमूर्च्छारुचिभयश्चासकास-क्षयातुराः नेत्रं कार्य्यं सुवर्ण्णादिधातुभिर्वृक्ष-वेणुभिः नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ।”नेत्रं नाडी तथा चोक्तं विश्वप्रकाशे “नेत्रं मन्थगुणेवस्त्रे तरुमूले विलोचने नेत्रवन्धे नाड्याञ्च नेत्रोनेतरि भेद्यवदिति” “एकवर्षात्तु षड्वर्षाद् यावन्मानंषडङ्गुलम् ततो द्वादशकं यावन्मानं व्यादष्टसम्मितम् ।ततः प्ररं द्वादशमिरङ्गुलैर्नेत्रदीर्घता मुखच्छिद्रंकलायाभं छिद्रं कोलास्थिसन्निभम् यथासङ्ख्यं भवे-न्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् गोपुच्छसन्निभं मूले त-स्मात् क्रमात् क्रमात् कृशम्” मुखच्छिद्रादिप्रमाणं नेत्रंक्रमेण पड्वर्षा यद्वा दशवर्षा यद्वा तदूर्द्ध्वं वर्षाश्चज्ञेयाः “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते ।कनिष्ठिकापरीणाहमग्रे गुटिकामुखम् ।” परि-णाहोऽत्र स्थौल्यम् “तन्मूले कर्णिके द्वे कार्य्येभागाच्चतुर्थकात् ।” कर्णिका गवादिकर्णवत् “योजयेत्तत्रवस्तिञ्च बन्धद्वयविधानतः मृगाजशूकरगवां महि-षस्यापि वा भवेत् ।” वस्तिरिति शेषः “मूत्रकोषस्यवस्तिस्तु तदलाभे तु चर्मणः कषायरक्तः मृदुर्वस्तिः स्निग्धो दृढोहितः व्रणवस्तेस्तु नेत्रं स्यात्श्लक्ष्णमष्टाङ्गुलोन्मितम् मुद्गच्छिद्रं गृध्रपक्षनालिकापरिणाहि शरीरोपचयं वर्णं वलमारोग्यमायुषः ।कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः दिवा शीतेवमन्ते स्नेहवस्तिः प्रदोयते ग्रीष्मवर्षाशरत्कालेरात्रौ स्यादनुवासनम् चातिस्निग्धगशनं गोजति-त्वानुवासयेत् मदं मूर्च्छाञ्च जनयेद्विधा स्नेहः प्रयो-जितः ।” द्विधा भोजने वस्तौ “रूक्षं मुक्तवतोऽन्यन्तंबलं वर्णञ्च हापयेत् युक्तस्नेहमतो जन्तुं भोजयित्वानु-वासयेत्” युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयि-त्वेत्यर्थः “हीनमात्रावुभौ वस्ती नातिकार्य्यकरौसृतौ अतिमात्रौ तथानाहक्लमातीसारकारकौ”उभौ वस्ती अनुवासननिरूहाख्यौ “उत्तमा स्यात्पलैःषड्भिर्मध्यमा स्यात्पलैस्त्रिभिः पलाद्यर्द्धेन हीना स्यादु-क्तमात्रानुवासने शताह्वासैन्धवाभ्याञ्च देयं स्नेहे चहूर्णकम् तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्धयमाषकैः ।विरेचनात्सप्तरात्रे गते जातबलाय भुक्तान्नायानु-वास्याय वस्तिर्देयोऽनुवासनः अथानुवास्यं स्वभ्यक्त-मुष्णाम्बु स्वेदितं शनैः भोजयित्वा यथाशास्त्रं कृतञ्च-ङ्क्रमण ततः उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेह-वस्तिना” उष्णाम्बुस्वेदितम् उष्णाम्बुना स्नापितम् ।“सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः कुञ्चितापर-जङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् बद्धं वस्तिमुखं सूत्रै-र्वामहस्तेन धारयेत् पीडयेद्दक्षिणेनैव मध्यवगेनघीरधीः जृम्भाकासक्षयादींश्च यस्तिकाले कारयेत् ।त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने ततःप्रणिहिते स्नेहे उत्तानो वाग्यतो भवेत् स्वजानुनःकरावर्त्तं कुर्य्याच्छोटिकया पुनः एषा मात्रा भवेदेकासर्वत्रैवेष निश्चयः निमिषोन्मेषणं पुंसामङ्गुल्या च्छोटि-काथ वा गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः ।प्रमारितैः सर्वगात्रैर्यथावीर्य्यं प्रसर्षति” यथावीर्य्यंस्नेहादि “ताडयेत्तलयोरेनन्त्रींस्त्रीन्वारान् शनैः शनैः ।स्फिजोश्वैव तथा श्रीणीं शय्याञ्चैवोत्क्षिपेत्ततः ।स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद्बुधः शय्याञ्च पद-तस्तस्य त्रीन् वारान्नुत्क्षिपेत्ततः जाते विधाने तु ततकुर्य्यान्निद्रां यथासुखम् सानिलः सपुरीषश्च स्नेहः प्र-त्येति यस्य तु उपद्रवं विना शीघ्रं सम्यगनुवासितः ।जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः लघ्वन्नंभोजयेत्कामं दीप्ताग्निस्तु नरो यदि अनुवासितायदातव्यमितरेऽह्नि सुखोदकम् धान्यशुण्ठीकषायं वास्नेहव्यापत्तिनाशनम्” सुखोदकमुष्णोदकं व्यापत्तिर्व्या-धिः “अनेन विधिना षड्वा सप्त चाष्टौ नवापि वा ।विधेया वस्तयस्तेषामन्ते चेव निरूहणम् दत्तस्तु प्रथ-मो वस्ति स्नेहयेद्वस्तिवङ्क्षणौ सम्यग्दत्ती द्वितीयस्तु मूर्द्धस्थमनिलं जयेत् बलं वर्णञ्च जयेत्तृतीयस्तु प्रयो-जितः चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ।षष्ठो मांसं स्नेहयति सप्तमो मेद एव ।अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्” यथाक्रम-मिति वचनादष्टमोऽस्थि स्नेहयेत् “एवं शुक्रगतान्दोषान् द्विगुणः साधु साधयेत् ।” अष्टादशदिवसावधि-कवस्तिफलम् “अष्टादशाष्टादशकाद्दिनाद् यो ना विषेवते ।स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः रूक्षाय बहु-वाताय स्नेहवस्तिं दिने दिने दद्याद्वैद्यस्तथान्येषा-मग्न्याबाधभयात् त्र्यहात् स्नेहोऽल्पमात्रो रूक्षाणांष्टीर्घकालमनत्ययः ।” अनत्ययः अबाधः “तथानिरूहः स्निग्धानामल्पमात्रः प्रशस्यते अथ वा यस्यतत्कालं स्नेहो निर्याति केवलः तस्याप्यल्पतरो देयोन हि स्निग्धेऽवतिष्ठते ।” अवतिष्ठते दत्तः स्नेह इतिशेषः “अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।तदाङ्गसदनाध्माने शूलं श्वासश्च जायते पक्वाशयेगुरुत्वञ्च तत्र दद्यान्निरूहणम् तीक्ष्णं तीक्ष्णौषधै-र्युक्तं फलवर्त्तिमथापि वा यथानुलोत्रनो वायुर्मलःस्नेहश्च जायते तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्चशस्यते यस्य नोपद्रवं कुर्य्यात् स्नेहवर्त्तिरनिःसृता ।सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः विजानता ।अनायातन्त्वहोरात्रे स्नेहं संशोधनैर्हरेत् स्नेहवस्ता-वनायाते नान्यः स्नेहो विधीयते गुडूच्येरण्डपूती-सभार्गीवृषकरौहिषम् शतावरीं सहचरं काकनासांप्रलोन्मिताम् यवमाषातसीकोलकुलत्थान् प्रसृतो-न्मितान् अतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन ।पचेत्तैलाढकं सर्वैर्जीवनीर्वै पलोन्मितैः अनुवासन-मेतद्वि सर्ववातविकारनुत् ।” पूतीकः करञ्जः रौहिषंईषत्सुगन्धतृणविशेषः काकनासा (काकाठोठी)प्रसृतम् प्रलद्वयम् “षोढा सप्त व्यापदस्तु जायतेवस्तिकर्मणः द्रषितान् समुदायेन तांश्चिकित्स्यात्तुसुश्रुतात् समुदायेन सनुचितनेत्रादिसामग्र्या ।“मानाहारविहाराश्च परिहाराश्च कृत्स्नशः श्नेह-पानसमाः कार्य्या नात्र कार्य्या विचारणा ।”
Capeller
German
वस्ति॑
m.
f.
Blase
*Franse.
Burnouf
French
वस्ति वस्ति
m.
f.
(sfx. ति) bas-ventre. -- Au pl. bords
d'une étoffe.
Stchoupak
French
वस्ति-
(बस्ति-)
m.
vessie
seringue, clystère.
°मूल- nt. col de la vessie.
वस्त्य्-अर्थम् adv. comme lavement.