| YouTube Channel

वस (vasa)

 
Wilson
English
वस(औ)औवस r. 1st and 10th cls. (वसति वसयति) To dwell or
inhabit. r. 2nd cl. (वस्ते) To cover with dress, to wear as clothes. r. 10th
cl. (वासयति)
1 To be affectionate, to love.
2 To cut or divide.
3 To kill.
4 To accept. (इर, उ) इरवसु r. 4th cl. (वस्यति) To be straight,
to be unbending
literally or figuratively.
With अधि prefixed, To sit upon, to occupy.
With उप, To fast.
With नि,
1 To dwell in or inhabit.
2 To dress.
With प्र, To dwell abroad.
With सम्, To cohabit.
Monier Williams Cologne
English
वस
m.
or
n.
dwelling, residence (See दुर्-वस)
Edgerton Buddhist Hybrid
English
vasa-, see vaśa-.
Kridanta Forms
Sanskrit
वस (व꣡स꣡ निवासे - चुरादिः - सेट्)
ल्युट् = वसनम्
अनीयर् = वसनीयः - वसनीया
ण्वुल् = वसकः - वसिका
तुमुँन् = वसयितुम्
तव्य = वसयितव्यः - वसयितव्या
तृच् = वसयिता - वसयित्री
क्त्वा = वसयित्वा
ल्यप् = प्रवसय्य
क्तवतुँ = वसितवान् - वसितवती
क्त = वसितः - वसिता
शतृँ = वसयन् - वसयन्ती
शानच् = वसयमानः - वसयमाना
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वस्
मूलधातुः:
वस
धात्वर्थः:
निवासे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
वसति
अनुबन्धादिविशेषः:
यजादिः
धातुः:
वस्
मूलधातुः:
वस
धात्वर्थः:
आच्छादने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वस्ते
धातुः:
वस्
मूलधातुः:
वस
धात्वर्थः:
स्नेह-मोह-च्छेद-अपहरणेषु
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वासयति-ते
धातुप्रदीपः
Sanskrit
वसँ वस निवासे
- वसति उष्यते उवास ऊषतुः वस्ता वत्स्यति अवात्सीत् अवात्ताम् उषितः उषितवान् ऊषिवान् उषित्वा वसतेर्वासिर्वर्धकिभाण्डम् अनिट्प्रकरणानुरोधेन यजादिकार्य्यानुरोधेन एते वहिप्रभृतयो हलन्ता अपि यथायथं वर्गेषु पूर्वं नोपदिष्टाः अयमुदात्तेदनुदात्तः परस्मैभाषः ।। 1013 ।।
वसँ वस आच्छादने
- वस्ते वसाते वसते ववसे वसिता वसितम् वसित्वा वसनम् वासः चर्मवः ।।13 ।।
वसँ वस स्नेहन, च्छेद, अपहरणेषु
- वासयति वासना अवहरणे प्रवासयत्यपराधिनम् अन्यत्र वसति 198
वस निवासे
- वसयति 384
शब्दकल्पद्रुमः
Sanskrit
वस, निवासे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-अनिट् ।) ऐ, उस्यात् औ, अवात्सीत् इति दुर्गादासः
वस, स्नेहच्छिदोश्च इति कविकल्पद्रुमः
(चुरा०-पर०-अक०-सक०-च सेट् ।) स्नेह इहप्रीतिः क, वासयति बन्धुः चकारात् वधेच इति दुर्गादासः
वस, त् वासे इति कविकल्पद्रुमः
(अदन्त-चुरा०-पर०-अक०-सेट् ।) वसयति इतिदुर्गादासः
वस, इर् स्तम्भे इति कविकल्पद्रुमः
(दिवा०-पर०-अक०-सेट् उदित्वात् क्त्वावेट् ।)य, वस्यति उ, वसित्वा वस्त्वा इर्, अवसत्अवासीत् अवसीत् अस्मात् पुषादित्वान्नित्यंङ, इत्यन्ये स्तम्भ इह नम्रतारहितीभावः ।यो वस्यत्यरिष्विति हलायुधः इति दुर्गा-दासः
वस, स्तृतौ इति कविकल्पद्रुमः
(अदा०-आत्म०-सक०-सेट् ।) स्तृतिरिह आच्छादन-पूर्व्वकधारणम् ङ, वस्ते लोकः वस्त्रम् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
वस स्नेहे छेदने बधे
सक०
चु०
उभ०
सेट् वासयति तेअवीवसत् अधि + गन्धादिनासस्कारे
सक०
वस स्तम्भे दिवा०
पर०
सक०
सेट् वस्यति इरित् अवसत् अवा-सीत् उदित् क्त्वा वेट्
वस निवासे
भ्वा०
पर०
सक०
अनिट् यजा० वसति अवात्सीत्उवास ऊसतुः उषितः उषित्वा अधि + अनु + उप--आ + वावसतेराधारस्य कर्मता अधिवसति वैकुण्ठ हरिः सि० कौ०अनुवसति उपवसति आवसति उप + अभोजने तत्रनाधारस्य कर्मता “एकादश्यामुपवसेत्” इत्यादि
वस आच्छादने अदा० आ०
सक०
सेट् वस्ते अवसिष्ट
वस वासने सुरभीकरणे अद०
चु०
उभ०
सक०
सेट् वसयति तेअववसत्
क्षीरतरङ्गिणी
Sanskrit
वसँ वस निवासे
- 734।अनुदात्त उदात्तेत् वसति उवास, ऊषुः उष्यते, शासिवसिघसीनां (8360) इति षत्वम् निवत्स्यति (द्र0 7449) पादमि (1389) इति तङ्-वासयते भाषायां सदवसश्रुवः (32108) ऊषिवान् अमावास्यदन्यतरस्याम् (तु0 3122) अमावास्या, अमावस्या वसतिक्षुधोरिट् (7252) गत्यर्थाकर्मक (3472) इति क्तः-उषितः मृडमृद (127) उति क्त्वा कित्-उषित्वा वसेस्तव्यत् कर्तरि णिच्च (3196 वा0) वास्तव्यः अमेरतिः, वहिवस्यर्तिभ्यश्चित् (उ0 459, 60) वसतिः शॄस्वृस्निहि (उ0 111) इत्युः वसुः वसेस्तुन् (उ0 176) वस्तु अगारे णिच्च (उ0 177) वास्तु अर्तिकमिभ्रमिदेविवासिभ्यश्चिद् (तु0 द0 उ0 8 62) इत्यरन्-वासरम् वसिवपि (उ0 4125) इतीञ् वासिः, वासी तक्षभाण्डम् रक् (द्र0 उ0 213) उस्रो रश्मिः, षत्वं नेष्यते धापॄवस्यज्यतिभ्यो नः (उ0 36) वस्नं मूल्यम् वसेः सरः (द्र0 उ0 372) वत्सरः वसेः कसुन् (द्र0 उ0 434) उषः उपसर्गे वसेः (उ0 3114) इत्यथः-आवसथः तॄभूवहिवसि (उ03128) इति झच्-वसन्तः वसस्तिप् (तु0 द0 उ0 174 कपाठः) वस्तिर्मेढ्रोर्ध्वं नाभेरधः, वस्तयो वस्त्रान्तावयवाः बस्त गन्ध अर्दने (10132) अस्य बस्तश्छागः अदादौ वस आच्छादने (216) वस्ते वस्त्रम्, वासस् दिवादौ वसु स्तम्भे (4108) वस्यति चुरादौ वस स्नेहच्छेदापहरणेषु (10182), वास उपसेवायाम् (10270) वासयति 975
वसँ वस आच्छादने
- वस्ते पटम् वसिता वसानः वसितः भ्वादेर् (1733) उषितः अच् (द्र0 31134 वा0) वसः भिदाद्यङि (द्र0 33104) वसा वसनम् वसस्तिप् (तु0 द0 उ0 174 कपाठः) वस्तिमेढ्रोर्ध्वम् ष्ट्रन (द0 उ0 879) वस्त्रम् वसेर्णित् (उ04218) वासः वादित्वात् (द्र0 64126) लिट्येत्वाभ्यासलोपौ स्तः-ववसे, ववसिषे 13
वसँ वस स्नेह, च्छेद, अपहरणेषु
- वासयति, वासना, वासयति वृक्षम्, वासयत्यरिम्, हन्ति इत्यर्थः भ्वादौ (1733) वसति, अदादौ (216) वस्ते, वस्त्रम् 202
धातुवृत्तिः
Sanskrit
वसँ वस (अर्थः) निवासे
अनुदात्त उदात्तेत् ( वसति ग्राममुपवसति )ग्रामे वसतीत्यर्थः, "उपान्वध्याङ्वसः'' इति उपाद्युपसृष्टात् वसेराधारस्य कर्मत्वात् द्वितीया एवं ग्राममनुवसतीति, ग्रामे उपवसति अशननिवृत्तिं करोतीत्यर्थः अत्र [ वसेरश्यर्थस्य प्रतिषेधः ] इति कर्मत्वनिषेधः अत्र अशिशब्देन अशननिवृत्तिरुच्यते, यद्वार्थशब्दो निवृत्तिवचनो यथा श्लेष्मणोऽर्थे कटुकौषधीः प्रयुञ्जीतेति, तेन निवृत्तेः सम्बन्धिनो वसेरित्यर्थो भवति ( उवास, ऊषतुः, उवसिथ उवक्थ ऊषिव संप्रसारणं यजिवत् ( वस्ता वत्स्यति ) "सः स्यार्द्धधातुके'' इति सकारे तत्वम् ( वसतु अवसत् उष्यात् अवात्सीत् अवात्ताम् अवात्सुः ) तकारादौ "झलो झलि'' इति सिज्लोपस्य पूर्वत्रासिद्धत्वात् "सः स्यार्द्धधातुके'' इति सकारे तत्वे पश्चात् सलोपः क्व भवानुषितः, अहमत्रावात्सम् वसेर्लुङ्, "रात्रिशेषे जागरणसंततौ''इति लुङ् यदि कश्चित् केन चित् रात्रिशेषे तुर्ये यामे पृष्टो यामत्रयवासं प्रतिवक्तितदा लुङित्यर्थः यामत्रयस्याद्यतनत्वाल्लङि प्राप्ते वचनम् भूतसामान्यविवक्षयैव लुङिसिद्धे वचनमिदं लङ्निवृत्त्यर्थं, जागरणसंतताविति वचनात् सुप्त्वा प्रतिबुद्ध्य प्रतिवचने नायं नियमः ( विवत्सति वावस्यते वावस्ति ) लङि "तिप्यनस्तेः'' इति सकारस्य पदान्तत्वाद्दत्वे (अवावत्) सिपि तु "सिपि धातोरुर्वा'' इति (अवाव) इत्यपि भवति (वासयति अवीवसत्) अत्र "अणावकर्म्मकात्''इति परस्मैपदस्य "न पादमि'' इत्यादिना निषेधात् वासयते इत्यपि भवति (उषितवान्) "भाषायां सदवस'' इति भूतसामान्ये लिटो नित्यं क्वसुः अस्मादेवादेशविधानात् भूतसामान्ये पक्षे लिडनुमीयते परस्मादनुवृत्तेर्लुङ्विषयेऽप्ययं लिङिति सीदतावुपपादितम् ( वास्तव्यः ) "वसेस्तव्यत्कर्त्तरि णिच्च'' इति वक्तव्यात् णिद्वद्भावात् वृद्धिः अमा सह वसतः सूर्याचन्द्रमसावत्रेत्यमावास्या, "अमावस्यदन्यतरस्याम्'' इति ण्यति पक्षे वृद्धभावो निपात्ये, अन्यदा वृद्धिः अमावस्यायां जात (अमावस्यकम् अमावस्यम्) "अमावस्याया वा'' "अच'' इति सप्तम्यन्ताज्यातार्थे कनकारौ च, वाग्रहणात् "संधिवेला'' इत्यादिना शैषिकेऽणि आमावस्यमिति, भवति एकदेशविकृतमिति न्यायेन त्रय एते प्रत्यया अमावस्याशब्दादपि, ( अमावास्यकम् अमावास्यम् आमावास्यमिति आवासी ) यायाहूसंव्याहूव्रजवदवसां प्रतिषिद्धानामिति ग्रहादिपाठाण्णिनिः प्रतिषिद्धानां नञ्पूर्वाणामित्यर्थः ( प्रवासी ) "प्रे लप0'' इत्यादिना घिनुण् अनुषितो गुरुं शिष्यः अनुषितो गुरुः शिष्येण "गत्यर्थाकर्म्मकः'' इत्यादिना कर्तृकर्म्मणोः क्तः अत्र वसिग्रहणं सकर्मकार्थम् अकर्म्मकत्वे तु "क्तोऽधिकरणे च'' इति कर्तृभावाधिकरणेषु क्तो भवति ) ( उषितः उषितमनेन, इदमेषामुषितमिति (उषित्वा उषितः उषितवान्) "वसतिक्षुधोरिट्"इति कत्वानिष्ठयोरिट्"नक्त्वासेट्"इति निषेधं बाधित्वा "मृडमृद'' इत्यादिना सेटः कित्त्वविधानात् सम्प्रसारणम् उपवस्था प्राप्ताऽस्य औपवस्थ्यम् [ उपवस्थ्यादिभ्य उपसंख्यानम् ] इति तदस्य प्राप्तमिति विषये ण्यप्रत्ययः प्रवासाय प्रभवति प्रावासिकः एवमौपवासिकः "तस्मै प्रभवति सन्तापादिभ्य'' इति चतुर्थ्यन्तात्प्रभवत्यर्थे ठक् (वत्सरः संवत्सरेः परिवत्सरः) "वसेश्च''इति सम्प्रतिपूर्वात्सरप्रत्ययः चकारादनुवत्सरादयः संवत्सरे जातं फलं पर्व वा सांवत्सरम् सन्धिवेलादिषु "संवत्सरात् फलपर्वणोः'' इति पाठाच्छैषिकोऽण्प्रत्ययः कालाट्ठञोऽपवादःसंवत्सरेदेयमृणं सांवत्सरिकम् सांवत्सरकम् "संवत्सराग्रहायणीभ्यां ठञ् च'' इति सप्तम्यन्ताद्देये ऋणेठवुञौ अत्र संवत्सराग्रहायणीभ्यां चेत्युच्यमानेऽनुवृत्त्या ठञ् भविष्यति तद्विकल्पनात् कालाट्ठञपि, एवं सिद्धे ठञ्चेति प्रतिपदमनयोर्विधानं यदा देयमृणं फलं भवति तदा "संवत्सरात् फलपर्वणोः'' इति प्राप्तस्याणो बाधनार्थम् (द्विसंवत्सरीणः द्विसांवत्सरिकः) "रात्र्यहःसंवत्सराच्च'' इति रात्राद्यन्तात् द्विगोः "तेन निर्वृत्तम्'' "तमधीष्टो भृतो भूतो भावी'' इति विषये खप्रत्ययः "संख्यायाः संवत्सरसंख्यस्य च'' इति उत्तरपदवृद्धिः अधीष्टसत्कृत्त्य व्यापारितः भृतो वेतनेन क्रीतः भूतभाविनौ प्रसिद्धौ अनुसंवत्सरं दीयते कार्यं वाऽऽनुसांवत्सरिकम् "तत्र दीयते कार्यं भववत्'' इत्यतिदेशेन कार्यदीयमानयोर्भव्लक्षणः कालाट्ठञ् "अनुशतिकादीनां च'' इति उभयपदवृद्धिः (आवसथः) उपसर्गे वसेरित्यर्थः आवसथे वसति आवसथिकः "आवसथात् ष्ठल्'' इति ष्ठल् षित्वात् स्त्रियामावसथिकी ( वसतिः ) "सहिवस्यर्तिभ्यः कित्'' इत्यतिप्रत्ययः वसतौ साधु वासतेयम् "पथ्यतिथिवसति'' इति ठञ् वस्नं मूल्यम् "सुमूल्यादायवस्यतिभ्यो नः'' इति नः वस्नं हरत्यावहति वा वस्निकः "वस्नक्रयविक्रयाभ्यां कक्कनौ'' इति द्वितीयान्ताद्वस्नाद्धरत्यादिष्वर्थेषु यथासंख्यात् कन् (वास्निकः) "वस्नक्रयविक्रयाट्ठन्'' इति तृतीयान्तात् जीवत्यर्थे ठन्, (वसन्तः) "तॄभूवहिवसि'' इति अन्तच् वसन्तसहचरितोऽपि ग्रन्थो वसन्तः तमधीते वेद वा वासन्तिकः "वसन्तादिभ्यष्ठक्'' इति अध्येतृवेदित्रोष्ठक् वसन्ते पुष्ष्यन्ति वासन्त्यः कुन्दलताः "सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्'' इति सप्तम्यन्ताच्छैषिकोऽण् एवं साधुपच्यमानयोरपि वसन्ते उप्तं (वासन्तम् वासन्तकम् ) "ग्रीष्मवसन्तादन्यतरस्याम्'' इति तत्रोप्तमित्येतस्मिन्विषये वुञणौ ( वस्तिः ) "वसेस्तिः'' इति तिः (वस्तिरिव वास्तेयम्) "वस्तेर्ढञ्'' इतीवार्थे ढञ् वस्तौ भवमपि वास्तेयमिति "दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्'' इति सप्तम्यन्ताद् भवार्थे ढञ् "वसेस्तुन्'' इति तुनि(वास्तु)"अगारे णिच्च''इति णित्त्वादवृद्धिः ( वस्रत् ) ष्ट्रन् वस्रैः समाच्छादयति संवस्रयति "मुण्डमिश्र'' इत्यादिना णिच् वस्रात्समाच्छादनइति वृत्तिः ( वासिः ) "वशिवपियजिराजिव्रजिसदिहनिवादिवारिभ्य इञ्''इतीञ् प्रत्ययः (वसु) "शृस्वृस्निहि'' इत्यादिना उप्रत्ययः वसुमत्तमो वसिष्ठः वसुमत्तरो वसीयान् मतुबन्तादिष्ठन्नीयसुनोः "विन्मतोर्लुक्'' इति मतुपो लुगिष्ठेमेयःस्विति वर्त्तमाने "टेः'' इति टिलोपः अस्मादेव लुग्विधानाद् गुणवचनादपि मत्वन्तादिष्ठन्नीयसुनावनुमीयेते ( वासिष्ठः वासिष्ठौ वसिष्ठाः ) "ऋष्यन्धकवृष्णिकुरुभ्यश्च'' इत्यपत्यार्थऽणतस्य "अत्रिभृगुकुत्सवसिद्धष्ठगोतमाङ्गिरोभ्यश्च'' इति बहुषु लुक् ( श्वोवसीयः श्वोवसीयसम् ) "श्वसो वसीयः श्रेयसः'' इति समासान्तोऽच् आच्छादनेऽयमदादिः स्तम्भने दिवादिः स्नेहनादौ कथादिश्चुरादिश्च वस उपसेवायामाच्छादन इति कथादिः 985
वसँ वस (अर्थः) आच्छादने
निवासे वसतीति गतं शपि ( वस्ते वस्से वध्वे, वसे ववसे ववसिषे ववसिवहे ) "न शसददवादि'' इत्येत्वाभ्यासलोपनिषेधःवसितेत्याद्यासिवदुदाहार्यम् ( विवसिषते, वावस्यते वावसीति, वावस्ति ) वासयति वस्त्रं देवदत्तेन वासयते इति वा यदा तु व्यापारान्तरनिवृत्तिपरायां चोदनायामविवक्षितकर्मकोऽयमकर्मकस्तदा "अणावकर्म्मकात्''इति परस्मैपदमेव, "गतिबुद्धि'' इत्यादिना प्रयोज्यस्य कर्म्मत्वं ( 1 ) ( 1 ) प्रयोज्यः कर्म देवद_तमिति क्वचित्पाठः देवदत्तमिति, "न पादम्'' इत्यत्र लुग्विकरणमत्वान्नास्य ग्रह इत्युक्तम्, अत एव "प्रे लपस्रुद्रुमथवदवस'' इत्यादावपि नास्य ग्रहः (वसित्वा, वसितं, वसित) इत्यत्र "वचिस्वपि'' इति सम्प्रासारस्य नात्र प्रसङ्गोऽयजादित्वात्, वस्तते आच्छाद्यतेऽनेनेति वसनम्, करणे ल्युट्, यद्वावस्ति आच्छादयतीत्यनुदात्तेत इति कर्त्तरि युच्, ( वस्त्रम्, ) वस्त्रेण समाच्छादयति (संवस्त्रयति) "मुण्डमिश्र''इत्यादिना णिच् "वस्त्रात्समाच्छादन'इति वृत्तिः, (वासः, वाससी)"वसेर्णिच्च'' इत्यसुनि णित्त्वाद् वृद्धिः कृत्तिर्वासोऽस्येति (कृत्तिवासाः) "अत्वसन्तस्य'' इत्यत्वन्तस्यासम्बुद्धौ सौ दीर्घः अकारान्तस्तु कृत्तिं वस्त इति कर्म्मण्यणि, चर्मव इत्यादिप्रयोगश्चर्म वस्त इति "क्विप् च'' इति क्विपि "क्विबन्ता धातुत्वं जहति' इति अधातोरिति निषेधात् "अत्वसन्तस्य'' इति दीर्घः, अयमेवाधातोरिति निषेधः क्विबन्ता धातुत्वं जहतीत्यस्य मूलं, ( वसा, ) शरीरान्तर्गतस्नेहद्रव्यं, पचाद्यचि टाप्, तद्धि व्याप्य तिष्ठति 13
वसँ वस (अर्थः) स्नेहन, च्छेदा, अपहरणेषु
छेदोपहरणयोरित्येके ( वासयति ) अयं निवासे कथादिर्भूवादिश्च, वस्त इत्याच्छादने वस्यतीति स्तम्भने वास उपसेवायामिति दीर्घोपधश्च कथादौ 209
वस (अर्थः) निवासे
वसयति ) 396
कृदन्तरूपमाला
Sanskrit
1 {@“वस निवासे”@} 2 ‘वस्यति स्तम्भने वस्ते, छादने वसयेत्, वसेत्।।
निवासे वासयेत् स्नेहे, वासयत्युपसेवने।’ 3 इति देवः।
‘अयं धातुः उभयपदी’ इति कातन्त्रशाकटायनादयः।
वासकः-सिका, वासकः-सिका, 4 विवत्सकः-त्सिका, वावसकः-सिका
5 वस्ता-त्री, वासयिता-त्री, विवत्सिता-त्री, वावसिता-त्री
वसन्-न्ती, वासयन्-न्ती, विवत्सन्-न्ती
-- निवत्स्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवत्सिष्यन्-न्ती-ती
-- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः
6 अध्युषितम्- 7 8, प्रोषितः, 9 अनुषितो 10, गुरुः शिष्येण, तः-तवान्, वासितः, विवत्सितः, वावसितः-तवान्
वसः, 11 प्रवासी, जलवासी, सुवासी, नगरवासी, 12 ग्रामेवासी-ग्रामवासी, 13 अवासी, होतुरन्तेवासी, 14 पितुरन्तेवासी, 15 अध्यूषुषः 16 ऊषिवान् 17, वासः, वासनः, 18 वास्तव्यः, 19 विवत्सुः, वावसः
वस्तव्यम्, वासयितव्यम्, विवत्सितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवत्सनीयम्, वावसनीयम्
20 वास्यम्, 21 अमावास्या 22 -अमावस्या, वास्यम्, विवत्स्यम्, वावस्यम्, उष्यमाणः, वास्यमानः, विवत्स्यमानः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुर्वसः
-- -- निवासः, 23 आवासः 24, लिप्तवासः, वनेवासः, 25 वनवासः, ग्रामेवासः, 26 उदवासः, उदकवासः, उद्वासः, उपवासः, प्रावासः, वासः, विवत्सः, वावसः
वस्तुम्, वासयितुम्, विवत्सितुम्, वावसितुम्
27 उष्टिः, 28 वासिः, वासना, विवत्सा, वावसा
वसनम्, वासनम्, विवत्सनम्, वावसनम्
29 उषित्वा 30, वासयित्वा, विवत्सित्वा, वावसित्वा
31 प्रोष्य, प्रवास्य, प्रविवत्स्य, प्रवावस्य
वासम् २, उषित्वा २, वासम् २, वासयित्वा २, विवत्सम् २, विवत्सित्वा २, वावसम्
वावसित्वा
32 33 वसतिः, 34 वासिः, 35 वसिः, 36 वस्तिः, 37 वसु, 38 वस्तु, 39 वास्तु, 40 आवसथः, 41 वत्सरः, 42 वासरः, 43 वसिष्ठः, 44 वस्नम्, 45 वसन्तः, 46 वस्त्रम्।
प्रासङ्गिक्यः
01
=>
(१५७६)
02
=>
(१-भ्वादिः-१००५। अक। अनि। पर।)
03
=>
(श्लो। १८७-८)
04
=>
[[५। सन्नन्तात् ण्वुलि, धातुसकारस्य ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे रूपमेवम्। एवं स्यप्रत्यये, सन्नन्तेषु सर्वत्रापि ज्ञेयम्।]]
05
=>
[पृष्ठम्१२१२+ २८]
06
=>
[[१। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इत्यादिना कर्तृकर्मणोः क्तः। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति इडागमः। सम्प्रसारणम्। पूर्वरूपादिकम्। ‘शासिवसिघसीनां च’ (८-३-६०) इति षत्वम्।]]
07
=>
[[आ। ‘बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम्।।’ भ। का। ९। ३९]]
08
=>
[अनेन]
09
=>
[[B। ‘आहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः।।’ भ। का। ९। ६८]]
10
=>
[गुरुं शिष्यः]
11
=>
[[२। ताच्छीलिकः ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।]]
12
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये ‘शयवासवासिषु अकालात्’ (६-३-१८) इति सप्तम्या अलुक्। एवम् अन्तेवासी इत्यत्रापि ज्ञेयम्।]]
13
=>
[[४। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् (ग। सू। ३-१-१३४) इति वसेः ग्रह्यादिपाठात् णिनिप्रत्ययः।]]
14
=>
[[C। ‘रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्।।’ शि। व। ३। ५५]]
15
=>
[[ड्। ‘अध्यूषुषो यामभजञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः।।’ शि। व। ३-५९]]
16
=>
[[५। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। सम्प्रसारणपूर्वरूपादिकम्। अभ्यासस्य उत्तरखण्डस्य सवर्णदीर्घः। ‘शासिवसि--’ (८-३-६०) इति षत्वम्।]]
17
=>
[[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं जनौघजन्यम्।’ भ। का। ३-२७]]
18
=>
[[६। ‘वसेस्तव्यत् कर्तरि णिच्च’ (वा। ३-१-९६) इति वचनात् कर्तरि तव्यत्प्रत्ययः। णिद्वद्भावेनोपधावृद्धिः। वसतीति वास्तव्यः।]]
19
=>
[[F। ‘प्रसूनकॢप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः।।’ शि। व। १-६६]]
20
=>
[पृष्ठम्१२१३+ २६]
21
=>
[[१। अमा = सह वसतः सूर्याचन्द्रमसौ इत्यर्थे ‘अमावस्यद् अन्यतरस्याम्’ (३-१-१२२) इति ण्यत्प्रत्ययान्तो निपात्यते। पक्षे वृद्ध्यभावश्च निपातनादेव। तेन अमावास्या अमावस्या इति रूपद्वयम्।]]
22
=>
[[आ। ‘स तामूचेऽथ कच्चित्त्वममावास्यासमन्वये।’ भ। का। ६-६४]]
23
=>
[[२। ‘हलश्च’ (३-३-१२१) इति घञ्। ‘शयवास--’ (६-३-१८) इति सप्तम्या अलुक्।]]
24
=>
[[B। ‘आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता।’ भ। का। ५-९०]]
25
=>
[[C। ‘रक्षन् वनेवासकृताद् भयात् तान् प्रातश्छलेनापजगाम रामः।।’ भ। का। ३-१६।]]
26
=>
[[३। ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति सूत्रेण वासशब्द उत्तरपदे उदकशब्दस्य उदादेशः। उदवासः उदकस्य वास इत्यर्थः।]]
27
=>
[[४। स्त्रियां क्तिनि सम्प्रसारणषत्वष्टुत्वादिकेषु रूपमेवम्। वसतिः इति तु औणादिकं रूपमिति ज्ञेयम्।]]
28
=>
[[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्प्रत्यये रूपम्। यद्यपि भाव एवायं प्रत्ययः, तथापि यथासम्भवं कर्तर्यपि भवति। वासिः = तक्ष्ण आयुधविशेषः।]]
29
=>
[[६। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति क्त्वायामिडागमः। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधं बाधित्वा ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति कित्त्वम्। तेन सम्प्रसारणादिकं भवतीति ज्ञेयम्।]]
30
=>
[[ड्। ‘ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते।’ भ। का। ३-४५।]]
31
=>
[[E। ‘क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तात्…।’ शि। व। ११-६५]]
32
=>
[पृष्ठम्१२१४+ ३०]
33
=>
[[१। ‘वहिवस्यर्तिभ्यश्चित्’ (द। उ। १-२९) इत्यतिप्रत्ययः। वसतिः = आलयः।]]
34
=>
[[२। ‘वसिवपि--’ (द। उ। १-५३) इति इञ्प्रत्ययः। वासिः = तक्षकारभाण्डम्।]]
35
=>
[[३। औणादिकः (द। उ। १-६८) इप्रत्ययः। वसिः शय्या, रात्रिर्वा।]]
36
=>
[[४। ‘वसेस्तिः’ (द। उ। १-७४) इति तिप्रत्ययः। वसत्यस्मिन् नानौषधियुक्तः स्नेह इति वस्तिः-अधःकायप्रदेशः, चर्ममयः पुटश्च। बस्तिः इति गौडीयाः।]]
37
=>
[[५। औणादिके (द। उ। १-९५) उप्रत्यये रूपमेवम्। वसु = धनम्।]]
38
=>
[[६। ‘वसेस्तुन्’ (द। उ। १-१२८) इति तुन्प्रत्ययः। वस्तु = द्रव्यम्।]]
39
=>
[[७। ‘अगारे णिच्च’ (द। उ। १-१२९) इति तुन्प्रत्ययः, तस्य णिद्वद्भावेनोपधावृद्धिः। वास्तु = गृहादिकम्।]]
40
=>
[[८। ‘आङि वसः’ (द। उ। ६-३९) इति आङ्युपपदे धातोरथप्रत्यये रूपमेवम्। आवसथः = गृहादिकम्।]]
41
=>
[[९। ‘वसेश्च’ (द। उ। ८-५१) इति सरन्प्रत्यये ‘सः स्यार्द्धधातुके’ (७-४-४९) इति तकारादेशे रूपम्। वसन्त्यस्मिन् ग्रहनक्षत्रर्तुदेवता इति वत्सरः = अब्दः। ‘संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत्समाः’ इत्यमरः।]]
42
=>
[[१०। णिजन्तात् औणादिके (द। उ। ८-१००) अरप्रत्यये रूपमेवम्। ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः।]]
43
=>
[[११। अतिशयेन वसुमान् वसिष्ठः। वसुमच्छब्दात् इष्ठन्प्रत्यये मतुब्लुकि टिलोपे रूपमेवम्।]]
44
=>
[[१२। ‘धापॄवस्यज्यतिभ्यो नः’ (द। उ। ५-३९) इति नः। “वस्नम् मूल्यम्” इति धातुवृत्तिः।]]
45
=>
[[१३। ‘तॄभूवहिवसि--’ (द। उ। ६-१९) इति झच्प्रत्ययः। ‘झोऽन्तः’ (७-१-३) इति अन्तादेशे वसन्तः इति रूपम्। ऋतुविशेषः।]]
46
=>
[[१४। औणादिके (द। उ। ८-७९) ष्ट्रन्प्रत्यये रूपमेवम्। केचित्तु ‘वस आच्छादने’ इत्यस्मात् व्युत्पादयन्ति, तदेव न्याय्यम्।]]
1 {@“वस आच्छादने”@} 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।’ 3 इति देवः।
‘-- स्मृतौ’ इति वोपदेवः।
वासकः-सिका, वासकः-सिका, विवसिषकः-षिका, वावसकः-सिका
वसिता-त्री, वासयिता-त्री, विवसिषिता-त्री, वावसिता-त्री
-- वासयन्-न्ती, वासयन् वासयमानो वा वस्त्रं देवदत्तेन, वासयिष्यन्-न्ती-ती, 4 5 वसानः, वासयमानः, विवसिषमाणः, वावस्यमानः
वसिष्यमाणः, वासयिष्यमाणः
विवसिषिष्यमाणः, वावसिष्यमाणः
6 चर्मवः-चर्मवसौ-चर्मवसः
-- -- -- वसितम्-तः, वासितम्, विवसिषितः, वावसितः-तवान्
वसः, 7 वसा, सुवासी, 8 वसनः, 9 वसिता, वासः, विवसिषुः, वावसः
वसितव्यम्, वासयितव्यम्, विवसिषितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवसिषणीयम्, वावसनीयम्
वास्यम्, वास्यम्, विवसिष्यम्, वावस्यम्
वस्यमानः, वास्यमानः, विवसिष्यमाणः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुवसः
-- -- -- वासः, आवासः, 10 कृत्तिवासाः, वासः, विवसिषः, वावसः
वसितुम्, वासयितुम्, विवसिषितुम्, वावसितुम्
वस्तिः, 11 वसा, वासना, विवसिषा, वावसा
वसनम्, वासनम्, विवसिषणम्, वावसनम्
वसित्वा, वासयित्वा, विवसिषित्वा, वावसित्वा
प्रवस्य, प्रवास्य, प्रविवसिष्य, प्रवावस्य
वासम् २, वसित्वा २, वासम् वासयित्वा विवसिषम् विवसिषित्वा वावसम्
वावसित्वा
12 13 वसु, 14 नप्रत्यये रूपम्।
वस्तेऽनेनेति वस्नम् = वासः।]] वस्नम्, 15 सरन्प्रत्ययः।
संवत्सरः = क्षण- लवमुहूर्त्ताहोरात्रपक्षमासायनानि इत्यर्थः।
एवं परिवत्सरः, विवत्सरः, इद्वत्सरः, इडावत्सरः, उद्वत्सरः इत्यादिषु बोध्यम्।
वस्त्रेण समाच्छादयति इत्यर्थे संवस्त्रयन् इत्यत्र ‘मुण्डमिश्र--’ 16 इत्यादिनाणिच्।
‘वस्त्रात्स- माच्छादने’ इति काशिकावृत्तिः।]] संवत्सरः, 17 ष्ट्रन्प्रत्यये वस्त्रमिति रूपम्।
वस्ते शरीरमिति वस्त्रम्।]] वस्त्रम्।
18
प्रासङ्गिक्यः
01
=>
(१५७७)
02
=>
(२-अदादिः-१०२३। अक। सेट्। आत्म।)
03
=>
(श्लो। १८७)
04
=>
[पृष्ठम्१२१५+ २५]
05
=>
[[आ। ‘पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।’ शि। व। १-६।]]
06
=>
[[१। चर्म वस्ते इति चर्मवः इति क्विप्प्रत्यये रूपमेवम्। ‘अत्वसन्तस्य चाधातोः’ (६-४-१४) इत्यत्र काशिकायां प्रत्युदाहरणत्वेन प्रदर्शितम्।]]
07
=>
[[२। पचाद्यजन्तात स्त्रियां टाप्। वसा = शरीरान्तर्गतस्नेहद्रव्यम्।]]
08
=>
[[३। वस्ते आच्छादयति इत्यर्थे ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युचि रूपमेवम्।]]
09
=>
[[४। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्प्रत्यये रूपम्। ‘वसिता वस्त्रमित्येवं साधुकारिणि कर्तरि।।’ इति ‘तृन्’ सूत्रे प्रक्रियासर्वस्वश्लोकः।]]
10
=>
[[५। औणादिकेऽसुन्प्रत्यये वासश्शब्दः। कृत्तिर्वासोऽस्येति ‘अत्वसन्तस्य--’ (६-४-१४) इति असंबुद्धौ सौ परतः दीर्घो भवति। तेन रूपमेवम्।]]
11
=>
[[६। भिदादिपाठात् (३-३-१०४) अङ्प्रत्ययः।]]
12
=>
[पृष्ठम्१२१६+ २७]
13
=>
[[१। ‘शॄस्वृस्निहित्रप्यसिवसि--’ (द। उ। १-९५) इति उप्रत्यये रूपमेवम्। वस्ते भाग्यवतो जनानिति वसु = धनम्।]]
14
=>
[[२। औणादिके [द। उ। ५-३९]
15
=>
[[३। संपूर्वात् वसधातोः औणादिकः [द। उ। ८-५२]
16
=>
(३-१-२१)
17
=>
[[४। औणादिके [द। उ। ८-७९]
18
=>
[[आ। ‘वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बद्धुमविनीत कथं यतेथाः।।’ चम्पूरामायणे ५-४८]]
1 {@“वस स्नेहच्छेदापहरणेषु”@} 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।
निवासे वासयेत् स्नेह वासयत्युपसेवने।’ 3 इति देवः।
‘-- …उपहरणेषु इति वा पाठः’ इति धा।
का।
4।
‘-- …अवहरणेषु’ इति कातन्त्रशाकटायनहेमचन्द्रादयः।
‘-- …अवहननेषु इति पाठान्तरम्’ इति क्षीरतरङ्गिण्याम्।
वासकः-सिका, विवासयिषकः-षिका, वासयिता-त्री, विवासयिषिता-त्री
वासयन्-न्ती, विवासयिषन्-न्ती
वासयिष्यन्-न्ती-ती, विवासयिषिष्यन्-न्ती-ती
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचाटयतिवत् 5 ऊह्यानि।
भिदादि- 6 पाठात् अङि-वसा इति रूपमिति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५७८)
02
=>
(१०-चुरादिः-१७४५। सक। सेट्। उभ।)
03
=>
(श्लो। १८७-८)
04
=>
(३-४१)
05
=>
(४८८)
06
=>
(३-३-१०४)
1 {@“वस निवासे”@} 2 कथादिः, अदन्तश्च।
‘वस्यति स्तम्भने, वस्ते छादने वसयेत् वसेत्।।
निवासे वासयेत्, स्नेहे वासयत्युपसेवने।’ 3 इति देवः।
क्षीरस्वामिचन्द्रजैनकातन्त्रकाशकृत्स्नादयः धातुममुं नाभ्युपगच्छन्ति।
अपि तु ‘वस स्नेहनच्छेदावहरणेषु’ इति पठित्वा अवहरणे = वर्तने इति 4 काशकृत्स्नः।
कातन्त्रास्तु ‘-- छेदावहननेषु’ इति।
वसकः-सिका, विवसयिषकः-षिका
वसयिता-त्री, विवसयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 5 ज्ञेयानि।
क्तप्रत्यये निवसितम् 6 इति।
प्रासङ्गिक्यः
01
=>
(१५७९)
02
=>
(१०-चुरादिः-१९४२। अक। सेट्। उभ।)
03
=>
(श्लो। १८७-८)
04
=>
[पृष्ठम्१२१७+ २८]
05
=>
(१७६)
06
=>
[[आ। ‘… सदोनिवसितं हरिं ययुरतूत्थिताङ्गाः क्रुधा।’ धा। का। ३-६४]]