| YouTube Channel

वशीकरणं (vazIkaraNaM)

 
Apte 1890
English
वशीकरणं 1 Fascinating, attracting.
2 A cause of attraction or allurement
एकैकमेव हि वशीकरणं गरीयः Māl. 6. 17.
3 Subduing, subbjugation.
शब्दकल्पद्रुमः
Sanskrit
वशीकरणं,
क्ली,
(वश + कृ + भावे ल्युट् अभूत-तद्भावे च्विः ।) मणिमन्त्रौषधैरायत्तीकरणम् ।इति भरतजटाधरौ
अस्य पर्य्यायः वशक्रिया-शब्दे द्रष्टव्यः
*
तत्साधनौषधानि यथा, --“ब्रह्मदण्डी वचा कुष्ठं प्रियङ्गुनागकेशरम् ।दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम्
”ओँ नारायणाय स्वाहेति ।“ताम्बूलं दीयते यस्य वशी स्यान्न संशयः ।”ओँ हरि हरि स्वाहा
“गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया ।चूर्णं कृत्वा यस्य शिरे दीयते वशी भवेत्
खञ्जरीटस्य मांसन्तु मधुना सह पेषयेत् ।ऋतुकाले योनिलेपात् पुरुषो दासतामियात्
अगुरुं गुग्गुलुञ्चैव नीलोत्पलसमन्वितम् ।गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत्
श्वेतापराजितामूलं पिष्टं रोचनया युतम् ।यं पश्येत्तिलकेनैव वशीकुर्य्यान् नृपालये
काकजिह्वा वचा कुष्ठं निम्बपत्रं सकुङ्कुमम् ।आत्मरक्तं सभावेयं वशी भवति मानवः
ओँ नमः सर्व्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरुस्वाहा ।सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत्
ब्रह्मदण्डी वचा पत्रं मधुना सह पेषयेत् ।अङ्गलेपाच्च वनिता नान्यं भर्त्तारमिच्छति
मूलं जयन्त्या वक्त्वस्थं व्यवहारे जयप्रदम्
भृङ्गरालस्य भूलन्तु पिष्टं शुक्रेण संयुतम् ।अक्षिणी चाञ्जयित्वा तु वशीकुर्य्यान्नरं किल
१०अपराजिताशिफां दद्यान्नीलोत्पलसमन्विताम् ।ताम्बूलेन प्रदानाच्च वशीकरणमुत्तमम्
११
चतुःषष्टिकलाः प्रीक्ताः कामशास्त्रे वशीकराः ।आलिङ्गनाद्या नृस्त्रीणां कुमार्य्यादेर्व्वशीकराः
१२
रोचनां नागपुष्पाणि विल्वपुष्पं प्रियङ्गवः ।कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्बशे
१३
दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी ।तिलतैलेन संयुक्तं योनिलेपात् वशो नरः
१४
निम्बकाष्ठस्य धूपेन धूपयित्वा भगं स्त्रियः ।सुभगा स्यात् सा रुद्र पतिर्दासो भविष्यति
१५
माहिषं नवनीतञ्च कुष्ठञ्च मधुयष्टिका ।सौभाग्यं भगलेपात् स्यात् पतिर्दासो भवेत्तदा
१६
पञ्च रक्तानि पुष्पाणि पृथग्जात्या समाहरेत् ।कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम्
पुष्पेण तु पिष्ट्वा रोचनायां समेकतः ।स्त्रिया पुंसा कृतो रुद्र तिलकोऽयं वशीकरः
१७
ब्रह्मदण्डा तु पुष्पेण याने पाने वशीकरः
१८
ओँ गं गणपतये स्वाहेति ।अयं गणपतेर्मन्त्रो धनविद्याप्रदायकः
इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः ।व्यवहारे जयः स्याच्च शतजाप्यान्नृणां प्रियः
१९
तिलानान्तु घृताक्तानां कृष्णानां रुद्र होमयेत् ।अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्द्दिनैः
२०
ह्रींकारं सविसर्गञ्च प्रातःसूर्य्यसमद्युतिम् ।स्त्रीणां ललाटे विन्यस्य वश्यतां नयति ध्रुवम्
२१
यस्तु जुहुयादयुतं शुचिः प्रयतमानसः ।दृष्टिमात्रे सदा तस्य वशमायान्ति योषितः
२२
मनःशिला पत्रकञ्च सगोरोचनकुङ्कुमम् ।एभिः कृते तिलके सदा स्त्री वशतामियात्
२३
सहदेवो भृङ्गराजः सितापराजिता वचा ।तेनैव तिलकं कृत्वा त्रैलोक्यं वशतामियात्
२४गोरोचना मीनपित्तमाभ्याञ्च कृतवार्त्तिकाम् ।यः पुमांस्तिलकं कुर्य्याद्वामहस्तकनिष्ठया ।स करोति वशं सर्व्वं त्रैलोक्यं नात्र संशयः
२५
गोरोचना महादेव ऋतुशोणितभाविता ।ततः कृताच्च तिलकान्मानवं यं निरीक्षते ।तञ्च सर्व्वं वशं कुर्य्यान्नात्र कार्य्या विचारणा
२६
नागेश्वरञ्च शैलेयं त्वक् पत्रञ्च हरीतकी ।चन्दनं काष्ठसूक्ष्मैला रक्तशालिसमन्विता ।एतैर्धूपो वशकरः स्मरवाण इवेश्वर
२७
रतिकाले महादेव पार्व्वतीप्रिय शङ्कर ।निजशुक्रं गृहीत्वा तु वामहस्तेन यः पुमान् ।कामिनीचरणं वामं लिम्पेत् स्यात् स्त्रियाःप्रियः
२८
सैन्धवञ्च महादेव पारावतमलं मधु ।एभिर्लिप्तन्तु लिङ्गं वै कामिनीवशकृद्भवेत्
२९
पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि ।तण्डुलञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः ।अनेन लिप्तलिङ्गस्य कामिनी वशतामियात्
”३०
इति मारुडे १८३ १८६ १८९ अध्यायाः
“अथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् ।येन विज्ञानमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात्
प्रतिमां कारयेद्देवि ! पलेन रजतस्य ।पलार्द्धेन महेशानि ! साध्यस्य प्रतिमां शिवे
हरितालं पलार्द्धञ्च हरिद्राचूर्णकं तथा ।गर्त्तं कृत्वा सार्द्धहस्तं यत्र निःक्षिप्य सुन्दरि !
रक्तासनं तत्र दत्त्वा विशेत्तद्गतमानसः ।चतुर्द्दिक्षु महेशानि ! पताका विनिवेशयेत्
रक्तासने चोपविश्य पूर्व्वास्यो जपमारभेत् ।पूजाया नियमं देवि ! जानीहि नगनन्दिनि
तिलपूर्णघटं तत्र स्थापयेत्तत्र देशिकः ।प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद्बुधः
अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् ।दशसाहस्रजापेन प्रयोगार्हो भवेत्ततः
प्रणवं पूर्व्वमुच्चार्य्य मायाबीजं द्वितीयकम् ।का त्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम्
ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् ।साध्यनाम ततो न्यस्य वशमानय तत्परम्
वह्निजायावधिर्म्मन्त्रो जपेद्दशसहस्रकम् ।दशांशादिप्रमाणेन होमादींश्च समाचरेत्
प्रातः स्नात्वा हविष्याशी शुचिर्भूत्वा जिते-न्द्रियः ।प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि
जपे समाप्ते देवेशि ! हुनेद्दिने दिने शुभे ।जातीपुष्पस्य होमेन वशयेन्नात्र संशयः
कर्पू रमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् ।पूर्व्वं प्रणवमुद्धृत्य चामुण्डां प्रवदेत्ततः
तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि सुन्दरि ! ।अनेनैव विधानेन संतर्प्य परदेवताम्
सिद्धिः प्रयोगाद्देवेशि ! जायते नात्र संशयः ।अभिषेकं ततः कुर्य्यात् शङ्करि प्राणवल्लभे
प्रणवञ्च महेशानि ! चामुण्डां तदनन्तरम् ।अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषिञ्चयेत्
तद्दशांशेन देवेशि ! ब्राह्मणान् भोजयेत्तदा ।एवं कृते महेशानि ! वशीकरणमुत्तमम्
जायते नात्र सन्देहः सत्यं सत्यं संशयः ।कामतुल्यश्च नारीणां रिपूणां शमनोपमः
यावज्जीवितपर्य्यन्तं स्मरबाण इवेश्वरि ! ।जायते नात्र सन्देहः सत्यं सुरगणार्च्चिते
*
श्लेतापराजितामूलं पेषयेद्रोचनायुतम् ।शतेनामन्त्रितं कृत्वा तिलकं कारयेत्ततः
वशयेन्नात्र सन्देहः सत्यं सत्यं महेश्वरि ! ।चन्द्रसूर्य्यौ यदि वृथा तदा निष्फलभाग्भवेत्
रक्तवस्त्रेण चामुण्डां तोषयेद्बहुयत्नतः ।सुवर्णं दक्षिणा देया वित्तानुसारतः प्रिये !
आद्यन्ते महतीं पूजां कुर्य्यात्तस्या वरानने ! ।पञ्चदिनप्रयोगेण राजानं वशमानयेत्
तव प्रीत्यै महादेवि ! कथितं भुवि दुर्लभम्
”इति बृहन्नीलतन्त्रम्