| YouTube Channel

वलाकः (valAkaH)

 
Apte
English
वलाकः [valākḥ], See बलाक.
Apte Hindi
Hindi
वलाकः
पुं*
- वल + अक् + अच्
बगुला
शब्दकल्पद्रुमः
Sanskrit
ब(व)लाकः,
पुं,
(बलेन अकतीति बल + अक +पचाद्यच् ।) बकजातिः इति भरतः
(पूरु-पुत्त्रः पीतगङ्गस्य जह्नोः पौत्रः ।यथा, भागवते १५ ।“जह्नोस्तु पूरुस्तत् पुत्त्रो बलाकश्चात्मकोऽजकः
”वत्सप्रीपुत्त्रभेदः यथा, मार्कण्डेये ११८ ।“तस्य तस्यां सुनन्दायां पुत्त्रा द्बादश जज्ञिरे ।प्रांशुः प्रचीरः शूरश्च सुचक्रो विक्रमः क्रमः
बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः
”जातूकर्ण्यस्य मुनेः शिष्यविशेषः यथा, श्रीभाग-वते १२ ५८ ।“जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् ।बलाकपैलजावालविरजेभ्यो ददौ मुनिः
”राक्षसभेदः यथा, मार्कण्डेये ६९ ६४ ।“तां जहाराद्रितनयो बलाको नाम राक्षसः
”स्वनामख्यातो व्याधविशेषः यथा, महा-भारते ६९ ४० ।“मृगव्याध्योऽभवत् कश्चित् बलाको नामभारत
”)