| YouTube Channel

वर्त्ती (varttI)

 
शब्दकल्पद्रुमः
Sanskrit
वर्त्ती,
स्त्री,
(वर्त्ति + कृदिकारादिति ङीष् ।)वर्त्तिः इत्यमरटीका
(यथा, महाभारते ।४ २१ २३ ।“आसीदभ्यधिका चास्य श्रीः श्रियं प्रमु-मुक्षतः ।निर्व्वाणकाले दीपस्य वर्त्तीमिव दिधक्षतः
”)
वर्त्ती, [न्] (वर्त्तते इति वृत् + णिनिः ।)वर्त्तिष्णुः इति हेमचन्द्रः ५३
वाचस्पत्यम्
Sanskrit
वर्त्ति(र्त्ती) स्त्री वृत--इन् वा ङीप् लेखे नयनाञ्जने३ गात्रानुलेपने दीपदशायां भिषजां निर्मेयौषधभेदे(वाति) “कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा ।केणो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला एषांवर्त्तिर्हन्ति कार्च तिमिरं पटलं तथा” गरुडपु० १९८ अ० ।६ दीपे मेदि०