| YouTube Channel

वर्त्तिः (varttiH)

 
Tamil
Tamil
வர்த்தி: : வர்த்தீ = விளக்குத் திரி, கண் மை, களிம்பு, பூச்சு, சுருட்டப்பட்ட பொருள்.
शब्दकल्पद्रुमः
Sanskrit
वर्त्तिः,
स्त्री,
(वर्त्ततेऽनया इति वृत् + “हृपिषि-रुहिवृतिविदिच्छिदिकीर्त्तिभ्यश्च ।” उणा० ।११८ इति इन् ।) भेषजनिर्म्माणम् नयना-ञ्जनम् लेखः गात्रानुलेपनी दीपदशा ।(यथा, भागवते ११ ।“यथा प्रदीपो घृतवर्त्तिमश्नन्शिखाः सधूमा भजति ह्यन्यदा स्वम्
”)दीपः इति मेदिनी ते, ५५
*
वर्त्ति-विशेषो यथा, --“कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा ।फेनो रसाञ्जनं क्षौद्रं षिडङ्गानि मनःशिला ।एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा
”इति गारुडे १९८ अध्यायः
(वर्त्ततेऽनयेति वृत् + “वृतेश्छन्दसि ।” उणा०४ १४० इति इः बाहुलकात् लोकेऽपि ।योगकर्म्मद्रव्यम् इत्युज्ज्वलदत्तः
)