| YouTube Channel

वर्णधर्म (varNadharma)

 
शब्दसागरः
English
वर्णधर्म्म
m.
(-र्म्मः) The particular occupation or duty of each caste or
tribe.
E.
वर्ण a tribe, धर्म्म virtue, moral merit.
Capeller Eng
English
वर्णधर्म
m.
sgl.
&
pl.
the laws or duties of
castes.
Yates
English
वर्ण-धर्म्म (र्म्मः) 1.
m.
Particular occu-
pation of any caste.
Wilson
English
वर्णधर्म्म
m.
(-र्म्मः) The particular occupation or duty of each
caste or tribe.
E.
वर्ण a tribe, धर्म्म virtue, moral merit.
Monier Williams Cologne
English
वर्ण—धर्म
m.
the partic. duty or occupation of any caste or tribe,
Gaut.
Mn.
&c.
Apte Hindi
Hindi
वर्णधर्मः
पुं*
वर्ण-धर्मः -
प्रत्येक जाति के विशिष्ट कर्तव्य
L R Vaidya
English
varRa-Darma {% m. %} the duties of a caste.
शब्दकल्पद्रुमः
Sanskrit
वर्णधर्म्मः,
पुं,
क्ली,
(वर्णानां ब्राह्मणादीनां धर्म्मः ।)ब्राह्मणक्षत्त्रियवैश्यशूद्राणां कर्त्तव्यं कर्म्म तद्-यथा, --“यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ।अध्यापनं चाध्ययनं षट्कर्म्माणि द्विजोत्तमाः
दानमध्ययनं यज्ञो धर्म्मं क्षत्त्रियवैश्ययोः ।दण्डो युद्धं क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते
शुश्रूषैव द्विजातीनां शूद्राणां वर्णसाधनम् ।कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः
क्षमा दमो दया दानमलोभस्त्याग एव ।आर्ज्जवं चानसूया तीर्थानुसरणं तथा
सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः
अहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।समासिकमिमं धर्म्मं चातुर्व्वर्णेऽब्रवीन्मुनिः
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया-वताम् ।स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम्
वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ।गान्धर्व्वं शूद्रजातीनां परिचारे तु वर्त्तताम्
”इति कौर्म्मे अध्यायः
*
अपि ।मार्कण्डेय उवाच ।“हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः ।शृण्वन्तु मुनयः सर्व्वे धर्म्मान् वक्ष्यामि शाश्व-तान्
वर्णानामाश्रमाणाञ्च योगशास्त्रञ्च सत्तमाः ।यज्ज्ञात्वा मुनयो नित्यं मुच्यते जन्मबन्धनात्
ब्राह्मण्यां ब्राह्मणेनैव उत्पन्नो ब्राह्मणः स्मृतः ।तस्य धर्म्मं प्रवक्ष्यामि तं योग्यं देशमेव
कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते ।तस्मिन् देशे वसन् धर्म्मं कुरुते ब्राह्मणोत्तमः
अध्यापनं चाध्ययनं यजनं याजनं तथा ।दानं पतिग्रहश्चैव कर्म्मषट्कमिहोच्यते
अध्यापनञ्च त्रिविधं धर्म्मार्थं चात्मकारणम् ।शुश्रूषाकारणञ्चेति त्रिविधं परिकीर्त्तितम्
नैषामन्यतमो वापि दृश्यते यत्र मानवे ।तत्र विद्या दातव्या पुरुषेण हितैषिणा
योग्यानध्यापयेच्छिष्यान् यज्ञानपि योजयेत् ।विदितान् प्रतिग्रहानिच्छेद्गृहधर्म्मप्रसिद्धये
वेदमेवाभ्यसेन्नित्यं शुचौ देशे समाहितः ।यजेद्यज्ञं यथाशक्त्या दद्याद्बित्तानुसारतः
नित्यं नैमित्तिकं धर्म्मं कर्म्म कुर्य्यात् प्रयत्नतः ।गुरुशुश्रूषणञ्चैव यथान्यायमतन्द्रितः
सार्य प्रातरुपासीत विधिनाग्निं द्विजोत्तमः ।कृतस्नानः प्रकुर्व्वीत वैश्वदेवं दिने दिने
अतिथिञ्चागतं भक्त्या पूजयेच्छक्तितो गृही ।अन्यानप्यागतान् विप्रान् पूजयेदविरोधतः
स्वदारनिरतो नित्यं परदारविवर्ज्जितः ।सत्यवादी जितक्रोधः स्वधर्म्मनिरतो भवेत्
अकर्म्मणि संप्राप्ते प्रमादे नैव रोचयेत् ।प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम्
एष धर्म्मः समुद्दिष्टो ब्राह्मणस्य समासतः ।धर्म्ममेवन्तु यः कुर्य्यात् याति ब्रह्मणः पदम्
हारीत उवाच ।क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्व्वशः ।येन येन प्रवर्त्तन्ते विधिना क्षत्त्रियादयः
राजा क्षत्त्रियश्चैव प्रजा धर्म्मेण पालयेत् ।कुर्य्यादध्ययनं सम्यक् युगयुक्तो यथाविधि
दद्याद्दानं द्बिजाग्रेभ्यो धर्म्मबुद्धिसमन्वितः ।देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा
धर्म्मेण वै जयाकाङ्क्षी अधर्म्मस्य विवर्जयेत् ।उत्तमां गतिमाप्नोति क्षत्त्रियो ह्येवमाचरन्
*
गोरक्षं कृषिबाणिज्यं कुर्य्याद्बैश्यो यथाविधि ।दानं धर्म्मं यथाशक्त्या द्बिजशुश्रूषणं तथा
लोभदम्भविनिर्म्मुक्तः सत्यवागनसूयकः ।स्वदारनिरतो दान्तः परदारविवर्ज्जितः
धनैर्विप्रान् समभ्यर्च्च्य यज्ञकाले त्वयाचितः ।अप्रमत्तः स्वधर्म्मेषु वर्त्तेत देहपातनात्
यज्ञाध्ययनदानानि कुर्य्यान्नित्यमतन्द्रितः ।पितृकार्य्यञ्च तत्काले नारसिंहार्च्चनं तथा
एतद्वैश्यस्य कर्म्मोक्तं स्वधर्म्ममनुतिष्ठतः ।एतदासेव्यमानस्तु मुक्तः स्यान्नात्र संशयः
*
वर्णत्रयस्य शुश्रूषां कुर्य्यात् शूद्रः प्रयत्नतः ।दासवत् ब्राह्मणानान्तु विशेषेण समाचरेत्
अयाचितः प्रदाता स्यात् कृषिं वृत्त्यर्थमाश्रयेत् ।पाकयज्ञविधानेन यजेद्देवानतन्द्रितः
शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् ।धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टभोजनम्
स्वदारेषु रतिश्चैव परदारविवर्ज्जितः ।पुराणश्रवणं विप्रान्नारसिंहस्य पूजनम्
तथा विप्रनमस्कारस्तथा सत्रं दिने दिने ।सत्यं सम्भाषणं चैव रागद्वेषविवर्ज्जनम्
इत्थं कुर्व्वंस्तथा शूद्रो मनोवाक्कायकर्म्मभिः ।स्थानमन्द्रमवाप्नोति त्यक्तपापः प्रपुण्यकृत्
”इति नारसिंहे ५३ ५४ अध्यायौ
*
अन्यच्च ।मदालसोवाच ।“दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधोदितः ।धर्म्मो नान्यश्चतुर्थोऽस्ति धर्म्मस्तस्यापदं विना
याजनाध्ययने यज्ञस्तथा पुत्त्र प्रतिग्रहः ।एतत् सम्यक् समाख्यातं त्रितयं चास्यजीविका
दानमध्ययनं यज्ञः क्षत्त्रियस्याप्ययं त्रिधा ।धर्म्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवश्च जीविका
दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः ।बाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका
दानं यज्ञोऽथ शुश्रूषा द्बिजातीनां त्रिधा मया ।व्याख्यातः शूद्रधर्म्मोऽपि जीविका कारुकर्म्मजा
तद्वद्द्विजातिशुश्रूषा पोषणं क्रयविक्रयैः ।वर्णधर्म्मास्त्विमे प्रोक्ताः श्रूयतामाश्रमास्त्रयः
”इति मार्कण्डेयपूराणे मदालसानुशासनाध्यायः
अपरञ्च ।“ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिताः ।ते सम्यगुपजीवेयुः षट्कर्म्माणि यथाक्रमम्
अध्यापनमध्ययनं यजनं याजनं तथा ।दानं प्रतिग्रहश्चैव षट् कर्म्माण्यग्रजन्मनःषण्णान्तु कर्म्मणामस्य त्रीणि कर्म्माणि जीविका ।याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः
त्रयो धर्म्मा निवर्त्तन्ते ब्राह्मणात् क्षत्त्रियं प्रति ।अध्यापनं याजनञ्च तृतीयश्च प्रतिग्रहः
वैश्यं प्रति तथैवैते निवर्त्तेरन्निति स्थितिः ।न तौ प्रति हि तान् धर्म्मान् मनुराह प्रजा-पतिः
शस्त्रास्त्रभृत्त्वं क्षत्त्रस्य वणिक्पशुकृषिर्विशः ।आजीवनार्थं धर्म्मस्तु दानमध्ययनं यजिः
वेदाभ्यासो ब्राह्मणस्य क्षत्त्रियस्य रक्षणम् ।वार्त्ताकर्म्मैव वैश्यस्य विशिष्टानि स्वकर्म्मसु
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्म्मणा ।जीवेत् क्षत्त्रियधर्म्मेण ह्यस्य प्रत्यनन्तरः
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम्
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्त्रियोऽपि वा ।हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत्
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्
इदन्तु वृत्तिवैकल्यात् त्यजतो धर्म्मनैपुणम् ।विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्द्धनम्
सर्व्वान्रसानपोहेत कृतान्नञ्च तिलः सह ।अश्मनो लवणञ्चैव पशवो ये मानुषाः
सर्व्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि ।अपि चेत् स्युररक्तानि फलमूले तथौषधीः
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्व्वशः ।क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्
आरण्यांश्च पशून् सर्व्वान् दंष्ट्रिणश्च वयांसि ।मद्यं नीलीञ्च लाक्षाञ्च सर्व्वांश्चैकशफांस्तथा
काममुत्पाद्य कृष्यान्तु स्वयमेव कृषीवलः ।विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिर-स्थितान्
भोजनाभ्यञ्जनाद्दानाद्यदन्यत् कुरुते तिलैः ।कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति
सद्यः पतति मांसेन लाक्षया लवणेन ।त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात्
इतरेषान्तु पण्यानां विक्रयादिह कामतः ।ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति
रसा रसैर्निमातव्या त्वेव लवणं रसैः ।कृतान्नञ्चाकृतान्नेन तिला ध्यान्येन तत्समाः
जीवेदेतेन राजन्यः सर्व्वेणाप्यनयङ्गतः ।न त्वेव ज्यायसीं वृत्तिमभिमन्येत कर्हिचित्
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्म्मभिः ।तं राजा निर्द्धनं कृत्वा क्षिप्रमेव प्रवासयेत्
वरं स्वधर्म्मो विगुणो पारक्यः स्वनुष्ठितः ।परधर्म्मेण जीवन् हि सद्यः पतति जातितः
वैश्योऽजीवन् स्वधर्म्मेण शूद्रवृत्त्यापि वर्त्तयेत् ।अनाचरन्नकार्य्याणि निवर्त्तेत शक्तिमान्
अशक्नुवंश्च शुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम् ।पुत्त्रदारात्ययं प्राप्तो जीवेत कारुकर्म्मभिः
वैकर्म्मभिः प्रचरितैः श्रुश्रूष्यन्ते द्बिजातयः ।तानि कारुककर्म्माणि शिल्पानि विविधानिच
वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।अवृत्तिकर्षितः सीदन्निमं धर्म्भं समाचरेत्
सर्व्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयङ्गतः ।पवित्रं दुष्यतीत्येतत् धर्म्मतो नोपपद्यते
नाध्यापनाद्याजनाद्वा गर्हिताद्बा प्रतिग्रहात् ।दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते
जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः ।आकाशमिव पङ्केन पापेन लिप्यते
अजीगर्त्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः ।न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन्
श्वमांसमिच्छन्नार्त्तोऽत्तुं धर्म्माधर्म्मविचक्षणः ।प्राणानां परिरक्षार्थं वामदेवो लिप्तवान्
भरद्वाजः क्षुधार्त्तस्तु सपुत्त्रो विजने वने ।बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः
क्षुधार्त्तश्चात्तुमभ्यागाद्बिश्वामित्रः श्वजाघनीम् ।चण्डालहस्तादादाय धम्माधर्म्मविचक्षणः
प्रतिग्रहाद्याजनाद्बा तथैवाध्यापनादपि ।प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः
जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् ।प्रतिग्रहनिमित्तन्तु त्यागेन तपसैव
शिलोञ्छमप्याददीत विप्रो जीवन् यतस्ततः ।प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते
सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः ।याच्यः स्यात् स्नातकैर्व्विप्रैरदित्संस्त्यागमर्हति
अकृतञ्च कृतात् क्षेत्राद्गौरजीविकमेव ।हिरण्यं धान्यमन्नञ्च पूर्व्वं पूर्व्वमदोषवत्
सप्तवित्तागमा धर्म्म्या दायो लाभः क्रयो जयः ।प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव
विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिःकृषिः ।धृतिर्भैक्षं कुसीदञ्च दश जीवनहेतवः
ब्राह्मणः क्षत्त्रियो वापि वृद्धिं नैव प्रयोजयेत् ।कामन्तु खलु धर्म्मार्थं दद्यात् पापीयसेऽल्पि-काम्
चतुर्थमाददानोऽपि क्षत्त्रियो भागमापदि ।प्रजा रक्षन् परं शक्त्या किल्विषात् प्रतिमुच्यते
स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः ।शस्त्रेण वैश्यान्रक्षित्वा धर्म्म्यमाहारयेद्बलिम्
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणा-वरम् ।कर्म्मोपकरणाः शूद्राः कारबः शिल्पिनस्तथा
शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्त्रमाराधयेद्यदि ।धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविशेत्
स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः ।जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता
विप्रसेवैव शूद्रस्य विशिष्टं कर्म्म कीर्त्त्यते ।यदतोऽन्यद्बिकुरुते तद्भवत्यस्य निष्फलम्
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः ।शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भृत्यानाञ्च परिग्रहम्
उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि ।पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः
शूद्रे पातकं किञ्चित् संस्कारमर्हति ।नास्याधिकारो धर्म्मेऽस्ति धर्म्मात् प्रतिसेध-नम्
धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः ।मन्त्रवर्ज्जं दुष्यन्ति प्रशंसां प्राप्नुवन्ति
यथा तथाहि सद्वृत्तमातिष्ठत्यनसूयकः ।तथा तथेमञ्चामुञ्च लोकं प्राप्नोत्यनिन्दितः
शक्तेनापि हि शूद्रेण कार्य्यो धनसञ्चयः ।शूद्रो हि धनमासाद्य ब्राह्मणानेव वाधते
एते चतुर्णां वर्णानामापद्धर्म्माः प्रकीर्त्तिताः ।यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमां गतिम्
एष धर्म्मविधिः कृत्स्नश्चातुर्व्वर्णस्य कीर्त्तितः ।अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्
”इति मानवे धर्म्मशास्त्रे भृगुप्रोक्तायां संहि-तायां दशमोऽध्यायः
*
अन्यत् वर्णशब्देद्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
वर्णधर्म्म पुंन० ६त०। विप्रादीनामसाधारणे धर्मे यथाविप्रस्य याजनाध्यापनप्रतिग्रहादिः क्षत्रियस्य प्रजा-पालनादिः
पु०
जातिधर्मशब्दे दृश्यम्
Capeller
German
वर्णधर्म
m.
Sgl. u. Pl. diue Kastenbestimmungen.