वर्णः (varNaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishवर्णः [varṇḥ], [वर्ण्-अच् 3.1]
A colour, hue
अन्तः- शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः 51.
A paint, dye, paint-colour
see वर्ण् (1).
Colour, complexion, beauty
विविक्तवर्णाभरणा सुखश्रुतिः 14.3
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे 48
8.42.
Look, countenance
मध्यस्थवर्ण इव दृश्यते Madhyamavyāyoga 1
किं त्वं शङ्कितवर्ण इव Chārudatta 4
अवदातिका परशङ्कितवर्णेव दृश्यते Pratimā 1.
A class of men, tribe, caste (especially applied to the four principal castes, ब्राह्मण, क्षत्रिय, वैश्य and शूद्र)
वर्णानामानुपूर्व्येण Vārt
न कश्चिद्वर्णानामपथमपकृष्टो$पि भजते 5. 1
5.19.
A class, race, tribe, kind, species
as in सवर्णम् अक्षरम्
ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् * 12. 188.1.
(a) A letter, character, sound
न मे वर्ण- विचारक्षमा दृष्टिः 5
14.3. (b) A word, syllable
S. D.* 9.
Fame, glory, celebrity, renown
राजा प्रजा- रञ्जनलब्धवर्णः 6.21.
A good quality, merit, virtue
त्रिवर्णा वर्णिता$स्माभिः किं भूयः श्रोतुमिच्छसि 11.3.16.
Praise
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः 16. 29.
Dress, decoration.
Outward appearance, form, figure.
A cloak, mantle.
A covering, lid.
The order or arrangement of a subject in a song (गीतक्रम)
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत Kaṭh.1.28
उपात्तवर्णे चरिते पिनाकिनः 5.56 'celebrated in song, made the subject of a song.'
The housings of an elephant.
A quality, property
जङ्गमानामसंख्येयाः स्थावराणां च जातयः । तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ * 12.188.9.
A religious observance.
An unknown quantity.
The number 'one'.
Application of perfumed unguents to the body.
Gold.
A musical mode. -र्णा Cajanus Indicus (Mar. तूर).
र्णम् Saffron.
A coloured unguent or perfume. -अङ्का a pen. -अधिपः a planet presiding over a caste or class. -अनुप्रासः alliteration.
अन्तरम् another caste. ˚गमनम् the passing into another caste.
change of sound. -अपसदः an outcast.-अपेत devoid of any cast, outcast, degraded
वर्णा- प्रेतमविज्ञातं ...... कर्मभिः स्वैर्विभावयेत् 1.57. -अवकृष्टः a Śūdra
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी * 12.24.34.-अर्हः a kind of bean. -अवर inferior in caste.-आगमः the addition of a letter
भवेद्वर्णागमाद्धंसः Sk.-आत्मन् a word. -आश्रमाः the (four) castes and stages of life
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे 5.19. ˚गुरुः of Śiva. ˚धर्मः the duties of caste and order. -उदकम् coloured water
वर्णोदकैः काञ्चनशृङ्गमुक्तै- स्तमायताक्ष्यः प्रणयादसिञ्चन् 16.7. -कविः of a son of Kubera. -कूपिका an ink-stand.
क्रमः the order of castes or colours.
alphabetical order or arrangement. -गत
coloured.
algebraical. -गुरुः a king, prince. -ग्रथणा a method (artificial) of writing verses.-चारकः a painter. -ज्येष्ठः a Brāhmaṇa. -तर्णकम्, -तर्णिका woollen cloth used as a mat. -तालः (in music) a kind of measure. -तूलिः, -तूलिका, -तूली a pencil, paint-brush. -द colouring. (-दम्) a kind of fragrant yellow wood. -दात्री turmeric. -दूतः a letter.-दूषक violating the distinctions of castes
यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः 1.61. -धर्मः the peculiar duties of a caste. -नाथः the planetary regent of a caste.-पत्रम् a pallet. -परिचयः skill in song or music. -पातः the omission of a letter. -पात्रम् a paint-box. -पुष्पम् the flower of the globe-amaranth. -पुष्पकः the globeamaranth. -प्रकर्षः excellence of colour. -प्रसादनम् aloe-wood. -बुद्धिः the notion connected with particular letters or sounds. -भेदिनी millet. -मातृ a pen, pencil.-मातृका of Sarasvatī. -माला, -राशिः the alphabet.-रे(ले)खा, -लेखिका chalk. -वर्तिः, -वर्तिका
a paint-brush
फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य 2.2.
a pencil. -वादिन् a panegyrist. -विक्रिया enmity against the castes. -विपर्ययः the substitution or change of letters
(भवेत्) सिंहो वर्णविपर्ययात् Sk. -विलासिनी turmeric.
विलोडकः a house-breaker.
a plagiarist (lit. word-stealer). -वृत्तम् a metre regulated by the number of syllables it contains (opp. मात्रावृत्त). -व्यव- -स्थितिः the institution of caste, caste-system. -शिक्षा instruction in letters. -श्रेष्ठः a Brāhmaṇa
वर्णश्रेष्ठो द्विजः पूज्यः 4.21. -संयोगः marriage between persons of the same caste. -संसर्गः confusion of castes, marriage with members of other castes
8.172. -संहारः an assemblage of different castes.
संकरः confusion of castes through intermarriage
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण- संकरः 1.41.
mixture or blending of colours
चित्रेषु वर्णसंकरः K. (where both senses are intended)
14.37. -संघातः, -समाम्नायः the alphabet. -स्थानम् an organ of utterance. -हीन outcast.
Apte 1890
Englishवर्णः [वर्ण्-अच्] 1 A colour, hue
अंतःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः Me. 49.
2 A paint, dye, paintcolour
see वर्ण् (1).
3 Colour, complexion, beauty
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे Me. 46
R. 8. 42.
4 A class of men, tribe, caste (especially applied to the four principal castes, ब्राह्मण, क्षत्रिय, वैश्य, and शूद्र)
वर्णानामानुपूर्व्येण Vārt
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते Ś. 5. 10
R. 5. 19.
5 A class, race, tribe, kind, species
as in सवर्णं अक्षरं.
6 (a) A letter, character, sound
न मे वर्णविचारक्षमा दृष्टिः V. 5. (b) A word, syllable
S. D. 9.
7 Fame, glory, celebrity, renown
राजा प्रजारंजनलब्धवर्णः R. 6. 21.
8 A good quality, merit, virtue.
9 Praise.
10 Dress, decoration.
11 Outward appearance. form, figure.
12 A cloak, mantle.
13 A covering, lid.
14 The order or arrangement of a subject in a song (गीतक्रम)
उपात्तवर्णे चरिते पिनाकिनः Ku. 5. 56 ‘celebrated in song, made the subject of a song.’
15 The housings of an elephant.
16 A quality, property.
17 A religious observance.
18 An unknown quantity.
19 The number ‘one.’
20 Application of perfumed unguents to the body.
21 Gold.
22 A musical mode.
र्णं 1 Saffron.
2 A coloured unguent or perfume.
Comp.
अंका a pen.
अधिपः a planet presiding over a caste or class.
अपसदः an outcast.
अपेत a. devoid of any caste, outcast, degraded.
अर्हः a kind of bean.
आगमः the addition of a letter
भवेद्वर्णागमाद्धंसः Sk.
आत्मन् m. a word.
आश्रमाः the (four) castes and stages of life
R. 5. 19.
उदकं coloured water
R. 16. 70.
कूपिका an ink-stand.
क्रमः {1} the order of castes or colours. {2} alphabetical order or arrangement.
गत a. {1} coloured. {2} algebraical.
चारकः a painter.
ज्येष्ठः a Brāhmaṇa.
तूलिः,
तूलिका,
तूली f. a pencil, paint-brush.
द a. colouring. (
दं) a kind of fragrant yellow wood.
दात्री turmeric.
दूतः a letter.
दूषक a. violating the distinctions of castes.
धर्मः the peculiar duties of a caste.
पातः the omission of a letter.
पात्रं a paint-box.
पुष्पं the flower of the globe-amaranth.
पुष्पकः the globe-amaranth.
प्रकर्षः excellence of colour.
प्रसादनं aloe-wood.
मातृ f. a pen, pencil.
मातृका N. of Sarasvatī.
माला,
राशिः the alphabet.
रे (ले) खा chalk.
वर्तिः,
वर्तिका f. a paint-brush, pencil.
वादिन् m. a panegyrist.
विपर्ययः the substitution or change of letters
(भवेत्) सिंहो वर्णविपर्ययात् Sk.
विलासिनी turmeric.
विलोडकः {1} a house-breaker. {2} a plagiarist (lit. word-stealer).
वृत्तं a metre regulated by the number of syllables it contains (opp. मात्रावृत्त).
व्यवस्थितिः f. the institution of caste.
शिक्षा instruction in letters.
श्रेष्ठः a Brāhmaṇa.
संयोगः marriage between persons of the same caste.
संसर्गः confusion of castes.
संकरः {1} confusion of castes through intermarriage. {2} mixture or blending of colours
चित्रेषु वर्णसंकरः K. (where both senses are intended)
Śi. 14. 37.
संघातः,
समाम्नायः the alphabet.
स्थानं an organ of utterance.
हीन a. outcast.
Apte Hindi
Hindiवर्णः
- वर्ण् + घञ्
"रंग, रोगन"
वर्णः
- -
"रोगन, रंग"
वर्णः
- -
"रंग रूप, सौन्दर्य"
वर्णः
- -
"मनुष्य श्रेणी, जनजाति या कबीला, जाति"
वर्णः
- -
"श्रेणी, वंश, जनजाति, प्रकार, जाति "
वर्णः
- -
"अक्षर, वर्ण, ध्वनि में"
वर्णः
- -
"शब्द, मात्रा"
वर्णः
- -
"ख्याति, कीर्ति, प्रसिद्धि, विश्रुति"
वर्णः
- -
प्रशंसा
वर्णः
- -
"वेशभूषा, सजावट"
वर्णः
- -
"बाहरी छवि, रूप, आकृति"
वर्णः
- -
"चादर, दुपट्टा"
वर्णः
- -
"ढकने के लिए ढक्कन, चपनी"
वर्णः
- -
"किसी विषय का क्रमगीत में, गीतक्रम"
वर्णः
- -
हाथी की झूल
वर्णः
- -
"गुण, धर्म"
वर्णः
- -
धर्मानुष्ठान
वर्णः
- -
अज्ञात राशि
वर्णः
- वर्ण+अच्
रंग
वर्णः
- वर्ण+अच्
"सूरत, शक्ल"
वर्णः
- वर्ण+अच्
मनुष्यों की जाति
वर्णः
- वर्ण+अच्
"अक्षर, ध्वनि"
वर्णः
- वर्ण+अच्
"शब्द, मात्रा"
वर्णः
- वर्ण+अच्
यश
वर्णः
- वर्ण+अच्
प्रशंसा
वर्णः
- वर्ण+अच्
चोंगा
वर्णः
- वर्ण+अच्
गीतक्रम
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit वर्णः, अक्षरम्
ते अंशाः भागाः वा यैः शब्दः उत्पद्यते।
"गति इत्यस्मिन् शब्दे ग तथा च ति इत्येतौ द्वौ वर्णौ स्तः।"
वर्णः, रङ्गः
कस्यापि वस्तुनः तद्गुणं यस्य ज्ञानं केवलं नेत्राभ्यां भवति।
"सः गौर वर्णस्य अस्ति।"
अक्षरम्, वर्णः, वर्णम्
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
"अक्षरैः पठनम् आरभ्यते।"
वर्णः
हिन्दूनां चत्वारः विभागाः ब्राह्मणः क्षत्रियः वैश्यः शूद्रः च।
"वर्णेषु ब्राह्मणः श्रेष्ठः।"
वैजयन्तीकोषः
SanskritWord: वर्णः
Root: वर्ण
Gender: पुं
Number: all
अर्थः ⇒ अक्षरम्
Meaning(s):
⇒ Letter
Shloka(s):
2|4|21|2 ► अस्त्रियौ वर्णमर्णं च वाक्यं तु वचनं वचः॥ (अन्तरिक्षकाण्डः/शब्दाध्यायः)
Synonym(s):
➠ 2|4|21|2 ⇢ वर्णः (वर्ण) (पुं) ⇒ Letter ⇒ अक्षरम्
➠ 2|4|21|2 ⇢ वर्णम् (वर्ण) (नपुं) ⇒ Letter ⇒ अक्षरम्
➠ 2|4|21|2 ⇢ अर्णः (अर्ण) (पुं) ⇒ Letter ⇒ अक्षरम्
➠ 2|4|21|2 ⇢ अर्णम् (अर्ण) (नपुं) ⇒ Letter ⇒ अक्षरम्
Related word(s):
Tamil
Tamilவர்ண: : நிறம், வர்ணம், இனம், ஜாதி, அழகு, வகை, எழுத்து, புகழ், உருவம், குணம்.
शब्दकल्पद्रुमः
Sanskritवर्णः, (व्रियते इति । वृ + “कॄवृजॄषिद्रुगुपन्य-निस्वपिभ्यो नित् ।” उणा० ३ । १० । इतिनः । स च नित् ।) जातिः । सा च ब्राह्मणःक्षत्त्रियो वैश्यः शूद्रश्च । एषामुत्पत्त्यादिर्यथा ।यदा भगवान् पुरुषरूपेण सृष्टिं कृतवान् तदास्यशरीरात् चत्वारो वर्णा उत्पन्नाः । मुखतोब्राह्मणाः बाहुतः क्षत्त्रियाः ऊरुतो वैश्याःपादतः शूद्रा जाताः । एतेषां वर्णानां धर्म्माःशास्त्रेषु निरूपिताः सन्ति । तत्र ब्राह्मणधर्म्माउच्यन्ते । अध्ययनं यजनं दानञ्चेति । जीविका-स्त्रयः अध्यापनं याजनं प्रतिग्रहश्चेति । १ ।क्षत्त्रियस्य त्रयो धर्म्माः । अध्ययनं यजनंदानञ्च । प्रजानां रक्षणं जीविका । २ । वैश्यस्यत्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । चतस्रोजीविकाः । कृषिः गोरक्षणं बाणिज्यं कुशीद-ञ्चेति । ३ । शूद्रस्य तु ब्रह्मक्षत्त्रविशां शुश्रूषाधर्म्मो जीविका च । ४ । ब्राह्मणा आश्रम-चतुष्टयवन्तो भवन्ति । ब्रह्मचारी गृहस्थःवानप्रस्थः सन्न्यासी च । तत्र उपनयनानन्तरंनियमं कृत्वा यो गुरोः सन्निधौ स्थित्वा साङ्ग-वेदाध्ययनं करोति स ब्रह्मचारीत्युच्यते । १ ।साङ्गवेदाध्ययनं समाप्य यो दारपरिग्रहं कृत्वास्वधर्म्माचरणं करोति स गृहस्थ उच्यते । २ ।पुत्त्रमुत्पाद्य यो वनवासं कृत्वा अकृष्टपच्यफलादिभक्षयित्वा ईश्वराराधनं करोति स वानप्रस्थउच्यते । ३ । यः सर्व्वं गृहादिकं त्यक्त्वा मुण्डित-मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्चविभ्रत् भिक्षावृत्तिर्निर्जने तीर्थे वा स्थित्वा केवल-मीश्वराराधनं करोति स सन्न्यासीत्युच्यते ॥
४ ॥
क्षत्त्रियवैश्ययोस्तु प्रथमाश्रमत्रयं विहितम् ।शूद्रस्यैक एव गृहाश्रमः । ईश्वराराधनन्तुसर्व्वेषां वर्णानामाश्रमाणाञ्च साधारणो धर्म्मः ।तन्मध्ये यस्तु विष्णूपासकः स वैष्णव उच्यते ।शिवोपासकः शैवः । दुर्गादिशक्त्युपासकः शाक्तः ।सूर्य्योपासकः सौरः । गणेशोपासको गाणपत्यउच्यते । इति पुराणार्थप्रकाशः ॥
* ॥
अपि च ।ब्रह्मोवाच ।“सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ।विप्राद्यैः स्वेन धर्म्मेण तद्धर्म्मं व्यास वै शृणु ॥
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ।अध्यापनं चाध्ययनं षट् कर्म्माणि द्विजोत्तमे ॥
दानमध्ययनं यज्ञो धर्म्मः क्षत्त्रियवैश्ययोः ।दण्डस्तथा क्षत्त्रियस्य कृषिर्व्वैश्यस्य शस्यते ॥
शुश्रूषैव द्विजातीनां शूद्राणां धर्म्मसाधनम् ।कारुकर्म्मस्तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥
भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः ॥
सर्व्वेषामाश्रमाणान्तु द्बैविध्यन्तु चतुर्व्विधम् ।ब्रह्मचार्य्युपकुर्व्वाणो नैष्टिको ब्रह्मतत्परः ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।उपकुर्व्वाणको ज्ञेयो नैष्टिको मरणान्तिकः ॥
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्च्चनम् ।गृहस्थस्य समासेन धर्म्मोऽयं द्बिजसत्तमाः ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥
ऋणानि त्रीण्युपाकृत्य त्यक्त्वा भार्य्याधना-दिकम् ।एकाकी यस्तु विचरेत् उदासीनः स मौक्षिकः ॥
भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ।संविभागो यथान्यायं धर्म्मोऽयं वनवासिनः ॥
तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च ।स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥
तपसाकर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।सम्यक् च दमसम्पन्नः स योगी भिक्षुरुच्यते ॥
भैक्षं श्रुतञ्च मौनित्वं तपोध्याने विशेषतः ।सम्यक् च ज्ञानषैराग्यं धर्म्मोऽयं भिक्षुके मतः ॥
ज्ञानसन्न्यासिनः केचित् वेदसन्न्यासिनोऽपरे ।धर्म्मसन्न्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥
योगी च त्रिविध्ये ज्ञेयो भौतिको मोक्ष एव च ।तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिसमाश्रितः ॥
प्रयमा भावना पूर्व्वे मोक्षे त्वक्षरभावना ।तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥
धर्म्मात् संजायते मोक्षः अर्थात् कामोऽभि-जायते ।प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म्म वैदिकम् ॥
ज्ञानपूर्व्वं निवृत्तं स्यात् प्रवृत्तञ्चाग्निदेवकृत् ।क्षमा दमो दया दानमलोभोऽभ्यास एव च ॥
आर्जवञ्चानसूया च तीर्थानुसरणं तथा ।सत्यं सन्तोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥
देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ।अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥
एत आश्रमिका धर्म्माश्चातुर्व्वर्ण्यं ब्रवीम्यतः ।प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ।वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ।गान्धर्व्व शूद्रजातीनां परिचारे च वर्त्तताम् ॥
”इति गारुडे ४९ अध्यायः ॥
* ॥
अन्यच्च ।“ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म्म वसुन्धरे ! ।यानि कर्म्माणि कुर्व्वीत मम भक्तिपरायणः ॥
षट्कर्म्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः ।लाभालाभं परित्यज्य भिक्षाहारो जितेन्द्रियः ॥
मम कर्म्मसमायुक्तः पैशुन्येन विवज्जितः ।शास्त्रानुसारी मध्यम्थो न वृद्धः शिशुचेतनः ॥
एतदवै ब्राह्मणः कर्म्म एकचित्तो जितेन्द्रियः ।इष्टापूर्त्तञ्च कुरुते स मामेति वसुन्धरे ! ॥
क्षत्त्रियाणां प्रवक्ष्यामि मम कर्म्मसु निष्ठताम् ।यानि कर्म्माणि कुर्व्वन्ति क्षत्त्रिया मध्यसंस्थिताः ॥
दानशूरश्च कर्म्मज्ञो यज्ञेषु कुशलः शुचिः ।मम कर्म्मसु मेधावी अहङ्कारविवर्ज्जितः ॥
अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः ।गुरुविद्यानसूयात्मा गुह्यकर्म्मेष्वतन्द्रितः ॥
अभ्युत्थानादिकुशलः पैशुन्येन विवर्ज्जितः ।एतैर्गुणैः समायुक्तो यो मां व्रजति क्षत्त्रियः ॥
भजते मम यो नित्यं मम लोकाय गच्छति ।वैश्यानान्तु प्रवक्ष्यामि मम कर्म्मसु निष्ठताम् ॥
यानि कर्म्माणि कुरुते मम भक्तिपथे स्थितः ।एतैर्गुणैः स्वधर्म्मेण लाभालाभविवर्ज्जितः ॥
ऋतुकालाभिगामी च शान्तात्मा मोह-वर्जितः ।शुचिर्दक्षो निराहारो मम कर्म्मरतः सदा ॥
गुरुसंपूजको नित्यं युक्तो भक्त्यानुवत्सलः ।वैश्यस्त्वेवन्तु संयुक्तो यो नु कर्म्माणि कारयेत् ।तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
अथ शूद्रस्य वक्ष्यामि कर्म्माणि शृणु माधवि ! ।यानि कर्म्माणि कृत्वा तु शूद्रो मह्यं व्यवस्थितः ॥
दम्पती मम भक्तौ यौ मम कर्म्मपरायणौ ।उभौ भागवतौ भक्तौ मत्परौ कर्म्मनिष्ठितौ ॥
देशकालौ च जानाति रजसा तमसोज्झितःनिरहङ्कारयुक्तात्मा आतिथेयो विनीतवान् ॥
श्रद्दधानोऽतिपूतात्मा लोभमोहविवर्ज्जितः ।नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ॥
शूद्रकर्म्माणि मे देवि ! य एवं स समाचरेत् ।त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् ॥
”इति वाराहे विधिकर्म्मोत्पत्तिनामाध्यायः ॥
अपरञ्च ।सुकेशिरुवाच ।“विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाःआचक्षध्वं न से तृप्तिः शृण्वतः प्रतिविद्यते ॥
ऋषय ऊचुः ।कृतोपनयनः सम्यक् ब्रह्मचारी गुरौ वसन् ।तत्र धर्म्मोऽस्य यस्तञ्च कथ्यमानं निशामय ॥
स्वाध्यायोऽर्थोऽग्निशुश्रूषा स्नानं भिक्षाटनन्तथा ।गुरौ निवेद्य तच्चाद्यमनुज्ञातेन नित्यशः ॥
धर्म्मार्थकाममोक्षाणां सम्यक् प्रत्युपपादनम् ।तेनाहूतः पठेच्चैव तत्परीभूय नित्यशः ॥
अवाप्य सकलान् वेदान् शास्त्रं प्राप्य गुरो-र्मुखात् ।ततो वरान्मुदा दद्याद्गुरवे दक्षिणान्ततः ॥
गार्हस्थाश्रमकामस्तु गार्हस्थ्याश्रममाश्रयेत् ।वानप्रस्थाश्रमञ्चापि चतुर्थं स्वेच्छया वसेत् ॥
तथैव च गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।गुरोरभावे तत्पुत्त्रं तद्बदेव निषेवयेत् ॥
एवं जयति मृत्युं स द्विजः शालङ्कटङ्कट ! ।उपावृतस्ततस्तस्मात् गृहस्थाश्रमकाम्यया ।असमानकुलां कन्यामुद्वहेत निशाचर ! ॥
स्वकर्म्मणा धनं लब्ध्वा पितृदेवातिथीनपि ।सम्यक् संप्रीणयेद्भक्त्या सदाचाररतो द्विजः ॥
गार्हस्थ्यं ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः ।क्षत्त्रियस्यापि गदिता य आचारा द्बिजस्य हि ॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्बितयं विशः ।गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ! ॥
स्वानि वर्णाश्रमोक्तानि कर्म्माणीह न हापयेत्यो हापयति तस्यासौ परिकुप्यति भास्करिः ॥
”इति वामनपुराणे १४ अध्यायः ॥
* ॥
पुनश्च ।श्रीउर्व्व उवाच ।“ब्राह्मणक्षत्त्रियविशां शूद्राणाञ्च यथाक्रमम् ।त्वमेकाग्रमना भूत्वा शृणु धर्म्मान् मयोदितान् ॥
दानं दद्याद्यजेद्देवान् यज्ञैः स्वाध्यायतत्परः ।नित्योदकी भवेद्विप्रः कुर्य्याच्चाग्निपरिग्रहम् ॥
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।कुर्य्यात् प्रतिग्रहादानं शुक्तार्थान्न्यायतो द्बिजः ॥
”शुक्लार्थात् शुक्लः शुद्धो न्यायोपार्ज्जितोऽर्थो यस्यतस्मात् । इति तट्टीका ।“सर्व्वलोकहितं कुर्य्यान्नाहितं कस्यचिद्द्विजः ।मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥
ग्राव्णि रत्ने च पारक्ये समबुद्धिर्भवेत् द्बिजः ।ऋतावभिगमः पत्न्यां शस्यते चास्य पार्थिव ! ॥
१दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्त्रियोऽपिहि ।यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिव ॥
शस्त्राजीवो महीरक्षाप्रवरा तस्य जीविका ।तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥
धरित्रीपालनेनैव कृतकृत्यो नराधिपः ।भवन्ति नृपतेरंशा यतो यज्ञादिकर्म्मणाम् ॥
दुष्टानां शासबाद्राजा शिष्टानां परिपालनात् ।प्राप्नोत्यभिमताल्लोकान् वर्णसंस्कारको नृपः ॥
२ ॥
पाशुपाल्यं बाणिज्यञ्च कृषिञ्च मनुजेश्वर ।वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥
तस्याप्यध्ययनं यज्ञो दानधर्म्मश्च शस्यते ।नित्यनैमित्तिकादीनामनुष्ठानञ्च कर्म्मणाम् ॥
३ ॥
द्बिजातिसंश्रयं कर्म्म तादर्थ्यं तेन पोषणम् ।क्रयविक्रयजैर्व्वापि धनैः कारूद्भवेन वा ॥
दानञ्च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेदपि ।पित्रादिकञ्च सर्व्वं वै शूद्रः कुर्व्वीत तेन च ॥
४ ॥
भृत्यादिभरणार्थाय सर्व्वेषाञ्च परिग्रहः ।ऋतुकालाभिगमनं स्वदारेषु महीपते ॥
दया समस्तभूतेषु तितिक्षा नाभिमानिता ।सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥
मैत्र्यस्पृहा तथा तद्वदकार्पण्यं नरेश्वर ।अनसूया च सामान्या वर्णानां कथिता गुणाः ॥
आश्रमाणाञ्च सर्व्वेषामेते सामान्यलक्षणाः ।गुणास्तथापद्धर्मांश्च विप्रादीनामिमान् शृणु ॥
क्षात्त्रं कर्म्म द्विजस्योक्तं वै श्यकर्म्म तथापदि ।राजन्यस्य च वैश्योक्तं शौद्रं कर्म्म न चैतयोः ॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।तदेवापदि कर्त्तव्यं न कुर्य्यात् कर्म्म सङ्करम् ॥
इत्येते कथिता राजन् वर्णधर्म्मा मया तव ।धर्म्ममाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥
* ॥
श्रीउर्व्व उवाच ।बालः कृतोपनयनो वेदाहरणतत्परः ।गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥
शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः ।व्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना ॥
उभे सन्ध्ये रविं भूप तथैवाग्निं समाहितः ।उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम् ॥
स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति ।शिष्यो गुरौ नृपश्रेष्ठ प्रतिकूलं न संभजेत् ॥
तेनैवोक्तः पठेद्बेदं नान्यचित्तः पुरस्थितः ।अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥
अवगाहेदपः पूर्व्वमाचार्य्येणावगाहिताः ।समिज्जलादिकं चास्य कल्यं कल्यमुपानयेत् ॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥
१ ॥
विधिना चाप्तदारस्तु धनं प्राप्य स्वकर्म्मणा ।गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल ! शक्तितः ॥
निर्व्वापेण पितॄनर्च्चेद्यज्ञैर्देवांस्तथातिथीन् ।अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥
बलिकर्म्मणा च भूतानि वात्सल्येनाखिलं जगत् ।प्राप्नोति लोकान् पुरुषो निजकर्म्मसमर्ज्जितान् ॥
भिक्षाभुजश्च ये केचित् परिव्राट् ब्रह्मचारिणः ।तेऽप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥
वेदाहरणकार्य्येण तीर्थस्नानाय च प्रभो ! ।अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥
अनिकेता ह्यनाहारा यत्र सायं गृहास्तु ये ।तेषां गृहस्थः सर्व्वेषां प्रतिष्ठा योनिरेव च ॥
तेषां स्वागतदानादि वक्तव्यं मधुरं वचः ।गृहागतानां दद्याच्च शयनासनभोजनम् ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥
अवज्ञानमहङ्कारो दम्भश्चैव गृहे सतः ।परितापोपघातौ च पारुष्यञ्च न शस्यते ॥
यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् ।सर्व्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥
वयःपरिणतौ राजन् कृतकृत्यो गृहाश्रमी ।पुत्त्रेष भार्य्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥
२ ॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।भूमीशायी मवेत्तत्र मुनिः सर्व्वातिथिर्नृप ॥
चर्म्मकाशकुशैः कुर्य्यात् परिधानोत्तरीयके ।तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर ॥
देवताभ्यर्च्चनं होमः सर्व्वाभ्यागतपूजनम् ।भिक्षा बलिप्रदानञ्च शस्तमस्य नरेश्वर ॥
वन्यस्नेहेन गात्राणामभ्यङ्गश्चास्य शस्यते ।तपस्यतश्च राजेन्द्र शीतोष्णादिसहिष्णुता ॥
यस्त्वेतां नियतश्चर्य्यां वानप्रस्थश्चरेन्मुनिः ।स दहत्यग्निवद्दोषान् जयेल्लोकांश्च शाश्वतान् ॥
३ ॥
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥
पुत्त्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप ।चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ।त्रैवर्णिकांस्त्यजेत् सर्व्वानारम्भानवनीपते ।मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥
जरायुजाण्डजादीनां वाङ्मनःकर्म्मभिः क्वचित् ।युक्तः कुर्व्वीत न द्रोहं सर्व्वसङ्गांश्च वर्ज्जयेत् ॥
एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे ।तथा तिष्ठेद्यथा प्रीतिर्द्बेषो वा नास्य जायते ॥
प्राणयात्रानिमित्तञ्च व्यङ्गारे भुक्तवज्जने ।काले प्रशस्तवर्णानां भिक्षार्थे पर्य्यटेद्गृहान् ॥
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।तांस्तु दोषान् परित्यज्य परिव्राट् निर्म्ममोभवेत् ॥
अभयं सर्व्वसत्त्वेभ्यो दत्त्वा यश्चरते मुनिः ।न तस्य सर्व्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थंशारीरमग्निञ्च मुखे जुहोति ।विप्रस्तु भेक्षोपगतेर्हविर्भि-श्चिताग्निनां स व्रजतिस्म लोकान् ॥
चिताग्नीनां अग्निचितामित्यर्थः । चिताग्निनाइति वा पाठः । इति तट्टीका ॥
“मोक्षाश्रमं यश्चरते यथोक्तंशुचिः सुसङ्कल्पितबुद्धियुक्तः ।अनिन्धनं ज्योतिरिव प्रशान्तंस ब्रह्मलोकं श्रयति द्विजातिः ॥
” ४ ॥
इति विष्णुपुराणे ३ अंशे ८ । ९ अध्यायौ ॥
* ॥
प्रकारान्तरेण तेषामादिसृष्टिर्यथा, --“ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।तस्मात् पद्मात् समभवद्ब्रह्मा वेदमयो विधिः ॥
प्रजाविसर्गं विविधं मानसो मनसासृजत् ।असृजद्ब्राह्मणानेव पूर्व्वं ब्रह्मा प्रजापतिः ॥
आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान् ।ततः सत्यञ्च धर्म्मञ्च तपो ब्रह्म च शाश्वतम् ॥
आचा ञ्चैव शौचञ्च स्वर्गाय विदधे विभुः ।देवदानवगन्धर्व्वा दैत्यासुरमहोरगाः ॥
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ।ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्च नृपसत्तम ! ॥
ये चान्यभूतसंघानां वर्णास्तांश्च विनिर्म्ममे ।ब्राह्मणानां सितो वर्णः क्षत्त्रियाणाञ्च लोहितः ॥
वैश्यस्य पीतको वर्णः शूद्राणामसितस्तथा ॥
मान्धातोवाच ।चातुर्व्वर्णस्य वर्णेन यदि वर्णो विभज्यते ।सर्व्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ॥
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधाश्रमः ।सर्व्वेषां न प्रभवति कस्माद्वर्णो विभज्यते ॥
स्वेदमूत्रपुरीषाणि श्लेष्मापित्तं सशोणितम् ।तनुः क्षरति सर्व्वेषां कस्मावर्णो विभज्यते ॥
जङ्गमानामसं ख्येयाः स्थावराणाञ्च जातयः ।तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥
नारद उवाच ।न विशेषोऽस्ति वर्णानां सर्व्वं ब्रह्ममयं जगत् ।ब्रह्मणा पूर्व्वसृष्टं हृइ कर्म्मभिर्व्वर्णतां गतम् ॥
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रिय-साहसाः ।त्यक्तस्वधर्म्मा रक्ताङ्गास्ते द्विजाः क्षत्त्रतांगताः ॥
गोभ्यो वृत्तिं समास्थाय पीताः कृष्यनुजीविनः ।स्वधर्म्मान्नानुतिष्ठन्ति ते द्बिजा वैश्यतां गताः ॥
हिंसानृतप्रिया लुब्धाः सर्व्वकर्म्मोपजीविनः ।कृष्णाः शौचपरिभ्रष्टास्ते द्बिजाः शूद्रतांगताः ॥
इत्येतैः कर्म्मभिर्व्यस्ता द्बिजा वर्णान्तरं गताः ।इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती ॥
विहिता ब्रह्मणा पूर्व्वं लोभादज्ञानतां गताः ।ब्राह्मणा धर्म्मतन्त्रस्थास्ततस्तेषां न नश्यति ॥
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ।ब्रह्म चैव परं सृष्टं येन जानन्ति तद्विदः ॥
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ।आदिदेवसमुद्भू ता ब्रह्ममूलाक्षताव्ययाः ।सा सृष्टिर्म्मानसी नाम धर्म्मतन्त्रपरायणाः ॥
मान्धातोवाच ।ब्राह्मणः केन भवति क्षत्त्रियो वा द्विजोत्तम ! ।वैश्यः शूद्रश्च देवर्षे तद्ब्रूहि वदतांवर ॥
नारद उवाच ।जातकर्म्मादिभिर्यस्तु तंस्कारैः संस्कृतःशुचिः ।वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः ॥
शौचाचारपरो नित्यं विघसाशी गुरुप्रियः ।नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते ॥
सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ।तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥
क्षत्त्रजं सेवते कर्म्म वेदाध्ययनसंयुतः ।दानादानवहिर्यस्तु स वै क्षत्त्रिय उच्यते ॥
विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः ।वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥
सर्व्वभक्ष्मरतिर्नित्यं सर्व्वकर्म्मकरोऽशुचिः ।त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥
शूद्रे चैव भवेल्लक्षं द्विजे चैव न विद्यते ।न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणःमान्धातोवाच ।के धर्म्माः सर्व्ववर्णानां चातुर्व्वर्णस्य के पृथक् ।चातुर्व्वर्ण्याश्रमाणाञ्च राजधर्म्माश्च के मताः ॥
नारद उवाच ।अक्रोधः सत्यवचनं संविभागः क्षमा तथा ।प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥
आर्ज्जवं भृत्यभरणं न वै ते सार्व्ववर्णिकाः ।ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम् ॥
दममेव महाराज धर्म्ममाहुः पुरातनम् ।स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते ॥
तं चेद्वित्तमुपागच्छेद्वत्तमानं स्वकर्म्मणि ।अकुर्व्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम् ॥
कुर्व्वीतोपेत्य सन्तानमथ दद्याद्यजेत च ।संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते ॥
परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः ।कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ॥
* ॥
क्षत्त्रियस्यापि यो धर्म्मस्तं ते वक्ष्यामि पार्थिव ।दद्याद्राजा न याचेत यजेत न च याजयेत् ॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम् ॥
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च पार्थिवाः ।ये तु युद्धे विजेतारस्ते तु लोकजितो नृपाः ॥
अविक्षतशरीरो हि संगराद्यो निवर्त्तते ।क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् ॥
क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः ।नास्य कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् ॥
दानमध्ययनं यज्ञो राज्ञां क्षेमोऽभिधीयते ।तस्माद्राज्ञा महाराज योद्धव्यं धर्म्मशीलिना ॥
प्रजाः स्वेषु च धर्म्मेषु स्थापयेत महीपतिः ।धर्म्म्याण्येव हि कर्म्माणि कारयेत् सततंप्रजाः ॥
परमां सिद्धिमाप्नोति नृपतिः परिपालनात् ।कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते ॥
* ॥
वैश्यस्य च प्रवक्ष्यामि यो धर्म्मो वेदसम्मतः ॥
दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः ।पालयेच्च पशून् वैश्यः पितृवद्धर्म्ममर्ज्जयन् ॥
विकर्म्म तद्भवेदन्यत् कर्म्म यत् स समाचरेत् ।रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् ॥
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः ।ब्राह्मणेभ्यश्च राज्ञे च सर्व्वाः परिददे प्रजाः ॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।षण्णामेकां पिबेद्धेनुं शताच्च मिथुन भवेत् ॥
लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे ।शस्यानां सर्व्वबीजानि एषा सांवत्सरी भृतिः ॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।वैश्ये रक्षति नान्येन रक्षितव्याः कथञ्चन ॥
* ॥
शूद्रस्यापि हि यो धर्म्मस्तं ते वक्ष्यामि भूपते ।प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥
तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधीयते ।तषां शुश्रूषणञ्चैव महत् सुखमवाप्नुयात् ॥
शूद्र एतान् परिचरेत् त्रीन् वर्णाननुपूर्व्वशः ।मञ्चयांश्च न कुर्व्वीत यातु शूद्रः कथञ्चन ॥
पापीयान् हि धनं लब्ध्वा वशे कुर्य्याद्गरीयसः ।गाज्ञा वा ममनुज्ञातः कामं कुर्व्वीत धार्म्मिकः ॥
तस्य वत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ॥
छत्त्रं वेष्टनमौशीरमुपानद्व्यजनानि च ।यातयामानि देयानि शूद्राय परिचारिणे ॥
अधार्य्याणि विशीर्णानि वसनानि द्विजातिभिः ।शूद्रायैव प्रदेयानि तस्य धर्म्मधनं हि तत् ॥
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।कल्पन्तेऽस्य तु तेनाहुर्वृत्तिं धर्म्मविदो जनाः ॥
देयः पिण्डोऽनपत्याय भर्त्तव्यो वृद्धदुर्ब्बलौ ।शूद्रेण च न हातव्यो भर्त्ता कस्याञ्चिदापदि ॥
अतिरेकेन भर्त्तव्यो भर्त्ता द्रव्यपरिक्षये ।न हि स्वमस्ति शूद्रस्य भर्त्तृहार्य्यधनो हि सः ॥
उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च पार्थिव ।स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते ॥
तस्माच्छूद्रः पाकयज्ञैर्याजयेत नच स्वयम् ।पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥
* ॥
श्रीनारद उवाच ।इदानीमाश्रमाणाञ्च धर्म्मं वक्ष्यामि भूमिप ।ब्रह्मचर्य्याश्रमं तावत् शृणु सर्व्वाधिवासन ॥
गत्वा गुरुगृहं शिष्यो नमस्कृत्य गुरुं शुचिः ।ब्रूयादध्येतुमायातः शिष्योऽहं तव मारिष ।ततस्तस्याज्ञया नित्यमध्येतव्यं नराधिप ॥
सदा विचारः शास्त्रस्य गुरुपादाभिवादनम् ।तदाज्ञापालनञ्चापि ध्यानं दैवतभावना ॥
लाभेन येन केनापि तुष्टिः सद्भिः समागमः ।समाप्तविद्यो गुरवे दक्षिणां प्रतिपाद्य च ॥
* ॥
गृहाश्रमं ततो गच्छेद्गुरोराज्ञामधिव्रजन् ।उद्बहेत् कुलजां कन्यां सुशीलां घर्म्मचारिणीम् ॥
अनहंवादिनीं सौम्यां सुचरित्रां प्रियंवदाम् ।गृहिणां प्रथमो धर्म्मोऽतिथिपूजैव पार्थिव ॥
अप्राप्य पूजामतिथिर्यस्य गेहान्निवर्त्तते ।स याति नरकं घोरं पुण्यं तस्मै प्रदाय च ॥
प्रथमं स्वागतं पृच्छेदासनञ्चापि संदिशेत् ।पाद्यञ्च मधुपर्कञ्च दद्यात् प्रणतिपूर्व्वकम् ॥
संवादञ्च प्रियालापं कुर्य्यात्तेन सहान्ततः ।भोजनञ्च यथाशक्ति कारयेदतिथिं नृप ॥
देवाश्च पितरश्चापि प्रीयन्तेऽतिथिपूजने ।आतिथ्यसदृशं कर्म्म गृहस्थानां न विद्यते ॥
यस्य नित्यं स्थितिर्नास्ति सोऽतिथिःपरिकीर्त्तितः ।सर्व्वाश्रमाणामधिको गृहाश्रम उदाहृतः ॥
यस्मात्तस्मिन् समायान्ति भिक्षार्थमाश्रमास्त्रयः ।पितृदेवार्च्चनं कार्य्यं गृहिणा सुखमिच्छता ॥
* ॥
वानप्रस्थाश्रमं वक्ष्ये तृतीयं जगतीपते ।वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात् ॥
तदारण्यकशास्त्राणि यमधीत्य स धर्म्मवित् ।ऊर्द्ध्वरेताः प्रव्रजित्वा गच्छत्यक्षरसात्सताम् ॥
सुते भार्य्यां परिन्यस्य वनं गच्छेत् सहैव वा ।शान्तः शुद्धान्तरात्मा च सर्व्वभूतहिते रतः ॥
चरितब्रह्मचर्य्यस्य ब्राह्मणस्य विशाम्पते ।कर्त्तव्याणीह राजेन्द्र कथ्यन्ते मुनिपुङ्गवैः ॥
भैक्ष्यचर्य्यास्वधीकारः प्रशस्त इह मोक्षिणः ।यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ॥
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ।निराशीः स्यात् न्नर्व्वसमो निर्योगो निर्व्विकार-वान् ॥
विवेकी धनपूत्त्रादौ वितृष्णः करुणः सदा ।संसारं स्वप्नवद्बीक्ष्य क्षान्तः सन्तुष्टमानसः ॥
पत्रमूलफलाहारी जलाशी वायुभोजनः ।निराहारोऽथवा शुद्धोऽहर्निशं तप आचरेत् ।एवं कुर्व्वन् महाभाग ब्राह्मणः सिद्धिमाप्नुयात् ॥
चतुर्थमाश्रमं वक्ष्ये मुक्तिसोपानमेव हि ।गुरोः पुरोधमासास्य भिक्षुः सन्न्यासधर्म्मवित् ॥
विचरेत् सकलां पृथ्वीं लब्धाशी शान्त उत्सुकः ।योगाभ्यासरतो नित्यं धर्म्मसञ्चयतत्परः ।धर्म्माधर्म्मविहीनो वा भिक्षुकः सिद्धिमा-प्नुयात् ॥
”इति पाद्मे स्वर्गखण्डे २५ । २६ । २७ अध्यायाः ॥
* ॥
अन्यत् नारसिंहपुराणे ५९ अध्याये मार्कण्डेय-पुराणे मदालसोपाख्याने कूर्म्मपूराणे २ । ३अध्याये च द्रष्टव्यम् ॥
* ॥
* ॥
गजचित्रकम्बलः ।हातीर झुल् इति भाषा । तत्पर्य्यायः ।प्रवेणी २ आस्तरणम् ३ परिस्तोमः ४ कुथः ५कुथा ६ । इत्यमरः ॥
प्रवेणिः ७ परिष्टोमः ८कुथम् ९ । इति भरतः ॥
शुक्लादिः । रङ्इति ख्यातः । स च बहुविधो यथा । श्वेतः १पाण्डुः २ धूसरः ३ कृष्णः ४ पीतः ५ हरितः ६रक्तः ७ शोणः ८ अरुणः ९ पाटलः १०श्यावः ११ धूम्रः १२ पिङ्गलः १३ कर्व्वुरः १४ ।इति चामरः ॥
गर्भस्थबालकस्य षष्ठे मासिवर्णो भवति । इति सुखबोधः ॥
यशः । गुणः ।स्तुतिः । इति मेदिनी । णे, २६ ॥
स्वर्णम् ।व्रतम् । रूपम् । अक्षरम् । भेदः । गीतक्रमः ।चित्रम् । तालविशेषः । अङ्गरागः । इतिहेमचन्द्रः ॥
वर्णः, (वर्ण्यते भिद्यते इति । वर्ण +घञ् ।) भेदः । (वर्ण्यते दीप्यतेऽनेनेति ।)वर्ण + घञ् ।) रूपम् । (वर्णयति । वर्ण +अच् ।) अक्षरम् । (वर्ण्यते रज्यते इति । वर्ण+ घञ् ।) विलेपनम् । इति मेदिनी । णे, २६ ॥
* ॥
वर्णश्च द्विविधः । ध्वन्यात्मकः अक्षरात्मकश्च ।अस्योत्पत्तिप्रकारो यथा, --“अव्नैषद्यान्मुखश्रोत्रमार्गस्याविषदाक्षरम् ।अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा ।मूलाधारे विष्वणति सुषुम्नां वेष्टते मुहुः ॥
”इति प्रपञ्चसारः ॥
अस्यार्थः । मुखश्रोत्रमार्गस्यावैषद्यात् अनैर्म्म-ल्याद्धेतोर्यदा सा कुण्डली अविषदाक्षरं अवि-ष्पष्टमक्षरं यत्राव्यक्ते ध्वनौ तं प्रलपति अर्थात्कलभाषणादिकं करोति तदा मूलाधारे विष्व-णति शब्दायते सुषुम्नाञ्च मुहुर्व्वेष्टते । इतितट्टीका ॥
* ॥
अस्य कुण्डलीस्वरूपत्वं यथा, --“कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी ।त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ॥
द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी ।गुणिता सर्व्वगात्रेण कुण्डली परदेवता ॥
विश्वात्मनापबुद्धा सा सूते मन्त्रमयं जगत् ।एकधा गुणिता शक्तिः सर्व्वविश्वप्रवर्त्तिनी ॥
त्रिपुष्करं स्वरान् देवी ब्रह्मादीनां त्रयं त्रयम् ॥
”इति सारदातिलकः ॥
अस्यार्थः । त्रिधामेति चन्द्रसूर्य्याग्निरूपा । द्बि-चत्वारिंशदिति भूतलिपिमन्त्रमयी । पञ्चाश-दिति मातृकामयीत्यर्थः । सर्व्वगात्रेण सर्व्ववर्णेनगुणिता परस्परमिलिता सती मन्त्रमयं जगत्सूते प्रकाशयति इत्यर्थः । मूलाधारे सर्पवत्कुण्डलीभूता नाडी वर्त्तते तन्मध्यस्थायित्वादियंकुण्डली । सर्व्वविश्वेत्युभयोपादानात् शब्दार्थ-रूपोभयप्रतिपादिकेति सूचितम् । त्रिपुष्कर-मिति ज्येष्ठमध्यमकनिष्ठत्वेन तीर्थत्रयम् । स्वरा-निति उदात्तानुदात्तसमाहारान् । इतितट्टीका ॥
* ॥
अपि च ।“द्बिचत्वारिंशता मूले गुणिता विश्वनायिका ।सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी तिभुः ॥
शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निवोधिका ।ततोऽर्द्धेन्दुस्ततो विन्दुस्तस्मादासीत् परा ततः ॥
”इति सारदायामाचार्य्याः ॥
मूले मूलाधारे द्विचत्वारिंशता गुणिता विश्व-नायिका कुण्डलिनी अनेन क्रमेण अकारादि-सकारान्तां द्विचत्वारिंशदात्मिकां भूतलिपि-मन्त्रात्मिकां वर्णमालिकां सूते इत्यन्वयः । क्रम-माह शक्तिमिति सा कुण्डलिनी शक्तिं सूतेततः शक्तेर्ध्वनिरासीदिति योजना । ततोध्वनेरित्यादि ज्ञेयम् । अयञ्च क्रमः सर्व्वाक्षरो-त्पत्तौ ज्ञेयः । तत्र सत्त्वप्रविष्टा चिच्छक्तिशब्द-वाच्या । पुनराकाशस्था सैव सत्त्वप्रविष्टा रजो-ऽनुविद्धा सती ध्वनिशब्दवाच्या । अक्षरावस्थासैव तमोऽनुविद्धा नादशब्दवाच्या । अव्यक्तावस्थासैव तमःप्राचुर्य्यान्निबोधिकाशब्दवाच्या । सैवतदुभयप्राचुर्य्यादर्द्धेन्दुशब्दवाच्या । उक्तञ्च पदा-र्थादर्शे ।“इच्छाशक्तिबलोद्घुष्टो ज्ञानशक्तिप्रदीपकः ।पुंरूपिणी च सा शक्तिः क्रियाख्या सृजतिप्रभुः ॥
”असावेव बिन्दुः स्थानान्तरगतः पराद्याख्योभवति ।पश्यन्ती मध्यमा वाची वैखरी शब्दजन्मभूः ।तत्र परा मूले पश्यन्ती स्वाधिष्ठाने मध्यमाहृदये वैखरी मुखे । तदुक्तं पदार्थादर्शे ।“सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रास्वरूपिणी ।अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्धगामिनी ॥
स्वयं प्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् ।सैव हृत्पङ्कजं प्राप्य मध्यमा नाद्ररूपिणी ॥
ततः संजल्पमात्रा स्यादविभक्तोर्द्धगामिनी ।सैवोरःकण्ठतालुस्था शिरोघ्राणरद्रस्थिता ॥
जिह्वामूलौष्ठनिर्धू तसर्व्ववर्णपरिग्रहा ।शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ॥
इच्छाज्ञानक्रियात्सासौ तेजोरूपा गुणात्मिका ।क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् ॥
अकारादिसकारान्तां द्बिचत्वारिंशदात्मिकाम् ।पञ्चाशद्बारगुणिता पञ्चाशद्बर्णमालिकाम् ॥
सूते तद्वर्णतो भिन्नाः कला रुद्रादिकान्क्रमात् ॥
”इति तट्टीका ॥
“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालुका ॥
”इति शिक्षासूत्रम् ॥
* ॥
किञ्च ।“यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः ।भेदा येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥
समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः ।व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टितः ॥
उच्चैरुन्मार्गणो वायुरुदात्तं कुरुते स्वरम् ।नीचैर्गतोऽनुदात्तञ्च स्वरितं तिर्य्यगागतः ॥
अर्द्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् ।सव्यञ्जनह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥
अकारेकारयोर्योगादेकारो वर्ण इष्यते ।तस्यैवैकारयोगेन स्यादैकाराक्षरं तथा ॥
उकारयोगात्तस्यैव स्यादोकाराह्वयः स्वरः ।तस्यैवैकारयोगेन स्यादौकाराह्वयः स्वरः ॥
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्व्वार्थसाधकाः ।ऌवर्णर्वर्णयोर्व्यक्तिर्न वै सम्वक् प्रदर्श्यते ॥
बिन्दुसर्गात्मनोर्व्यक्तिमनसोरजपा वदेत् ।कण्ठात्तु निःसरन् सर्गः प्रायोऽचात्मकतः-परः ॥
नश्वरः सर्ग एव स्यात् सोच्छ्वासः प्राणकस्तु हः ।स सर्गः श्लेषितः कण्टे वायुना कादिमीरयेत् ॥
वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् ।स्तोकगम्भीरसं स्पर्शात् गघौ ङञ्च वहिर्गतम् ॥
विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यं तथा ।ऋटुरेफसकारञ्च मूर्द्धगो दन्तगस्तथा ॥
ऌतवर्गलसानोष्ठ्यानुपूपध्मानसंज्ञकान् ।दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समी-रयेत् ॥
”इति प्रपञ्चसारे ३ पटलः ॥
सर्गो विसर्ग एव नश्वरो विकृतः सोच्छ्वासःसकाररूपः उच्छ्वासोऽन्तःप्रवेशशाली वायुःस्यादित्यन्वयः । एवं प्राणको वहिर्निर्गमन-शाली वायुर्हः स्यात् स एव उच्छ्वासः सोच्छ्वासः ।प्राणश्चासौ को वायुश्चेति प्राणकः । इतितट्टीका ॥
* ॥
अवर्णकवर्गहविसर्ज्जनीयाःकण्ठ्याः । १ । इवर्णचवर्गयशास्तालव्याः । २ ।ऋवर्णटवर्गरषा मूर्द्धन्याः । ३ । ऌवर्णतवर्ग-लसा दन्त्याः । ४ । उवर्णपवर्गोपध्मानीयाओष्ठ्याः । ५ । वो दन्त्यौष्ठ्यः । ६ । ए ऐ कण्ठ्य-तालव्यौ । ७ । ओ औ कण्ठ्यौष्ठ्यौ । ८ । इतिशिक्षासूत्रम् ॥
* ॥
अपि च ।“यद्गुह्यं सर्व्वतन्त्रेषु वर्णोच्चारविधिं शिवे ! ।तव स्नेहान्महेशानि ! तदद्य कथयामि ते ॥
पञ्चाशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेत् ।अ कु चु टु तु पु यु शु अष्टौ वर्गाः प्रकीर्त्तिताः ॥
अ कु हाः कण्ठतो ज्ञेया १ स्तालुतश्चुयशाःस्मृताः । २ ।ऋ टु रषास्तु मूद्धन्याः ३ दन्त्या ऌ तु ल सामताः ॥
४ ॥
उपवश्चोष्ठसंभूताः ५ स्थानानि कथितानि ते ।विशेषं कथयाम्यद्य प्रोच्चार्य्यः कण्ठतः स्वराः ॥
ऋद्बयं जिह्वया मूर्द्ध्ना ऌद्वयं जिह्वदन्तजम् ।मुखस्थानाद्धलो वाच्याः क्षकारः कण्टघातजः ॥
व्यञ्जनद्वयसंयोगे भवेत् पूर्व्वस्वरो गुरुः ।पदान्तादिमवर्णस्य संयोगेषु श्रुतिर्द्वयोः ॥
अपदान्तादिसंयोगे य्वोरन्यत्र तथेष्यते ।य्वोः श्रुतिस्तु तिरोभूय स्वरवत् श्रुतितां व्रजेत् ॥
श्रिया बीजे शकारस्य छश्रुतिः परमेश्वरि ! ।छश्रुतिश्च रादिभृगौ तथादिस्थे तु चश्रुतिः ॥
सहस्र इत्यादौ नमस्तस्यै आस्था इत्यादौ च ।रेफादिके तदन्ते वा हकारे समवाच्यता ॥
वर्हः ह्रद इत्यादौ ।किन्तु वैजात्यमाश्रित्य स्फुटं नात्रास्य वाच्यता ॥
चु तूर्य्यध्वनिमाप्नोति यादिस्थे परमेश्वरि ! ।वाह्य इत्यादौ ।पु चतुर्थव्वनिं याति वादिस्थे तु विशेषतः ॥
आह्वानमित्यादौ ।लादिस्थेऽप्यथ नादिस्थे वैजात्यं स्वल्पवाच्यता ।प्रह्लाद अह्राय इत्यादौ ।मादिस्थे भे च मस्यापि नासिकामूलवाच्यता ॥
उ ङ ण न मा बिन्दुर्नासिकामूलजाः स्मृताः ।यकारश्चु तृतीयत्वं पदादौ सर्व्वदा व्रजेत् ॥
केयूरादावपि तथा अन्यत्र कण्ठमात्रगः ।नादिस्थशसयोश्छत्वं स्वरयोगान्तवर्गके ॥
प्रश्नः स्नान इत्यादौ ।वर्णोत्तरेषु डढयोर्व्वक्रजिह्वादिवाच्यता ।वैजात्यमपि तत्रास्ति गुरोरेव समभ्यसेत् ।आदिरेफस्तु संप्रोक्तो दृशेरन्यो व्रजेदृताम् ।एवं ज्ञात्वा महेशानि ! पठेत् स्तोत्रं जपेन्मनुम् ॥
कवचञ्च महेशानि नान्यथा फलमाप्नुयात् ॥
”इति प्रपञ्चसारे ३ पटलः ॥
* ॥
अपि च ।“ह्रस्वः स्वरेषु पूर्व्वोक्तः परो दीर्घः क्रमादिमे ।शिवशक्तिमयास्ते स्युर्बिन्दुसर्गावसानकाः ॥
बिन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिर्निशा-करः ।स्वराणां मध्यगं यत्तु तच्चतुष्कं नपुंसकम् ॥
विना स्वरैस्तु नान्येषां जायते व्यक्तिरञ्जसा ।शिवशक्तिमयान् प्राहुस्तस्माद्वर्णान् मनीषिणः ॥
कारणात् पञ्चभूतानामुद्भूता मातृका यतः ।ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः ॥
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।पञ्च ह्रस्वाः पञ्च दीर्घाः विन्द्वन्ताः सन्धिसम्भवाः ।पञ्चशः कादयः ष क्ष ल स हान्ताः समी-रिताः ॥
”इति सारदा ॥
* ॥
अक्षरसृष्टिकारणं यथा, --“साण्मासिकेऽपि समये भ्रान्तिः संजायतेयता ।धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥
”इति ज्योतिस्तत्त्वे बृहस्पतिः ॥
वर्णलेखनप्रकारस्तु तत्तद्वर्णे द्रष्टव्यः ॥
* ॥
वर्ण-नामानि यथा, --“तन्त्रसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः ।वर्णनामानि कतिचित् वक्ष्यामि विदुषां मुदे ॥
ओँकारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥
सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः ।सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥
आदिबीजं वेदसारो वेदबीजमतः परम् ।पञ्चरस्मिस्त्रिकूटे च त्रिभवे भवनाशनः ॥
गायत्त्रीबीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः ।अक्षरं मातृकासूश्चानादिरद्बैतमोक्षदौ ॥
ओँ ॥
अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः ।पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियंवदः ॥
महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् ।कीर्त्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् ॥
ब्रह्मा वामाद्यजो ह्रस्वः करसूः प्रणवाद्यकः ।ब्रह्माणी कामरूपश्च कामेशी वाशिनी वियत् ॥
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी ।अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ॥
अः ॥
आकारो विजयानन्तो दीर्घच्छायो विनायकः ।क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥
प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः ।प्रतिष्ठा मानदा कान्तो विश्वान्तकगजान्तकः ॥
पितामहो द्विठान्तोऽभूः क्रिया कान्तिश्चसम्भवः ।द्वितीया मानदा काशीविघ्नराजः कुजो वियत् ।स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ॥
आः ॥
इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः ।सुमित्रं सुन्दरो वीरः कोटरः काटरः पयः ॥
भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।शान्तः कान्तः कामिनी च कामो विघ्नविना-यकः ।नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥
॥
इः ॥
ईस्त्रिभूर्त्तिर्महामाया लोलाक्षी वामलोचनम् ।गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥
विष्णुर्लक्ष्मीः प्रहासश्व वाग्विशुद्धः परापरः ।कलोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥
शिवोत्तमः शिवा तुष्टिश्चतुर्थी बिन्दुमालिनी ।वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥
पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका ।कुचद्वन्द्वं तर्ज्जनी व शान्तिस्त्रिपुरसुन्दरी ॥
ईः ॥
उः शङ्करो वर्त्तुलाक्षी भूतःकल्याणवाचकः ।अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥
उग्रः प्रमुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः ।शत्रुघ्नश्चेटिका पुष्टिः पञ्चमी वह्रिवासिनी ॥
चेटिकास्याने चेक्षिका इति वा पाठः ।कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।डटसूः कुटिला श्रोत्रं पारद्बीपो वृषो हरः ॥
डठसू इति कुत्रचित् पाठः । उः ॥
ऊः कण्टको रतिः शान्तिः क्रोधनो मधुसूदनः ।कामराजः कुजेशश्च महेशो वामकर्णकः ॥
कण्ठकस्थाने कण्टक इति वा पाठः ।अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती ।विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी ।महाविद्येश्वरी षष्ठा षण्डो भूः कान्यकुब्जकः ॥
॥
ऊः ॥
ऋः पूर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः ।भावभूतिः क्रिया क्रूरा रेचिका नासिका धृतः ॥
एकपादशिरो माला मण्डला शान्तिनी जलम् ।कर्णः कमलभा मेधो निवृत्तिर्गणनायकः ।रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी ॥
मेधः स्थाने मेष इति च पाठः ॥
ऋः ॥
ॠः क्रोधोऽतिथिशो वाणी वामनोऽगोऽथश्रीर्धृतिः ।ऊर्द्धमुखी निशानाथः पद्ममाला विनष्टधीः ॥
शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता ।एकदन्ताह्वयो माता हरिता मिथुनोदया ॥
माता स्थाने माया इति वा पाठः ।कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी ।ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी ॥
मिवस्थाने मवेति वा पाठः । ऋः ॥
ऌः स्थाणुः श्रीधरः शुद्धो मेधा धूम्रो वको वियत् ।देवयोनिर्दक्षगण्डो वहेशः कौन्तरुद्रकौ ।वहेशस्थाने वाहग इति वा पाठः ।विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा ।चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ॥
शुचिस्मिता च नवमी कान्तिराषातकेश्वरः ।चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी ॥
चित्ताकर्षिणीस्थाने चिन्ताकर्षिणी इति वापाठः । ऌः ॥
ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः ।सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा ॥
शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपोवियत् ।कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥
कामिनी विश्वषा कालो नित्या शुद्धः शुचिःकृती ॥
विश्वषास्थाने विस्मया इति वा पाठः ।सूर्य्यो धैर्य्याकर्षणी च एकाकी दनुजप्रसूः ॥
ॡः ॥
एकारो वास्तवः शक्तिर्झिण्टीशोष्ठौ भगं मरुत् ।सूक्ष्मा भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः ॥
भूतस्थाने शृत इति वा पाठः ।भयं ज्ञानं कृषा धीरा जङ्घा सर्व्वममुद्भवः ।वह्निविष्णुर्भगवती कुण्डली मोहिनी वसः ॥
योषिदाधारशक्तिश्च त्रिकोणा ईशसं ज्ञकः ।सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः ॥
एः ॥
ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनीविभुः ।दक्षा दामोदरः प्रज्ञोऽधरो विकृतमुख्यपि ॥
क्षमात्मको जगद्योनिः परः परनिबोधकृत् ।ज्ञानामृता कपर्द्दी श्रीः पीठेशाग्निः समातृकः ॥
त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः ।महेश्वरो द्वादशी च विमलश्च सरस्वती ।कामकोटो वामजानुरंशुमान् विजया जटा ॥
॥
ऐः ॥
ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिःस्थिरा ।सद्योजातो वासुदेवो गायत्त्री दीर्घजङ्घकः ॥
आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणी मुखी द्बिजः ।उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः ॥
प्रणवांशो ब्रह्मसूत्रमजेशः सर्व्वमङ्गला ।त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा ॥
त्रैलोक्यविजया प्रक्षा प्रीतिर्बीजादिकर्षिणी ॥
॥
ओः ॥
औकारः शक्तिको नाशस्तेजसो वामजङ्घकः ।मनुबद्धग्रहेशश्च शङ्कुकर्णः सदाशिवः ॥
अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती ।आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतःपयः ॥
अनन्ता ज्वालिनी व्योमा चतुर्दशी रतिप्रियः ।नेत्रमात्माकर्षिणी च ज्वालामालिनिका भृगुः ॥
व्योमास्थाने रोमा इति वा पाठः । औः ॥
अङ्कारश्चक्षुषो दन्तो वटिका समगुह्यकः ।प्रद्युम्नः श्रीमुखी प्रीतिर्बीजयोनिर्वृषध्वजः ॥
दन्तस्थाने दम्भ इति वा पाठः ।परं शशी प्रमाणीशः सोमबिन्दुः कलानिधिः ।अक्रूरश्चेतना नागपूर्णा दुःखहरः शिवः ॥
शिरः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः ।पूर्णिमा रेवती शुद्धः कन्या चरवियद्रविः ॥
अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी ।केदारो रात्रिनाशश्च कुब्जिका चैव बुद्वुदः ॥
॥
अं ॥
अः कण्ठको महासेनः कला पूर्णामृता हरिःइच्छा भद्रा गणेशश्च रतिर्व्विद्यामुखी सुखम्द्बिबिन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः ।द्बिजिह्वः कुण्डलं वक्त्रः सर्गः शक्तिर्निशाकरः ॥
सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ॥
अः ॥
कः क्रोधीशो महाकाली कामदेवः प्रकाशकः ।कपाली तेजसः शान्तिर्वासुदेवो जयानलः ॥
चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः ।अनन्तः पार्थिवो बिन्दुस्तापिनी परमात्मकः ॥
दक्षस्कन्धस्थाने दक्षकक्षौ इति वा पाठः ।वर्गाद्यश्च मुखी ब्रह्मा सखाद्योऽम्भः शिवोजलम् ।माहेश्वरी तुला पुष्पा मङ्गलश्चरणं करः ॥
नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः ।श्रीपुरं रमणो रङ्गः कुसुमा परमात्मकः ॥
कः ॥
खः प्रचण्डः कामरूपी ऋद्धिर्व्वह्रिः सरस्वर्तआकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥
शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि ।शून्यं कपाली कल्याणी सूर्पकर्णोऽजरामरः ॥
शुभ्राग्नेर्या चण्डलिङ्गो जनाव्याङ्गारखड्गकौ ॥
॥
खः ॥
गो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः ।शार्ङ्गी पञ्चान्तको गाथा गन्धर्व्वः सर्व्वगःस्मृतिः ॥
सर्व्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः ।विश्वात्मा गौः पृथग्रूपा बालबद्धस्त्रिलोचनः ॥
गीतं सरस्वती विद्या भोगिनी नन्दनो धरा ।भोगवती च हृदयं ज्ञानं जालन्धरो लवः ॥
लवस्थाने नर इति वा पाठः । गः ॥
घः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरा-न्तकः ।वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः ॥
मरीचिर्व्वरुणो मेधा कालरूपी च दाम्भिकः ।लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ।त्रैलोक्यविद्या संहर्त्ता कामाख्यमनघामयः ॥
धः ॥
ङः शङ्खी भैरवश्चण्डो विन्दूत्तंसः शिशुप्रियः ।एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥
कान्तिः श्वेताह्वयो धीरो द्बिजात्मा ज्बालिनीवियत् ।मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥
एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः ।शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ॥
॥
ङः ॥
चः पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः ।चर्म्ममुण्डधरो भूत्वा महिषाचारसम्बिनी ॥
भूत्वास्थाने भौम इति च पाठः ।एकरूपो रुचिः कूर्म्मश्चामुण्डा दीर्घवालुकः ।वामबाहुर्मलमाया चतुर्मूर्त्तिस्वरूपिणी ॥
दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः ।चन्दनं चन्द्रमा दवश्चे तनो वृश्चिको बुधः ॥
देवी केटमुखेच्छात्मा कौमारपूर्व्वफल्गुनी ।अनङ्गमेखला वायुर्मेदिनी च मूलावती ॥
चः ॥
छश्छन्दनं सुषुम्ना च प पुः पशुपतिर्मृतिः ।निर्म्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥
एकनेत्रश्च वृषली द्बिशिरा वामकुर्परः ।गोकर्णा लाङ्गली वामकाममत्ता सदाशिवः ॥
माता निशाचरः पायुर्व्विक्षतः स्थितिशब्दकः ॥
॥
छः ॥
जः शवो वानरः शूली भोगदा विजया स्थिरा ।ललदेवो जयो जेता धातकी सुमुखी विभुः ॥
लम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृका धरा ।दीर्घबाहू रुचिर्हंसो नन्दी तेजाः सुराधिपः ॥
जवनो वेगितो वामो मानवाक्षः सदात्मकः ।हृन्मारुतेश्वरो वेगी चामोदा मदविह्वलः ॥
जः ॥
झो झङ्कारी गुहो झष्झावायुः सत्यः षडुन्नतः ।अजेशो द्राविणी नादः पाशी जिह्वा जलंस्थितिः ॥
विराजेन्द्रो धनुर्हस्तः कर्कशो नादजः कुजः ।दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः ॥
दुर्मुखो नष्ट आत्मा वान् विकटा कुचमण्डलः ।कलहंसप्रिया वामा अङ्गुलीमध्यपर्व्वकः ।दक्षहासाट्टहासश्च पाथात्मा व्यञ्जनः स्वरः ॥
॥
झः ॥
ञकारो वोधनी विश्वा कण्डली मखदो वियत् ।कौमारी नागविज्ञानी सव्याङ्गुलनखरो वकः ॥
कण्डलीस्थाने कुण्डली मखदस्थाने सुखद इतिवा पाठः ।सर्व्वेशचूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः ।धर्म्मैकपादौ सुमुखौ विरजा चन्दनेश्वरी ॥
बुद्धिस्थाने सिद्धिः स्वर्गस्थाने सर्ग इति वापाठः ।गायनः पुष्पधन्वा च रागात्मा च वरा-क्षिणी ॥
ञः ॥
टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः ।मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥
सोमवा स्थाने सोमेश इति क्वचित् पाठः ।दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः ।बृहस्पतिर्धनुश्चित्रा प्रमोदा विमला कटिः ।राजा गिरिर्म्महाधनुर्घ्नानात्मा सुमुखोमरुत् ॥
टः ॥
ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गलीक्षया ।वनजो नन्दनो जिह्वा सुनञ्जघूर्णकः सुधा ॥
वर्त्तुलः कुण्डलो वह्रिरमृतं चन्द्रमण्डलः ।दक्षजानूरुभावश्च देवभक्ष्यो बृहद्धनिः ॥
एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः ।वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीःशशी ॥
ठः ॥
डः स्मृतिर्द्दारुको नन्दिरूपिणी योगिनीप्रियः ।कामारी शङ्करस्त्राशस्त्रिवक्रो नदको ध्वनिः ॥
दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती ।कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती चलोचनम् ॥
जटिलीस्थाने जटिल इति कान्तिस्थाने शान्ति-रिति वा पाठः ॥
डः ॥
ढो ढक्का निर्णयः पूर्व्वो यज्ञेशादनदेश्वरः ।अर्द्धनारीश्वरस्तोयमीश्वरी त्रिशिखी नवः ॥
यज्ञेशादनदेश्वर इत्यत्र यज्ञेशो धनदेश्वरइत्यपि पाठः ।दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः ।प्रहासा त्रिवेरा ऋद्धिनिर्गुणो निधनो ध्वनिः ॥
प्रहासा स्थाने प्रहास इति वा पाठः ।विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः ।एलापुरं त्वगात्मा च विशाखा श्रीर्म्मनो रतिः ॥
तक्कस्थाने त्वक्च इति वा पाठः ॥
ढः ॥
णो निर्गुणं रतिर्ज्ञानं जम्भनः पक्षिवाहनः ।जया शम्भो नरकजित् निष्कला योगिनीप्रियः ॥
द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनो मता ।त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलेर्मुखम् ॥
माधवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥
मुखस्थाने नखं इति वा पाठः ॥
णः ॥
तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा ।वामस्फिक्वामकट्यौ च कामिनी मध्य-कर्णकः ॥
हरिस्थाने हविः इति वा पाठः ।आषाढी तण्डतुस्नश्च कामिका पृष्ठपुच्छकः ।रत्नकश्च श्याममुखी वाराही मकरोऽरुणा ॥
आषाढीतण्डतुस्नश्चस्थाने आषान्तढान्तक्षुद्रश्चइति रत्नकश्चस्थाने रत्नकण्ठ इति वा पाठः ।सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः ।गन्धो विश्वामरुच्छत्रश्चानुराधा च सौरकः ॥
बुद्धस्थाने वृद्ध इति सौरकस्थाने सैविक इति वापाठः ।जयन्ति पुलको भ्रान्तिरनङ्गमदनातुरा ॥
तः ॥
थः स्थिरामी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः ।शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥
कृष्णो बुद्धिर्व्विकर्म्मा च दक्षनाशाधिपोऽमरः ।वरदा भोगदा केशो वामजानू रसोऽनलः ॥
कृष्णो बुद्धिर्विकर्म्मा स्थाने कृप्तो वह्रिर्व्विकर्णाइति वा पाठः ।लोलौजज्जयिनी गुह्यः शरच्चन्द्रो विदारकः ॥
लोलौ इत्यादिस्थाने लोलोज्जयिनीपूर्गुह्यशर-च्चन्द्रदिवाकरौ इति वा पाठः । थः ॥
दोऽद्रीशो धातकिर्धाता दाता दलं कलत्रकम् ।दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा ॥
दाता दलं स्थाने दानादनु इति वा पाठः ।सुषुम्ना योगिनी सद्यः कुण्डलो वामगुल्फकः ।कात्यायनी शिवा दुर्गा लङ्घना नात्रिकण्डकी ॥
लङ्घनास्थाने सङ्घना कण्डकीस्थाने कण्टकीइति वा पाठः ।स्वस्तिकः कुटिला रूपः कृष्णश्चोमाजितेन्द्रियः ।धर्म्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला ॥
धर्म्महृत्स्थाने घर्म्मकृत् बहुस्थाने वह इति वापाठः ।हरिद्रा पुरमत्रौ च दक्षपाणिस्त्रिरेखकः ॥
दः ॥
धो धनार्थो रुचिः स्थाणुः शाश्वतो योगिनी-प्रियः ।मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी ॥
धनार्थस्थाने धनाख्य इति वा पाठः ।धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः ।पीतवासा त्रिवर्णा च धाता धर्म्मप्लवङ्गमः ॥
धरणाचिन्तास्थाने धरणी चित्रा इति वापाठः ।सन्दर्शो मोहनो लज्जा वज्रतुण्डा धरं धरा ।वामपादाङ्गुलेर्मूलं ज्येष्ठा सुरपुरं भवः ।स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः ॥
धः ॥
नो गर्ज्जिनी क्षमा सौरिर्व्वारुणी विश्वपावनी ।मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः ॥
वारुणीस्थाने वरुणा इति वा पाठः ।ऊर्द्ध्वचामी द्विरण्डश्च वामपादाङ्गुलेर्मुखम् ।वैनतेयस्तुतिर्वर्त्म तरणिर्बालिरागमः ॥
वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्व्वियत् ।शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ ।गिरिनायकनीलौ च शिवो नादिर्म्महा-मतिः ॥
नः ॥
पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा ।गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥
तपनः पालनः पाता पद्मरेणुर्न्निरञ्जनः ॥
सावित्री पातिनी पानं वीरतत्त्वो धनुर्द्धरः ॥
पालनस्थाने पावन इति तत्त्वस्थाने तन्त्र इतिवा पाठः ।दक्षपार्श्वश्च सेनानी मरीचिः पवनः शनिः ।उड्डीशं जयनी कुम्भोऽलसं रेखा च मोहकः ॥
कुम्भस्याने कान्ता इति रेखास्थाने रेषा इतिवा पाठः ।मूला द्बितीयमिन्द्राणी लोकाक्षी मनआत्मनः ॥
आत्मनः स्थाने आत्मक इति वा पाठः । पः ॥
फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः ।जया पादः शिखा रौद्री फेत्कारः शाखिनीप्रियः ॥
उमा विहङ्गमः कालकुब्जिनीप्रियपावकौ ।प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥
फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः ।निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥
व्यक्तास्थाते झञ्झा इति प्रयागस्थाने प्रयाणइति वा पाठः । फः ॥
बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः ।प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥
पृष्ठवंशो भया मातुः शिखिवाहो युगन्धरः ।सुखबिन्दुर्ब्बली घण्टा योद्धा त्रिलोचनप्रियः ॥
सुखबिन्दुस्थाने मुखबिन्दुरिति वा पाठः ।क्लेदिनी तापिता भूमिः सुपनिन्द्रवलिप्रियः ।सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥
सुपनिन्द्रस्थाने सुगन्धिश्चेति वा पाठः ।षष्ठी पुरञ्च पेटा च मोदको गगनं प्रति ।पूर्व्वाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥
बः ॥
भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशातवम् ।द्विरण्डो भूषणो मूलं यज्ञसूत्रस्य वाचकः ॥
निशातवस्थाने निशाभयं इति वा पाठः ।नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः ।नाभिभद्रं भहाबाहुर्विश्वमूर्त्तिर्विताण्डकः ॥
वयःस्थाने भय इति विताण्डकस्थाने विमूर्त्तकइति वा पाठः ।प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका ।भीमसेनः सुधामेनः सुखो मायापुरं हरः ॥
वज्रस्थाने रुद्रा इति सुखस्थाने मुख इति वापाठः । भः ॥
मः काली क्लेशितः कालो महाकालो महा-न्तकः ।वैकुण्ठो वसुधा चन्द्री रविः पुरुषराजकः ॥
वसुधास्याने वस्तुदा इति वा पाठः ।कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः ।जठरञ्च भ्रमानानं लक्ष्मीमातोग्रबन्धनौ ॥
दीप्तस्थाने दीप्र इति वा पाठः ।विषिं शिवो महावीरः शशिप्रभां जनेश्वरः ।प्रमत्तः प्रियसू रुद्रः सर्व्वाङ्गो वह्निमण्डलम् ॥
भातङ्गमालिनो बिन्दुः श्रवणाभरथो वियत् ॥
रथस्थाने मख इति वा पाठः । मः ॥
यो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः ।युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः ॥
युगान्तस्थाने युगाभ इति वा पाठः ।शङ्खा भ्रमो जटी लोला वायुवेगी यशस्करी ।सङ्कर्षणः क्षपा वालो हृदयं कपिला प्रभा ॥
आग्नेयो व्यापकास्त्यागो होमो यानं प्रमासुखम् ।चण्डः सर्व्वेश्वरी घूमश्चामुण्डा सुमुखेश्वरी ॥
प्रमास्थाने प्रभा इति वा पाठः ।त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः ।तेनमः शोषको मीनो धनिष्ठानङ्गवेदिनी ॥
त्वगात्मास्थाने विगात्मा इति तेनमस्थाने येमनइति वा पाठः ।मेष्ठः सोमः पक्तिनामा पापहा प्राणसंज्ञकः ॥
मेष्ठस्थाने सेष्ट इति वा पाठः । यः ।रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः ।प्रकाशा दर्शेनो दीपो रतकृष्णा परं बली ॥
स्त्वोजसस्थाने न्तेजन इति रतकृष्णास्थाने रक्त-कृष्ण इति वा पाठः ।भुजङ्गेशो मतिः सूर्य्यो धातू रक्तः प्रकाशकः ।व्यापको रेवती दासं कुक्ष्यंशो वह्निमण्डलम् ॥
दासस्थाने दानमिति कुक्ष्यंशस्थाने दक्षांशइति वा पाठः ।उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा ।प्रकृतिः सुगलो ब्रह्मशन्दश्च गायको धनम् ॥
वेदकण्ठपलास्थाने वेदकश्चपला इति वा पाठः ।श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी ।सविन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतोमुखी ॥
श्रीशैलस्थाने श्रीशोण इति वा पाठः । रः ।लश्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः ।वलानुजः पिणाकीशो व्यापको मांससंज्ञकः ॥
माधवस्थाने माधवी इति वा पाठः ।खड्गी नादोमृतं देवी लवणं वारुणी पतिः ।शिखा वाणी क्रिया माता भामिनी कामिनीप्रिया ॥
मृतस्थाने मृडमिति लवणस्थाने मरणमिति वापाठः ।ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः ।विश्मात्ममन्त्रौ बली चेतो मेरुर्गिरिः कला रसः ॥
मन्त्रस्थाने मन्द्र इति कलास्थाने कणा इति वापाठः । लः ।वो वालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः ।खड्गीशो ज्वालिनी वङ्कः कलसध्वनिवाचकः ॥
वङ्कस्थाने रङ्क इति कलसध्वनिस्थाने कलसंरविइति वा पाठः ।उत्कारीशस्तु ना वीतो वज्रा स्फिक् सागरःशुचिः ।त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥
वः ॥
शः सव्यश्च कामरूपी कामरूपो महामतिः ।सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ॥
वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी ।मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी ॥
बाहुर्हंसो वियद्बक्त्रं हृदनङ्गाङ्कुशः खलः ।वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः ।हंसश्चाने हिंसा इति वा पाठः । शः ॥
षः श्वेतो वासुदेवश्च पीता प्रज्ञा विनायकः ।परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः ॥
पीतास्थाने प्रीता इति प्रज्ञास्थाने श्रद्धा इतिवा पाठः ।लम्बोदरो यमौजेशः कामधुक् कामधूमकः ।सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः ।कामधूमकस्थाने कालधूमक इति वा पाठः ।सूर्य्यात्मा जठरः कोषो मत्ता वक्षोविदारिणी ।कलकण्ठो मध्यभिन्ना बुद्धात्मा मलपूः शिवः ॥
षः ॥
सो हंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः ।जगद्वीजं शक्तिनामा मोहं वेशवती भृगुः ॥
सुयशास्थाने सुजन इति मोहस्थाने सोऽहं इतिवा पाठः ।प्रकृतिरीश्वरः शुद्धो प्रभा श्वेता कुलोज्ज्वलः ।दक्षपादो मृतं ब्राह्मी परमात्मा परोऽक्षरः ॥
सुरूपा च गुणेशो गौः कलकण्ठो वृकोदरी ।प्राणाद्याश्च पुरादेवी लक्ष्मीः सोमो हिरण्यपुः ॥
दुर्गोत्तारिणी सन्मोहाज्जीवो मूर्त्तिर्मनोहरः ॥
दुर्गोत्तारिणिस्थाने दुर्गोत्तारिणी इति सन्मो-हात्स्थाने सन्मोहा इति मनोहरख्याने मनोयवइति वा पाठः । सः ।हः शिवो गगनं हंसो नागलोकोऽम्बिका-पतिः ।नकुलीशो जगत्प्राणः प्राणेशः कपिला मलः ॥
मलस्थाने मत इति वा पाठः ।परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनः ।मृगो भयो रुणास्थाणुः क्रुटकूपविरावणः ॥
यवाकस्थाने वराक इति अङ्गनस्थाने अङ्गुलइति क्रुटकूपविरावणस्थाने कूटकोपरिवारणइति वा पाठः ।लक्ष्मीर्मविहरः शम्भुः प्राणशङ्किर्ललाटजः ।स्वकोपवारणः शूली चैतन्यं पादपूरणः ॥
मविहरस्थाने हरिहर इति स्वकोपस्थानेसकोप इति वा पाठः ।महालक्ष्मीः परं नादो मेघनादो हरिर्म्मतः ।विन्दुर्दुर्गा प्रिया देवी मेघश्यामेश्वरः पुमान् ॥
दक्षपादः सदाशम्भुः शाखोटः सोममण्डलम् ॥
हःळः पृथ्वी विमला मोघोऽनन्तो हव्यवहा सिता ।व्यापिनी शिवदा केतुजगत्सारतरं हठः ॥
ग्लौर्मृडानी च वेदार्थः सारो नारायणः स्वयम् ।जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी ॥
ळः ॥
क्षः कोपस्तुम्बुकः कालो रूक्षः संवर्त्तकः परः ।नृसिंहो विद्युता माया महातेजा युगान्तकः ॥
स्तुम्बुकस्थाने स्तुघुक इति रूक्षस्थाने व्यक्ष्यमितिपरस्थाने पय इति वा पाठः ।परात्मा क्रोधसं हारौ वलान्तो मेरुवाचकः ।सर्व्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः ॥
वलान्तस्थाने नलान्त इति सर्व्वाङ्गस्थाने सर्व्वागइति वा पाठः ।क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः ।मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः ।छायापुत्त्रश्च संघातो मलयः श्रीर्ललाटकः ॥
” क्षः ॥
इति नन्दनभट्टाचार्य्यविरचितं वर्णाभिधानंसमाप्तम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
