| YouTube Channel

वरीयान् (varIyAn)

 
शब्दकल्पद्रुमः
Sanskrit
वरीयान्, [स्] त्रि, (अयमनयोरतिशयेन ऊरु-र्वरो वा ईयसुन् प्रियस्थिरेति वरादेशः ।)श्रेष्ठः (यथा, भागवते ।“वरीयानेष ते प्रश्नः कृतो लोकहितो नृप !
”)वरिष्ठः अतियुवा इति मेदिनी ठे, १५
वरीयान्,
पुं,
विष्कम्भादिसप्तविंशतियोगान्तर्गता-ष्टादशयोगः तत्र जातफलम् ।“दाता दयालुः सुतरां सुवेषःसत्कर्म्मकर्त्ता मधुरस्वभावः ।नरो बलीयान् धनवान् जनाढ्योयोगो वरीयान् यदि जन्मकाले
”इति कोष्ठीप्रदीपः
(पुलहस्य पुत्त्रः इति भागवते ३४
)