| YouTube Channel

वमनं (vamanaM)

 
Apte 1890
English
वमनं [वम्-ल्युट्] 1 Ejeceting, vomiting.
2 Drawing out, taking or geting out
as in स्वर्गाभिष्यंदवमनं R. 15. 29
Ku. 6. 37.
3 An emetic.
4 Offering oblations.
5 Pain.
नः Hemp.
नी A leech.
शब्दकल्पद्रुमः
Sanskrit
वमनं,
क्ली,
(वम् + भावे ल्युट् ।) छर्द्दनम् ।(यथा, सुश्रुते १२ ।“मधुराम्लौ रसौ वापि वमनाय प्रदापयेत्
”वमनद्रव्यमपि यथा, कथासरित्सागरे६४ १७ ।“स दत्त्वा वमनं कृच्छ्रात् मृतकल्पमजी-वयत्
”)अर्द्दनम् इति मेदिनी ने, १२३
आहुतिः ।इति विश्वः
(आहरणम् यथा, रघुः ।१५ २९ ।“या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता
*
अथ वमनकल्पीयविधिः ।“वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरेचने ।नित्यमन्यस्य तु व्याधि विशेषेण विशिष्टता
फलानि तानि पाण्डूनि चातिहरितान्यपि ।आदायाह्रि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा वद्ध्वा प्रलेपयेत् ।गोमयेनानुमुत्तोलीं धान्यमध्ये निधापयेत्
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात् ।निष्कृष्य निर्गतेऽष्टाहे शोषयेत्तान्यथातपे
तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः ।दधिमध्वाज्यपललैर्मृदित्वा शोषयेत् पुनः
ततः सुगुप्तं संस्थाप्य कार्य्यकाले प्रयोजयेत् ।अथादाय ततो मात्रां जर्ज्जरीकृत्य वासयेत्
शर्व्वरीं मधुयष्ट्या वा कोविदारस्य वा जले ।कर्व्वुदारस्य विम्ब्या वा नीपस्य विदुलस्य वा
शणपुष्प्याः सदा पुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा ।ततः पिबेत् कषायं तं प्रातर्मुदितगालितम्
सूत्रोदितेन विधिना साधु तेन तथा वमेत् ।श्लेष्मज्वरप्रतिश्यायगुल्भान्तर्व्विद्रधीषु
”“पित्ते कफस्थानगते जीमूतादिजलेन तत् ।हृद्दाहेऽधोऽस्रपित्ते क्षीरं तत्पिप्पलीशृतम्
क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु ।दध्युत्तरं वा दधि वा तत्स्रुतक्षीरसम्भवम्
फलादिक्वाथकल्काभ्यां सिद्धं तत् सिद्धदुग्ध-जम् ।सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे वा मतम्
”“वत्सकादिप्रतीवापः कषायः फलमज्जजः ।निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति
बद्धमूलानपि व्याधीन् सर्व्वान् सन्तर्पणोद्भवान् ।वाटपुष्पफलश्लक्ष्णचूर्णैर्म्माल्यं सुरूक्षितम्
वमेन्मण्ड वसादीनां तृप्तो जिघ्रन् सुखं सुखी
”“इक्ष्वाकुर्व्वमने शस्तः प्रताम्यति मानवे ।फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम् ।पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत्
”“सक्तुभिर्व्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः ।कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके
गुल्मे ज्वरे प्रसक्ते कल्कं मांसरसैः पिबेत् ।नरः साधु वमत्येवं दौर्ब्बल्यमश्नुते
”“जीवकर्षभकौवीरा कपिकच्छूः शतावरी ।काकोलीश्रावणी मेदा महामेदा मधूलिका
तद्रजोभिः पृथग्लेहा धामार्गवरजोऽन्विताः ।कासे हृदयदाहे शस्ता मधुसिताहृताः
”“सर्षपाणां मधूकानां तोयेन लवणस्य वा ।पाययेत् कौटजं बीजं युक्तं कृशरयाथवा
सप्ताहं वार्कदुग्धाक्तं तच्चूर्णं पाययेत् पृथक् ।फलजीमूतकेक्ष्वाकु जीवन्तीजीवकोदनैः
वमनौषधमुख्यानामिति कल्पदिगीरिता ।बीजेनानेन मतिमानन्यान्यपि कल्पयेत्
”इति वाभटे कल्पस्थाने प्रथमेऽध्याये
)