| YouTube Channel

वबः (vabaH)

 
शब्दकल्पद्रुमः
Sanskrit
वबः,
पुं,
एकादशकरणान्तर्गतप्रथमकरणम् ।अस्याधिपतिरिन्द्रः तत्र विहितानि यथा, --“पौष्टिकस्थिरशुभानि वबाख्ये ।”इति ज्योतिस्तत्त्वम्
अत्र जातफलम् ।“वबाभिधाने जननं हि यस्यशूरोऽतिधीरो मनुजः कृती स्यात् ।पद्मालया तन्निलये निवाम्रंकरोति नित्यं सुविचक्षणः स्यात्
”इति कोष्ठीप्रदीपः
दाक्षिणात्यमते अस्य शब्दस्य प्रथमबकारःपवर्गीयः शेषवकारोऽन्तःस्थः