| YouTube Channel

वधोद्यतः (vadhodyataH)

 
अमरकोशः
Sanskrit
Word: वधोद्यतः
Root: वधोद्यतः
Gender: undefined
Number: undefined
Meaning(s):
warrior
a murderer
having one's bow drawn
endeavouring to kill some one
one whose bow is drawn to take another's life
Shloka(s):
3|1|44|2 कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते॥ (विशेष्यनिघ्नवर्गः)
Synonym(s):
3|1|44|2 आततायी (आततायिन्) (पुं) warrior, a murderer, having one's bow drawn, endeavouring to kill some one, one whose bow is drawn to take another's life
3|1|44|2 (आततायिन्) (स्त्री) warrior, a murderer, having one's bow drawn, endeavouring to kill some one, one whose bow is drawn to take another's life
3|1|44|2 आततायि (आततायिन्) (नपुं) warrior, a murderer, having one's bow drawn, endeavouring to kill some one, one whose bow is drawn to take another's life
Related word(s):
परा_अपरासंबन्धः मनुष्यः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
वधोद्यतः, त्रि, (वधाय उद्यतः ।) परवधायोद्-युक्तः तत्पर्य्यायः सन्नद्धः आततायी ।इत्यमरः
आततायिवधापवादमाह बृह-स्पतिः ।“नाततातिवधे हन्ता प्राप्नुयात् किल्विषं क्वचित् ।विनाशार्थिनमायान्तं घातयन्नापराध्नुयात्
”कात्यायनः ।“आततायिनमायान्तमपि वेदान्तपारगम् ।जिघांसन्तं जिघांसीयात् तेन ब्रह्महा भवेत्
”जिघांसी सन् ईयात् गच्छेदित्यर्थः देवलः ।“उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् ।निहत्य भ्रूणहा स्यादहत्वा भ्रूणहा भवेत्
”भ्रूणो ब्राह्मणविशेषः दोषदर्शनं नियमार्थम् ।मनुविष्णू ।“गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।आततायिनमायान्तं हन्यादेवाविचारयन्
”एवकारो नियमार्थः तथा ।“नाततायिवधे दोषो हन्तुर्भवति कश्चन ।प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति
”यस्माद्धन्तुर्मन्युर्हन्यमानमन्युं नाशयति पुनःपुरुषो हन्ति हन्यते वेति हननविधेरपवादः ।आततायिनमाह वशिष्ठः ।“अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।क्षेत्रदारापहारी षडेते आततायिनः
”विष्णुकात्यायनौ ।“उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा ।आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु
भार्य्यातिक्रामिणञ्चैव विद्यात् सप्ताततायिनः ।यशोवृत्तिहरानन्यानाहुर्धर्म्मार्थहारकान्
”विशेषमाह कात्यायनः ।“अनाक्षारितपूर्व्वो यस्त्वपराधे प्रवर्त्तते ।प्राणद्रव्यापहारे प्रवृत्तस्याततायिता
”अनाक्षारितोऽनपकृतः तेन पूर्व्वकृतापरा-धस्य मारणोद्यतस्य नाततायिता एतेनप्रत्यपकारिवधे दोष एव ननु आततायिनो-रपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः ।“आततायिवधे दोषोऽन्यत्र गोब्राह्मणात् यदाहन्यात् प्रायश्चित्तं कुर्य्यात् ।” तथा भविष्ये ।“क्षुण्णानामपि गोविप्रं हन्याद्वै कदाचनं
”अतः पूर्व्ववचनविरोधः अत्र व्यवस्थामाहकात्यायनः ।“आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।वधस्तत्र तु नैव स्यात् पापे हीने वधो भृगुः
”जन्मपदेन जातिकुलञ्चोच्यते तेन हन्त्रपेक्षयातपोविद्याजातिकुलैरुत्कृष्टो नाततायी वध्यःतदन्यो वध्य एव भगवद्गीतायाम् ३६ ।यथा, --“पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः
”इति ।एतान् भीष्मादीनत्यन्तोत्कृष्टगुणानित्यर्थः ।एवम्भूताततायिनश्चाहनने फलमप्याह बृह-स्पतिः ।“आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।यो हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत्
”यद्यपि गुरुं बहुश्रुतं हन्यादिति श्रूयते तथापिगुरोः सकाशात् कुलविद्यातपोभिः शिष्यस्या-प्युत्कर्षसम्भवादेवं बहुश्रुतादपि एवमधमवर्णस्यउत्तमवर्णो वध्यः पूर्व्वापराधकृतविषयं वासुमन्तुवचनम् गौरातताय्यपि वध्यः ।“नखिनां शृङ्गिणाञ्चैव दंष्ट्रिणाञ्चाततायिनाम् ।हस्त्यश्वानां तथान्येषां वधे हन्ता दोष-भाग्
”इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविष-यम्
विशेषमाह कात्यायनः ।“उद्यतानान्तु पापानां हन्तुर्दोषो विद्यते ।निवृत्तास्तु यदारम्भाद्ग्रहणं वधः स्मृतः
”इति प्रायश्चित्तविवेकः