| YouTube Channel

वडि (vaDi)

 
Edgerton Buddhist Hybrid
English
Vaḍi, n. of a yakṣa: Māy 〔236.28〕.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वण्ड्
मूलधातुः:
वडि
धात्वर्थः:
विभाजने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वण्डते
धातुः:
वण्ड्
मूलधातुः:
वडि
धात्वर्थः:
विभाजने, ग्रन्थे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वण्डयति-ते
धातुप्रदीपः
Sanskrit
वडिँ वडि वेष्टने
- वण्डते ।। 268 ।।
क्षीरतरङ्गिणी
Sanskrit
वडिँ वडि विभाजने
-(अर्थविवरणम्) विभाजनं भागीकरणं चरमाभावश्च
वण्डते वण्डनम्, वण्डः चुरादौ (1043) वण्डयति वटि इत्येके परस्मैपदी-वण्टति, वण्ट्यते वण्टो नागः नन्दी तु वटि विभाजने वडि वेष्टने, इति भङ्ग्या पठति' 264
वडिँ वडि विभाजने
- वण्डयति, वण्डः टान्त इत्येके-वण्टयति भ्वादौ (1224) वण्टति 48
धातुवृत्तिः
Sanskrit
वडिँ वडि (अर्थः) विभाजने
268
कृदन्तरूपमाला
Sanskrit
1 {@“मडि विभाजने”@} 2 3 धातुपाठे ‘वडि विभाजने
मडि च’ इति पाठ्यते।
तत्र ‘वडि मडि विभा- जने’ इत्येकदैव पठितव्ये पृथक् सूत्रकरणात् अर्थान्तरेऽपि मडिधातुर्वर्तते इति क्षीरस्वाम्यादयः प्रतिपादयन्ति।
तद् यथा मण्डः = रसाग्रम्।
अत्र तण्डुला- दीनां पचनावसरे क्वथनानन्तरं ऊर्ध्वं रसस्यावरणरूपेणाविर्भावः रसाग्रमि- त्युच्यते
अत्रापि धातोरस्य वृत्तिरित्यर्थः।
एवम्, मण्डूरम् 4 मण्डलम्, मण्डपः इत्यादिष्वप्यस्य धातोरर्थान्तरवृत्तिर्ज्ञेया।
काशकृत्स्न- धातुपाठीयव्याख्यायां 5 ‘वडि मडि वेष्टने’ इति पट्यते इति क्षी टीका 6।
“नन्दी तु ‘मडि वेष्टने’ इति पठति।” इति धातुवृत्तिः।
परं तु क्षीरतरङ्गिण्यां-- “नन्दी तु ‘वटि विभाजने, वडि वेष्टने’ इति भङ्ग्या पठति।” इत्येव दृश्यते।
ईदृशस्थलेषु शुद्धपाठः कीदृश इति ग्रन्थैर्निर्धारयितुं शक्यते।
सर्वथा मडिधातुरनेकार्थक इति सारः।]] ‘भूषार्थे मण्डतीति स्यात् तत्र मण्डयतीति णौ।
मण्डते वेष्टने…।।’ 7 इति देवः।
मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 8 ज्ञेयानि।
9 मण्डिता, 10 इत्यूकण्प्रत्ययः।
मण्डते क्षितिमिति मण्डूकः = भेकः।]] मण्डूकः, 11 कलप्रत्यये रूपमेवम्।
मण्ड्यते = वेष्ट्यते इति मण्डलम् = परिवारः।]] मण्डलम्, इत्यादीन्यस्माद् भवन्तीति विशेषः।
12 मण्डितः।
प्रासङ्गिक्यः
01
=>
(१२०७)
02
=>
(१-भ्वादिः-२७२। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(= लोहमलम्)
05
=>
(कन्नडभाषामय्यां)
06
=>
(पृ। ४१)
07
=>
(श्लो। ८४)
08
=>
(१४९)
09
=>
[[१। ताच्छीलिके तृनि रूपमेवम्। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इत्यत्र युज्विधौ भूषर्णार्थकस्यैव मण्डधातोर्ग्रहणमिति वृत्त्यादिषु प्रतिपादितत्वादत्र युजिति ज्ञेयम्। स्पष्टमिदं मा। धा। वृत्तौ।]]
10
=>
[[२। ‘शलिमण्डिभ्यामूकण्’ [द। उ। ३-४७]
11
=>
[[३। औणादिके [द। उ। ८-१०७]
12
=>
[[आ। ‘प्रहुण्डितानैक्षत चारुकुण्डलान् प्रवण्डितार्थान् अविमण्डिताशयान्।’ धा। का। १। ३६।]]
1 {@“वडि विभाजने”@} 2 ‘विभाजनम् = भागीकरणम्, चर्माभावश्च।
‘चुरादौ 3 इत्येवमेव।]] वण्डयति’ इति क्षीरस्वामी।
चर्माभावो नाम शिपिविष्टता 4--वागीशः।
‘-- वेष्टने’ इति मैत्रेयः।
“नन्दी तु वटि विभाजने, वडि वेष्टने इति भङ्ग्या पठति” इति क्षीरस्वामिवचनमिहानुसन्धेयम्।
“काशकृत्स्न- धातुपाठकन्नडटीकायां ‘वडि वेष्टने’ इति पाठः।
वाहीक 5 देशीय- भाषायां विभाजनार्थिका ‘वण्डना’ क्रिया प्रयुज्यते।
तेन ‘विभाजने’ इत्यप्यर्थः प्रामाणिक एव” इति तत्र टिप्पन्यामुक्तं युधिष्ठिरमीमांसकेन।
वण्डकः-ण्डिका, वण्डकः-ण्डिका, विवण्डिषकः-षिका, वावण्डकः-ण्डिका
वण्डिता-त्री, वण्डयिता-त्री, विवण्डिषिता-त्री, वावण्डिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककम्पतिवत् 6 ज्ञेयानि।
धा।
का।
व्याख्यायाम् 7 ‘वेष्टनेऽपीत्येके’ इत्युक्तम्।
प्रासङ्गिक्यः
01
=>
(१५४५)
02
=>
(१-भ्वादिः-२७१। सक। सेट्। आत्म।)
03
=>
[[१। ‘वडि विभाजने’ इति (चुरादौ) पठित्वा, ‘टान्त इत्येके’ इति क्षीरतरङ्गिण्यां दृश्यते। शाकटायनस्तु [वडि]
04
=>
(द्विनग्नता)
05
=>
(पञ्जाब्)
06
=>
(१६६)
07
=>
(१-३६)