वज्रं (vajraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiवज्र
शब्दकल्पद्रुमः
Sanskritवज्रं, (वजतीति । वज गतौ + “ऋज्रे-न्द्राग्रवज्रविप्रेति ।” उणा० २ । २८ । इति रन्-प्रत्ययेन निपातितः ।) इन्द्रस्यास्त्रविशेषः । वाज्इति भाषा ॥
तत्पर्य्यायः । ह्रादिनी २ कुलिशम् ३भिदुरम् ४ पविः ५ शतकोटिः ६ स्वरुः ७शम्वः ८ दम्भोलिः ९ अशनिः १० । इत्यमरः ।१ । १ । ५० ॥
कुलीशम् ११ भिदिरम् १२ भिदुः१३ स्वरुस् १४ सम्बः १५ संवः १६ अशनी १७वज्राशनिः १८ । इति तट्टीका ॥
जम्भारिः १९त्रिदशायुधम् २० शतधारम् २१ शतारम् २२आपोत्रम् २३ अक्षजम् २४ । इति पुरुषो-त्तमः ॥
गिरिकण्टकः २५ गौः २६ अभ्रोत्थम्२७ मेघभूतिः २८ गिरिज्वरः २९ । इतिशब्दरत्नावली ॥
जाम्बविः ३० दम्भः ३१ । इतिजटाधरः ॥
भिद्रः ३२ अम्बुजम् ३३ । इतित्रिकाण्डशेषः ॥
(यथा, ऋग्वेदे । १ । ३२ । २ ।“अहन्नहिं पर्व्वते शिश्रियाणंत्वष्टास्मै वज्रं स्वर्य्यं ततक्ष ॥
”)अस्योत्पत्तिर्यथा, --“तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ।पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् ॥
त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् ।दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम् ॥
रूपञ्च प्रतिमञ्चक्रे त्वष्टा पादादृते महत् ।न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः ॥
अर्च्चास्वपि ततः पादौ न कश्चित् कारयेत्क्वचित् ।यः करोति स पापिष्ठां गतिमाप्नोति निन्दि-ताम् ॥
कुष्ठरोगमवाप्नोति लोकेस्मिन् दुःखसंयुतम् ।तस्मान्न धर्म्मकामार्थी चित्रेय्वायतनेषु च ।न क्वचित् कारयेत् पादौ देवदेवस्य धीमतः ॥
”इति मात्स्ये ११ अध्यायः ॥
* ॥
अपि च ।“प्रविश्य जठरं शुद्धो दैत्यमातुः पुरन्दरः ।ददर्शोर्द्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥
तस्यैवान्तेऽथ ददृशे पेशीं मांसस्य वासवः ।शुद्धस्फटिकसंकाशां कराभ्यां जगृहेऽथ ताम् ॥
ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः ।कराभ्यामर्दयामास ततः सा कठिनाभवत् ॥
ऊर्द्ध्वेनार्द्धञ्च ववृधे त्वधोऽर्द्धं ववृधे तथा ।शतपर्व्वा च कुलिशः संजातो मांसपेशितः ॥
”इति वामने ६८ अध्यायः ॥
* ॥
वृत्रासुरवधार्थं दधीचिमुनेरस्थ्ना इन्द्राज्ञयाविश्वकर्म्मणा निर्मितवज्रस्य प्रमाणं यथा, --“एवं कृतव्यवसितो दध्यङ्ङाथर्व्वणस्तनुम् ।परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥
यताक्षासु मनो बुद्धिस्तत्त्वदृक ध्वस्तबन्धनः ।आस्थितः परमं योगं न देहं बुबुधे गतम् ॥
अथेन्द्रो वज्रमुद्यम्य निर्म्मितं विश्वकर्म्मणा ।मुनेः सकथिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥
वृतो देवगणैः सर्व्वैर्गजेन्द्रो पर्य्यशोभत ।स्तयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥
”इति श्रीभागवते ६ स्कन्धे १० अध्यायः ॥
* ॥
तन्निर्घोषवारकविधिर्यथा, --“पचण्डपवनाघाते मेधेषु स्तनितेषु यः ।त्रिः पठेज्जैमिनीयोऽस्मि प्राङ्मुखो वाप्युदङ्-मुखः ॥
तस्य माभूद्भयं घोरं विद्युतीयोऽवसीदति ॥
”इत्याह्रिकतत्त्वधृतब्रह्मपुराणम् ॥
“मुनेः कल्याणमित्रस्य जैमिनेश्चापि कीर्त्तनात् ।विद्युदग्निभयं नास्ति पठिते च गृहोदरे ॥
”लिखिते च गृहोदरे । इति वा पाठः ।“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥
”इति पुराणम् ॥
* ॥
* ॥
रत्नविशेषः । हीरा इति भाषा । तत्पर्य्यायः ।इन्द्रायुधम् २ हीरम् ३ भिदुरम् ४ कुलिशम् ५पविः ६ अभेद्यम् ७ अशिरम् ८ रत्नम् ९ दृढम्१० भार्गवकम् ११ षट्कोणम् १२ बहुधारम्१३ शतकोटिः १४ । अस्य गुणाः । षड्रसो-पेतत्वम् । सर्व्वरोगापहारकत्वम् । सर्व्वाघशम-नत्वम् । सौख्यत्वम् । देहदार्ढ्यकरत्वम् । रसा-यनत्वञ्च । तद्विशेषो यथा, --“स्वच्छं विद्युत्प्रभं स्निग्धं सौन्दर्य्यं लघु लेखनम् ।षडारन्तीक्ष्णधारञ्च सुशाम्यारं श्रियं दिशेत् ॥
”तस्य कुलक्षणं यथा, --“भस्माभं काकपादञ्च रेखाक्रान्तन्तु वर्त्तुलम् ।आधारमलिनं बिन्दु संत्रासे स्फुटितन्तथा ।नीलाभं चिपिटं रूक्षं तद्वज्रं दोषलं त्यजेत् ॥
”वज्रस्य चतुर्व्वर्णलक्षणं यथा, --“श्वेतालोहितपीतमेचकतया छायाश्चतस्रःक्रमाद्-विप्रादित्वमिहास्य यत् सुमनसः शंसन्ति सत्यंततः ।स्फीतां कीर्त्तिमनुत्तमां श्रियमिदं दत्ते यथासंधृतंमर्त्यानामयथायथं तु कुलिशं पथ्यं हितंजात्यतः ॥
” * ॥
तस्य परीक्षा यथा, --“यत् पाषाणतले निकाशनिकरे नोद्घृष्यतेनिष्ठुरेयच्चान्योपललोहमुद्गरमुखैर्लेखान्न यात्याहनम् ।यच्चान्यं निजलीलयैव दलयेद्वज्रेण वा भिद्यतेतज्जातं कुलिशं वदन्ति कुशलाः श्लाध्यं महा-र्घञ्च तत् ॥
” * ॥
तस्य वर्णगुणौ यथा, --“विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदोराजन्यस्तु नृणां बलीपलितजिन्मृत्युं जयेद-ञ्जसा ।द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्योऽथ शूद्रोभवेत्सर्व्वव्याधिहरस्तदेष कथितो वज्रस्य वर्णोगुणः ॥
”इति राजनिर्घण्टः ॥
* ॥
अपि च ।अथ वज्रस्य नामलक्षणगुणाः ।“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः ।स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियोमतः ।पीतो वैश्योऽसितः शूद्रश्चतुर्व्वर्णात्मकश्च सः ॥
रसायने मतो विप्रः सर्व्वसिद्धिप्रदायकः ।क्षत्त्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥
वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् ।शूद्रो नाशयति व्याधीन् वयस्तम्भं करोति च ।पुंस्त्रीनपुंसकाश्चैते लक्षणीयानि लक्षणैः ॥
सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता बृहत्तराः ।पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥
रेखाबिन्दुसमायुक्ताः षडसास्ते स्त्रियः स्मृताः ॥
”षडस्राः षट्कोणाः ।“त्रिकोणाश्च सुदीर्घाश्च ते विज्ञेया नपुंसकाः ॥
तेऽपि स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः ।स्त्रियः कुर्व्वन्ति कायस्य कान्तिं स्त्रीणां सुख-प्रदाः ॥
नपुंसकास्त्ववीर्य्याः स्युरकामाः सत्त्ववर्ज्जिताः ।स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयो-जयेत् ।सर्व्वेभ्यः सर्व्वदा देयाः पुरुषा वीर्य्यवर्द्धनाः ॥
अशुर्द्ध कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा ।पाण्डुतां पङ्गुरत्वञ्च तस्मात् संशोध्य मारयेत् ॥
”मारितस्य वज्रस्य गुणाः ।“आयुः पुष्टिं बलं वीर्य्यं वर्णं सौख्यं करोति च ।सेवितं सर्व्वरोगघ्नं मृतं वज्रं न संशयः ॥
”इति भावप्रकाशः ॥
(अथ वज्रमारणम् ।“त्रिवर्षारूढकार्पासमूलमादाय पेषयेत् ।त्रिवर्षनागवल्ल्यास्तु निजद्रावैः प्रपेषयेत् ॥
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।एवं सप्तपुटेनैव म्रियते कुलिशं ध्रुवम् ॥
”मतान्तरम् ।“कांस्यपात्रे तु भेकस्य मूत्रे वज्रन्तु निःक्षिपेत् ।त्रिःसप्तकृत्वः सन्तप्तं वज्रमेवं मृतं भवेत् ॥
”अथान्यः ।“त्रिःसप्तकृत्वः सन्तप्तं खरमूत्रेण सेचयेत् ।मुद्गरैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्व्वक्रमेण तु ।भस्मी भवति तद्वज्रं वज्रवत् कुरुते तनुम् ॥
आयुष्यं सौख्यजननं बलरूपप्रदन्तथा ।रोगप्नं मृत्युहरणं वज्रभस्म भवत्यलम् ॥
”इति वज्रमारणम् । इति वेद्यकरसेन्द्रसारसंपहेजारणमारणाधिकारे ॥
* ॥
) अन्यच्च । अथवज्रगणना । विष्णुधर्म्मोत्तरे ।“वज्रं मरकतञ्चैव पद्मरागञ्च मौक्तिकम् ।इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् ॥
चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं बलकं तथा ।कर्केतरं पुष्परागं तथा ज्योतीरसं द्बिज ॥
स्फाटिकं राजवर्त्तञ्च तथा राजमतं शुभम् ।सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा ॥
गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज ।धूलीमरकतञ्चैव तुत्थकं सीसमेव च ॥
पीलुं प्रवालकञ्चैव गिरिवज्रञ्च भार्गव ।भुजङ्गमामणिश्चैव तथा वज्रमणिः शुभः ॥
तित्तितञ्च तथा पीत्तं भ्रामरञ्च तथीत्पलम् ।वज्राण्येतानि सर्व्वाणि धार्य्याण्येव महीभृता ॥
सुवर्णप्रतिबद्धानि जयारोग्यसमृद्धये ॥
”इति युक्तिकल्पतरुः ॥
तस्योत्पत्तिपरीक्षामूल्यादि यथा, --“वच्मि परीक्षां रत्नानां बलो नामासुरोऽभ-वत् ।इन्द्राद्या निर्ज्जितास्तेन निर्ज्जेतुं तैर्न शक्यते ॥
”इत्यपक्रम्य ।“महाप्रभावं विबुधैर्यस्माद्बज्रमुदाहृतम् ।वज्रपूर्व्वा परीक्षेयं ततोऽस्माभिः प्रकीर्त्त्यते ॥
तस्यास्थिलेशो निपपात येषुभुवः प्रदेशेषु कथञ्चिदेव ।वज्राणि वज्रायुधनिर्ज्जिगीषो-र्भवन्ति नानाकृतिमन्ति तेषु ॥
हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोषलाः ।वेण्वातटाः ससौवीरा वज्रस्याष्टाविहाकराः ॥
आताम्रा हिमशैलजाश्च शशिभा वेण्वा-तटीयाः स्मृताःसौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौरा-ष्ट्रजाः ।कालिङ्गाः कनकावदातरुचिराः पीतप्रभाःकोषलेश्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीत-प्रभाः ॥
अत्यर्थं लघु वर्णतश्च गुणवत् पार्श्वेषु सम्यक्समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्व्वर्जितम् ।लोकेऽस्मिन् परमाणुमात्रमपि यत् वज्रं क्वचिद्दृश्यतेतस्मिन् देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारंयदि ॥
वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः ।वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव ॥
हरितसितपीतपिङ्गश्यामाताम्राः स्वभावतोरुचिराः ।हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वकावर्णाः ॥
विप्रस्य शङ्खकुमुदस्फटिकावदातःस्यात् क्षत्त्रियस्य शशवभ्रुविलोचनाभः ।वैश्यस्य कान्तकदलीदलसन्निकाशःशूद्रस्य धौतकरवालसमानदीप्तिः ॥
द्वौ वज्रवर्णौ पृथिवीपतीनांसद्भिः प्रतिष्ठौ न तु सार्व्वजन्यौ ।यः स्याज्जवाविद्रुमभङ्गशोणोयो वा हरिद्रारससन्निकाशः ॥
ईशत्वात् सर्व्ववर्णानां गुणवत् सार्व्ववर्णिकम् ।कामतो धारयेद्राजा न त्वन्योऽन्यत् कथञ्चन ॥
अघरोत्तरवृत्त्या हि यादृक् स्याद्वर्णसङ्करः ।ततः कष्टतरो वडी वर्णानां सङ्करो मतः ॥
न च मार्गविभागमात्रवृत्त्याविदुषा वज्रपरिग्रहो विधेयः ।गुणवद्गुणसम्पदां विभूति-र्व्विपरीतो व्यसनोदयस्य हेतुः ॥
एकमपि यस्य शृङ्गंविदलितमवलोक्यते विशीर्णं वा ।गुणवदपि तन्न धार्य्यंवज्रं श्रेयोऽर्थिभिर्भवने ॥
स्फुटिताग्निविशीर्णशृङ्गदेशंमलवर्णैः पृषतैरुपेतमध्यम् ।नहि वज्रभृतोऽति वज्रमाशुश्रियमन्याश्रयलालसां न कुर्य्यात् ॥
यस्यैकदेशः क्षतजावभासोयद्वा भवेल्लोहितवर्णचित्रम् ।न तन्न कुर्य्याद्ध्रियमाणमाशुस्वच्छन्दमृत्योरपि जीवितान्तम् ॥
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्बादशेति च ।उत्तुङ्गसमतीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥
षट्कोटिशुद्धममलं स्फुटतीक्ष्णधारंवर्णान्वितं लघु सुपार्श्वमपेतदोषम् ।इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्ष-मेवंविधं भुवि भवेत् सुलभं न वज्रम् ॥
तीक्ष्णाग्रं विमलमपेतसर्व्वदोषंधत्ते यः प्रयततनुः सदैव वज्रम् ।वृद्धिस्तं प्रतिदिनमेति यावदायुःश्रीसम्पत्सुतधनधान्यगोपशूनाम् ॥
व्यालवह्रिविषव्याघ्रतस्कराम्बुभयानि च ।दूरात्तस्य निवर्त्तन्ते कर्म्माण्याथर्व्वणानि च ॥
यदि वज्रमपेतसर्व्वदोषंविभृयात्तण्डुलविंशतिं गुरुत्वे ।मणिशास्त्रविदो वदन्ति तस्यद्विगुणं रूपकलक्षणमग्र्यं मूल्यम् ॥
त्रिभागहीनार्द्धतदर्द्धशेषंत्रयोदशं त्रिंशदतोऽर्द्धभागाः ।अशीतिभागोऽथ शतांशभागःसहस्रभागोऽल्पसमानयोगः ॥
यत्तण्डुलैर्द्बादशभिः कृतस्यवज्रस्य मूल्यं प्रथमं प्रदिष्टम् ।द्बाभ्यां क्रमाद्धानिमुपागतस्यत्वेकावसानस्य विनिश्चयोऽयम् ॥
न चापि तण्डुलैरेव वज्राणां धारणक्रमः ।अष्टाभिः सर्षपैर्गौरैस्तण्डुलं परिकल्पयेत् ॥
यत्तु सर्व्वगुणैर्युक्तं वज्रं तरति वारिणि ।रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥
अनेनापि हि दोषेण लक्ष्यालक्ष्येण दूषितम् ।स्वमूल्यात् दशमं भागं वज्रं लभति मानवः ॥
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा ।स्वमूल्याच्छतशो भागो वज्रस्य न विधीयते ॥
स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते ।रत्नानां परिकर्म्मार्थं मूल्यं तस्य भवेल्लघु ॥
प्रथमं गुणसम्पदाभ्युपेतंप्रतिबद्धं समुपैति यच्च दोषम् ।अलमाभरणेन तस्य राज्ञोगुणहीनोऽपि मणिर्न भूषणाय ॥
नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूति-मिच्छन्त्या ।अन्यत्र दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च ॥
अयसा पुष्परागेण तथा गोमेदकेन च ।वैदूर्य्यस्फटिकाभ्याञ्च काचैश्चापि पृथग्विधैः ॥
प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला जनाः ।परीक्षा तेषु कर्त्तव्या विद्वद्भिः स्वपरीक्षकैः ॥
क्षारोल्लेखनशालाभिस्तेषां कार्य्यं परीक्षणम् ।पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥
सर्व्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥
गुरुता सर्व्वरत्नानां गौरवाधारकारणम् ।वज्र तान्वैपरीत्येन सूरयः परिचक्षते ॥
जातिरजातिं विलिखन्ति वज्रकुरुविन्दाः ।वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् ।वज्राणि मुक्ता मणयो ये च केचन जातयः ।न तेषां प्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥
तिर्य्यक्क्षतत्वात् केषाञ्चित् कथञ्चिद्यदिदृश्यते ।तिर्य्यगालिख्यमानानां सा पार्श्वेष्वपि हन्यते ॥
यद्यपि विशीर्णकोटिःसबिन्दुरेखान्वितो विवर्णो वा ।तदपि धनधान्यपुत्त्रान्करोति सेन्द्रायुधो वज्रः ।सौदामिनीविस्फुरिताभिरामंराजा यथोक्तं कुलिशं दधानः ।पराक्रमाक्रान्तपरप्रतापःसमस्तसामन्तभुवं भुनक्ति ॥
”इति गारुडे ६८ अध्यायः ॥
वज्रार्थे वैदिकपर्य्यायो यथा । दिद्युत् १ नेमिः २हेतिः ३ नमः ४ पविः ५ सृकः ६ वृकः ७ वधः ८वज्रः ९ अर्कः १० कुत्सः ११ कुलिशः १२ तुजः१३ तिग्मम् १४ मेनिः १५ स्वधितिः १६ सायकः१७ परशुः १८ । इत्यष्टादश वज्रनामानि । इतिवेदनिघण्टौ । २ । २० ॥
वज्रं, (वज गतौ + ऋज्रेन्द्रेति रन् ।)बालकः । धात्री । इति मेदिनी । रे, ६ ॥
काञ्जिकम् । इति धरणिः ॥
वज्रपुष्पम् । इतिशब्दरत्नावली ॥
लौहविशेषः । स च बहुविधोयथा । नीलपिण्डम् १ अरुणाभम् २ मोरकम् ३नागकेशरम् ४ तिन्तिराङ्गम् ५ स्वर्णवज्रम् ६शैवालवज्रम् ७ शोणवज्रम् ८ रोहिणी ९काङ्कोलम् १० ग्रन्थिवज्रकम् ११ मदनाख्यम् १२इत्यादि । तेषां नामानुरूपं चिह्रम् । इतिपुराणम् ॥
अभ्रविशेषः । तस्योत्पत्त्यादियथा, --“पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् ।विस्फूलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् ।त्रेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् ।गगनात् स्खलितं यस्मात् गगनञ्च ततो मतम् ॥
पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम् ।वज्रन्तु वज्रवत् तिष्ठेत् तन्नाग्नौ विकृतिं व्रजेत् ॥
सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् ॥
”इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
