| YouTube Channel

(La)

 
शब्दकल्पद्रुमः
Sanskrit
ळ, शेषलकारः गौडदेशे अस्याकारोच्चारणयो-र्भेदो नास्ति किन्त्वस्याध एकबिन्दुमात्रचिह्नंक्रियते वेदे अस्य उच्चारणस्थाणं जिह्वामूलम् ।देवनागरवर्णमालायां अस्याकारः एवं प्रकारःळ अस्य प्रयगः अग्निमीले हे इन्द्रवोलु चित् इत्यादि ऋग्वेदः
*
तन्त्रे वर्ण-मालाजपे अस्य प्रयोजनम् यथा, --“अनुलोमविलोमेन कॢप्तया वर्णमालया ।आदिलान्त लादि आन्तक्रमेण परमेश्वरि ! ।क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन
”इति मुण्डमालातन्त्रम्
मातृकान्यासेऽपि अस्य प्रयोजनम् तत्प्रमाणंमातृकाशब्दे द्रष्टव्यम्
*
तस्य नामानि यथा, “लः पृथ्वी विमला मेघो अनन्तोऽव्यवहासिता ।व्यापिनी शिवदा केतुर्ज्जगत्सारतरं हठः
ग्लौर्मृडानी वेदार्थसारो नारायणः स्वयम् ।जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी
”इति श्रीनन्दनभट्टाचार्य्यविरचितवर्णाभिधानम्
अपि ।“लकारो विमलो जीवः शिवमूमिर्व्वरानने !
”इति श्रीरुद्रयामले पटले मन्त्राभिधानम्
कोषः श्रीवरदाप्रसादवसुना श्रीशब्दकल्पद्रुमो यश्च श्रीहरिपूर्व्वकेण चरणेनाकल्पितो यत्नतः ।सोऽयं कोविदवारिदैर्बहुगुणैः संसेचितः सन्ततं सन्तोषं नयतु क्षितौ बुधगणान् पेयूषगर्भैः फलैः
रसेन्दुनागोडुपतिप्रमाणे शाके शुभेऽस्मिन् भगवत्प्रसादात् ।नीतः समप्तिं बहुलप्रयासैः शब्दकल्पद्रुम एष कोषः
समाप्तोऽयं शब्दकल्पद्रुमः