| YouTube Channel

लौहः (lauhaH)

 
Wordnet
Sanskrit
Synonyms:
अयः, लोहम्, लोहः, आयसम्, लौहम्, लौहः, कृष्णायसम्, कालायसम्, कृष्णम्, कालम्, तीक्ष्णम्, शस्त्रकम्, पिण्डम्, अश्मसारः, गिरिजम्, गिरिसारः, शिलाजम्, शिलात्मजम्, निशितम्, कान्तः, दृढम्, मलीमसः
noun
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
"अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।"
शब्दकल्पद्रुमः
Sanskrit
लौहः,
पुं,
(लोह एव प्रज्ञाद्यण् ।) लोहः ।इत्यमरटीकायां भरतः
पञ्चविधः ।यथा काञ्चिः पाण्डिः कान्तः ३कालिङ्गः वज्रकः अस्य त्रयोदशविध-संस्काराः यथा शालिघर्षणम् उद्वर्त्तनम् १अम्लभावनम् आतपशोषः निषेकः ५मारणम् दलनम् क्षालनम् सूर्य्यपाकः ९स्थालीपाकः १० चूर्णनम् ११ पुटपाकः १२पाकनिष्पन्नः १३ अस्य गुणाः आयुर्ब्बल-वीर्य्यकामदातृत्वम् रोगनाशित्वम् श्रेष्ठ-तमरसायनत्वञ्च कृष्णवर्णस्य तस्य गुणाः ।शोथशूलार्शःकुष्ठपाण्डुप्रमेहमेदवायु-नाशित्वम् ।वयःस्थैर्य्यचक्षुस्तेजःकारित्वम् सारकत्वम् ।गुरुत्वञ्च शोधितस्यास्य गुणौ सर्व्वरोग-नाशित्वम् मरणनाशित्वञ्च अशुद्धस्य तस्यगुणाः जारणायोग्यत्वम् आयुर्नाशकत्वञ्च ।इति रत्नावल्यादयः
*
(अथास्य शोधनादि-नियमः ।“त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् ।ततः क्वाथे पादशेषे लौहस्य पलपञ्चकम्
कृत्वा तप्ताणि पत्राणि सप्तवारं निषेचयेत् ।ध्रुवं प्रलीयते दोषो गिरिजे लोहसम्भवः
”इति लोहशोधनम्
*
“भानुपाकात्तथा स्थालीपाकाच्च पुटपाकतः ।निरुत्थो जायते लौहो यथोक्तफलदो भवेत्
”इति संक्षिप्तलौहमारणम्
*
“द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् ।कन्यानीरेन संमर्द्द्य यामयुग्मञ्च संपुटे ।पुटेदेवं लौहचूर्णं सप्तधा मारणं व्रजेत्
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
”) अन्यत् लोहशब्दे द्रष्टव्यम्
(छाग-विशेषः यथा, महाभारते १३ ८८ १३ ।“अजेन वापि लौहेन मघास्वेव यतव्रतः ।हस्तिच्छायासु विधिवत् कर्म्म व्यजनवीजितम्
”लोहशब्दार्थोऽप्यत्र
)