| YouTube Channel

लोहार्गल (lohArgala)

 
Monier Williams Cologne
English
लोहार्गल
n.
N.
of a Tīrtha,
Cat.
शब्दकल्पद्रुमः
Sanskrit
लोहार्गलं,
क्ली,
(लोहस्य अर्गलमिव ।) तीर्थ-विशेषः यथा, --वराह उवाच ।“शृणु देवि तत्त्वेन यन्मां त्वं परिपृच्छसि ।गुह्यमन्यच्च वक्ष्यामि महतः कर्म्मणो गतिः
ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः ।म्लेच्छमध्ये वरारोहे हिमवन्तं समाश्रितम्
तत्र लोहार्गलं नाम निवासो मे विधीयते ।गुह्याः पञ्चदशा यत्र समन्तात् पञ्चयोजनम्
सुलभं पुण्ययुक्तानां मम कर्म्मानुसारिणाम् ।तत्र तिष्ठाम्यहं भद्रे ! उदीचीं दिशमास्थितः
तत्र ब्रह्मा रुद्रश्च स्कन्दन्द्रश्च मरुद्गणाः ।आदित्या वसवो रुद्रा अश्विनौ महौजसः
सोमो बृहस्पतिश्चैव ये चान्ये दिवौकसः ।तेषाञ्चैवार्गलं दत्त्वा चक्रं गृह्य महौजसम्
ततो मे दानवाः सर्व्वे क्रमन्तो लोकमुत्तमम् ।मया चैवान्तरं कृत्वा कृत्वा मायाञ्च वैष्णवीम्
शतकोटिसहस्राणि शीघ्रमेव निपातितम् ।एवं लोहार्गलेत्यासीन्नाम मे तच्च कारितम्
एकधारा पतत्यत्र इन्द्रगोपकसन्निभा ।यस्तत्र कुरुते स्नानं सप्तरात्रोषितो नरः
ब्रह्मलोकं समासाद्य ब्रह्मणा सह मोदते ।अथात्र मुञ्चते प्राणानहङ्कारविवर्ज्जितः
ब्रह्मलोकं परित्यज्य मम लोकं प्रपद्यते ।गुह्याख्याने महाभागे क्षेत्रे लोहार्गले मम
सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः
एतत्ते कथितं भद्रे लीहार्गलनिवासिनः ।माहात्म्यं पद्मपत्राक्षि गुह्यं पञ्चमहौजसम् ।मङ्गल्यञ्च पवित्रञ्च मम भक्तसुखावहम्
”इत्यादि वराहपुराणे लोहार्गलमाहात्म्यवर्णनंनामाध्यायः
*
लौहकीलके क्ली स्त्री