| YouTube Channel

लोणारं (loNAraM)

 
शब्दकल्पद्रुमः
Sanskrit
लोणारं,
क्ली,
(लवणं ऋच्छतीति लवण + +अण् पृषोदरादित्वात् साधुः ।) क्षारविशेषः ।तत्पर्य्यायः लवणोत्थम् लवणाकरजम् ३लवणमदः जलजम् लवणक्षारः लवणः ।अस्य गुणाः अत्युष्णत्वम् तीक्ष्णत्वम् पित्त-वृद्धिकारित्वम् क्षारत्वम् ईषल्लवणत्वम् वात-गुल्मादिशूलनाशित्वञ्च इति राजनिर्घण्टः