| YouTube Channel

लोचृ (locR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लोच्
मूलधातुः:
लोचृ
धात्वर्थः:
दर्शने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
लोचते
धातुः:
लोच्
मूलधातुः:
लोचृ
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
(आ)लोचयति-ते
धातुप्रदीपः
Sanskrit
लोचृँ लोचृ दर्शने
- लोचते अलुलोचत् लोचनम् आलोचयतीति लोकृ लोचृ णद कुप तर्क वृतु वृधु भाषार्था इति (37) चौरादिकात् आलोच्य इति ण्यन्ताद् अचो यत् (3/1/97) केवलाद्धि ण्यति घञि कुत्वं स्यात् एरजण्यन्तानामिति तु तन्मतेन यैर् आर्धधातुके (6/4/46) इति णिलोपविधौ (6/4/51) विषयसप्तमीष्यते ।। 162 ।।
क्षीरतरङ्गिणी
Sanskrit
लोचृँ लोचृ दर्शने
लोचते, अलुलोचत् आलोचितः, लोचनम् लोचकः - स्त्रीशिरोवस्त्रम्, शिरस्त्रञ्च चुरादौ भाषार्थः (10223) आलोचयति, आलोचना 164
धातुवृत्तिः
Sanskrit
लोचृँ लोचृ (अर्थः) दर्शने
( लोचते लुलोचे लोचितेत्यादि लुलोचिषते लोलोच्यते लोलोचीति लोलोक्ति लोचयति अलुलोचत् ) ऋदित्वाण्णै चङि ह्रस्वाभावः भाषार्थोयं चुरादौ 162
कृदन्तरूपमाला
Sanskrit
1 {@“लोचृ दर्शने”@} 2 ‘णौ लोचयति भाषार्थे दर्शने शपि लोचते।।’ 3 इति देवः।
लोचकः-चिका, लोचकः-चिका, लुलोचिषकः-षिका, लोलोचकः-चिका
लोचिता-त्री, लोचयिता-त्री, लुलोचिषिता-त्री, लोलोचिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकलोकतिवत् 4 बोध्यानि।
‘लोचकः-स्त्रीशिरोवस्त्रम् शिरस्त्रञ्च’ इति क्षीरतरङ्गिण्याम्।
आलोचितः, लोचनम्, आलोचनम्
ल्युटि- 5 लोचनम्।
प्रासङ्गिक्यः
01
=>
(१५२२)
02
=>
(१-भ्वादिः-१६४। सक। सेट्। आत्म।)
03
=>
(श्लो। ४६)
04
=>
(१५२०)
05
=>
[[आ। ‘सुलोचना यत्र शचीसमप्रभा…।।’ धा। का। १। २४।]]
1 {@“लोचृ भाषार्थः”@} 2 आस्वदीयः।
तेन णिज्विकल्पः।
‘णौ लोचयति भाषार्थे दर्शने शपि लोचते।।’ 3 इति देवः।
लोचकः-चिका, लुलोचयिषकः-षिकः, लोचकः-चिका, लुलोचिषकः-षिका, लोलोचकः-चिका
इत्यादीनि रूपाणि सर्वाणि 4 भौवादिकदर्शनार्थकलोकतिवत् 5 ऊह्यानि।
ण्यन्तप्रकृतिकसन्नन्ते तु भाषार्थकलोकयतिवत् 6 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१५२३)
02
=>
(१०-चुरादिः-१७७८। सक। सेट्। उभ।)
03
=>
(श्लो। ४६)
04
=>
[ण्यन्तप्रकृतिकसन्नन्तं विना]
05
=>
(१५२०)
06
=>
(१५२१)