लेख्यं (lekhyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritलेख्यं, त्रि, (लिख + ण्यत ।) लेखितव्यम्लेखनीयम् । इति लिखधातोः कर्म्मणि यप्रत्य-येन निष्पन्नम् ॥
* ॥
व्यवहाराङ्गकक्रियापादा-ङ्गम् । यथा, --“षाण्मासिकेऽपि समये भ्रान्तिः संजायते यतः ।धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥
लेख्यन्तु द्विविधं प्रोक्तं स्वहस्तान्यकृतन्तथा ।असाक्षिकं साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥
मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः ।तदप्यपार्थं करणमृते त्वाधेः स्थिराश्रयात् ॥
दर्शितं प्रतिकालञ्च पठितं श्रावितञ्च यत् ।लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि च साक्षिषु ॥
”इति व्यवहारतत्त्वे बृहस्पतिः ॥
अपि च । साम्प्रतं लेख्यं निरूप्यते । तत्र लेख्यंद्बिविधम् । शासनं जानपदञ्चेति । शासनं निरू-पितम् । जानपदमभिधीयते । तच्च द्विविधम् ।स्वहस्तकृतमन्यकृतञ्चेति । तत्र स्वहस्तकृतम-साक्षिकम् । अन्यकृतं ससाक्षिकम् । अनयोश्चदेशाचारानुसारेण प्रामाण्यम् । यदाहनारदः ।“लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतन्तथा ।असाक्षिमत् साक्षिमच्च सिद्धिदेशस्थितेस्तयोः ॥
”इति ॥
तत्रान्यकृतमाह ।“यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।लेख्यन्तु साक्षिमत् कार्य्यन्तस्मिन् धनिकपूर्व्वकम् ॥
”धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परंस्वरुच्या इयता कालेनैतावद्देयमितीयती चप्रतिमास्रं वृद्धिरिति निष्णातो व्यवस्थित-स्तस्मिन्नर्थ कालान्तरे विप्रतिपत्तौ वस्तुतत्त्व-निर्णयार्थं लेख्यम् । साक्षिमदुक्तलक्षणं साक्षि-युक्तम् । धनिकः पूर्व्वो यस्मिन् तद्धनिकपूर्व्वकम् ।धनिकनामलेखनपूर्व्वकमिति यावत् कार्य्यंकर्त्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः ।“कर्त्त्रा तु यत् कृतं कार्य्यं सिद्ध्यर्थन्तस्यसाक्षिणः ।प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेख्यकम् ॥
”इति स्मरणात् ॥
आप च ।“समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः ।सब्रह्मचारिकात्मीयपितृनामादिचिह्रितम् ॥
”समा संवत्सरः । मासश्चैत्रादिस्तदर्द्धः पक्षःशुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः ।नाम धनिकाधमर्णयोः । जातिर्ब्राह्मणादिः ।स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्रि-तम् । तथा सब्रह्मचारिकं बह्वृचादिशाखा-प्रयुक्तं गुणनामबह्वृचः कठ इति । आत्मीय-पितृनाम धनिकर्णिकपितृनाम । आदि ग्रह-णाद्द्रव्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्चि-ह्रितं लेख्यं कार्य्यमिति गतेन सम्बन्धः । किञ्च ।“समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।मतं मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितम् ॥
”धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थित-स्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोनामात्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितंतन्ममामुकपुत्त्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे लिखेत् । तथा, --“साक्षिणश्च स्वहस्तेन पितृनामकपूर्व्वकम् ।अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥
”तस्मिन् लेख्ये ये साक्षिणो लिखितास्तेऽप्या-त्मीयपितृनामलेखनपूर्व्वकमस्मिन्नर्थे अहममुकोदेवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुस्तेच समाः संख्यातो गुणतश्च कर्त्तव्याः । यद्य-धमर्णः साक्षी वा लिपिज्ञो न भवति तदाध-मर्णोऽन्यन साक्षी च साक्ष्यन्तरेण सर्व्वसाक्षि-सन्निधौ स्वमतं लेखयेत् । यथाह नारदः ।“अलिपिज्ञ ऋणी यः स्यात् स्वमतन्तु स लेख-येत् ।साक्षी वा साक्षिणान्येन सर्व्वसाक्षी समीपतः ॥
”इति ।अपि च ।“उभयाभ्यर्थ्यते नैतन्मया ह्यमुकसूनुना ।लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥
ततो लेखको धनिकाधमर्णिकाभ्यां उभाभ्यांप्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुनाएतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥
* ॥
साम्प्रतंस्वकृतलेख्यमाह ।“विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितन्तु यत् ।तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥
”यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षि-भिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोप-धिकृतादृते । बलेन बलात्कारेण । उपधिनाछललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्मा-द्विना । नारदोऽप्याह ।“मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् ।तदप्रमाणं लिखितं भयोपधिकृतन्तथेति ॥
”तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशा-चारानुसारेण सवन्धकव्यवहारे वन्धकव्यवहार-युक्तमर्थक्रमापरिलोपन लिप्यक्षरापरिलोपेन चलेख्यमित्येतावन्न पुनः साधुशब्दैरेव प्रातिस्विक-देशभाषयापि लेखनीयम् । यथाह नारदः ।“देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् ।तत् प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥
”इति ॥
विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्ष-णम् । गोप्याधिर्भोग्याधिकालकृतमित्यादि तद्-व्यक्तं विस्पष्टं यस्मिंस्तद्ब्यक्ताधिविधिलक्षणम् ।अविलुप्तक्रमाक्षरं अर्थानाक्रमः क्रमञ्चाक्षराणिच क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिं-स्तदविलुप्तक्रमाक्षरम् । तदेवं भूतं लिखितं प्रमा-णम् । राजशासनवन्न साधुशब्दनियमोऽत्रेत्यभि-प्रायः । लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेवदेयमित्याह । ऋणं लेख्यकृतन्देयं पुरुषैस्त्रिभिरेवतु । यथा साक्ष्यादिकृतमृणन्त्रिभिरेव देयं तथालेख्यकृतमप्याहर्त्तृपुत्त्रतत्पुत्रैस्त्रिभिरेव देयम् ।न चतुर्थादिभिरिति नियम्यते । ननु पुत्त्रपौत्त्रै-रृणन्देयमित्यविशेषेणर्णमात्रन्त्रिभिरेव देयमितिनियतमेव । वाढमस्यैवोत्सर्गस्य पत्रारूढर्ण-विषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदंवचनमारब्धम् । तथा हि । पत्रलक्षणमभिधायकात्यायनेनाभिहितम् । एवं कालमतिक्रान्तंपितॄणान्दाप्यते ऋणमिति । इत्थं पत्रारूढ-मतिक्रान्तकालमपि पितॄणामपि पितॄणां सम्बन्धिदाप्यते । अत्र पितॄणामिति बहुवचननिर्द्देशात्कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्यत इतिप्रतीयते । तथा हारीतेनापि । लेख्यं यस्य भवे-द्धस्ते लाभन्तस्य विनिर्द्दिशेदिति । अत्रापि यस्यहस्ते पत्रमस्ति तस्यर्णलाभ इति सामान्येन चतु-र्थादिभ्योऽप्यृणलाभोऽस्तीति प्रतीयते । अतश्चै-तदाशङ्कानिवृत्त्यर्थं एतद्वचनमिति युक्तम् । वचन-द्बयन्तु योगीश्वरवचनानुसारेण योजनीयम् ॥
* ॥
अस्यापवादमाह । आधिस्तु भुज्यते तावद्-यावत्तन्न प्रदीयते । सवन्धकेऽपि पत्रारूढे ऋणेत्रिभिरेव देयमिति नियमादृणापकरणानधि-कारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते ।यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते ताव-देवाधिर्भुज्यत इति वदता सवन्धकर्णापाकरणेचतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्ययुक्त-मेव फलभोग्यो न नश्यतीति सत्यम् । तदप्ये-तस्मिन्न सत्यपवादवचने पुरुषत्रयविषयमेवस्यादिति सर्व्वमनवद्यम् ॥
* ॥
प्रासङ्गिकं परि-समाप्य प्रकृतमेवानुसरति ।“देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।भिन्ने दग्धऽथवा च्छिन्ने लेख्यमन्यत्तु कारयेत् ॥
”व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्य्यादिति विधी-यते । व्यवहाराक्षमत्वञ्चात्यन्तव्यवहितदेशान्त-रस्थे पत्रे दुर्लेख्ये दुष्टानि सन्दिह्यमानानिअवाचकानि वा लेख्यानि लिप्यक्षराणि पदानिवा यस्मिंस्तद्दुर्लेख्यं तस्मिन्दुर्लेख्ये नष्टे कालवशेनउन्मृष्टे मसीदौर्ब्बल्यादिना मृदिते लिप्यक्षरेहृते तस्करादिभिर्भिन्ने विदलिते दग्धे अग्निनाछिन्ने द्विधा भूते सति द्विर्भवति । एतच्चार्थि-प्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्यान्तुव्यवहाराप्राप्तौ देशान्तरस्थपत्रानयनाध्याना-पेक्षया कालो दातव्यः दुर्द्देशावस्थिते नष्टे वापत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्य्यः ।यथाह नारदः ।“लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।सतस्तत्कालकरणमसतो दृष्टदर्शनम् ॥
” इति ॥
सतो विद्यमानपत्रस्य देशान्तरस्थस्यानयनायकालकरणं कालावधिदातव्यः । असतः पुनर-विद्यमानस्य पत्रस्य पूर्व्वं ये द्रष्टारः साक्षिणस्तै-र्दर्शनं व्यवहारपरिसमापनं कुय्यम् । यदा तुसाक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्य्यःअलेख्यसाक्षिके दैवीं व्यवहारे विनिर्द्दिशेदितिस्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् ।राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति ।इयांस्तु विशेषः ।“राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्रितन्तथा ।राजकीयं स्मृतं लेख्यं सर्व्वेष्वर्थेषु साक्षिमत् ॥
”इति ॥
* ॥
तथान्यदपि राजकीयं जयपत्रं वृद्धवशिष्ठेनोक्तम् ।यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।सावधारणकञ्चैव जयपत्रकमिष्यते ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकमिति ॥
तथा । सभासदोऽपि मतं मेऽमुकपुत्त्रस्येतिस्वहस्तं दद्युः ।“सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।यथा लेख्यविधौ तद्बत् स्वहस्तं दद्युरेव ते ॥
”इति मनुस्मरणात् ॥
सभासदाञ्च परस्परानुमतिव्यतिरेकेण व्यवहारोनिःशल्यो भवति । यथाह नारदः ।“यत्र सभ्यो जनः सर्व्वः साध्ये तदिति मन्यते ।स निःशल्यो विवादः स्यात् सशल्यस्त्वन्यथाभवेत् ॥
” इति ।एतच्चतुष्पाद्व्यवहार एव ।“साधयेत् साध्यमर्थं यच्चतुष्पादान्वितञ्च यत् ।राजमुद्राङ्कितञ्चैव जयपत्रकमिष्यते ॥
”इति स्मरणात् ॥
यत्र तु हीनता यथा ।“अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।आह्रतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
”इति ॥
तत्र न जयपत्रमस्ति अपि तु हीनपत्रमेव तच्चकालान्तरे दण्डप्राप्त्यर्थं जयपत्रं तु प्राङ्न्याय-विधिसिद्ध्यर्थमिति विशेषः । लेख्यसन्देहेनिर्णयनिमित्तान्याह ।“सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखिता-दिभिः ।युक्तिप्राप्तिक्रियाचिह्रसम्बन्धागमहेतुभिः ॥
”शुद्धमशुद्धञ्चेति सन्दिग्धस्य लेख्यस्य शुद्धिःस्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितंयल्लेख्यान्तरन्तेन शुद्धिः । यदि सदृशान्यक्ष-राणि भवन्ति तदा शुद्धिः स्यादित्यर्थः । आदि-शब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसम्बा-दाच्छुद्धिरिति । युक्त्या प्राप्तिर्युक्तिप्राप्तिः । देश-कालपुरुषाणां द्रव्येण सह सम्बब्धः प्राप्तिः ।अस्मिन्देशे अस्मिन् काले अस्य पुरुषस्येदं द्रव्यंघटत इति युक्तिः । प्राप्तिः क्रिया तत्साक्ष्युप-न्यासः । चिह्रमसाधारणं श्रीकारादि । सम्बन्धःअर्थिप्रत्यर्थिनोः पूर्व्वमपि परस्परविश्वासेन दान-ग्रहणादिसम्बन्धः । आगमोऽस्यैतावतोऽर्थस्यसम्भावितः प्राप्त्युपायः । एत एव हेतवः ।एभिर्हेतुभिः सन्दिग्धलेख्यशुद्धिः स्यादित्यन्वयः ।यदा तु लेख्ये सन्देहनिर्णयो न जायते तदासाक्षिभिर्निर्णयः कार्य्यः । यथाह कात्यायनः ।“दूषिते पत्रके वादी तदारूढांस्तु निर्द्दिशेत् ॥
”इति ।साक्षिसम्भवविषयमिदं वचनम् । साक्ष्यसम्भव-विषयन्तु हारीतवचनम् ।“न मयैतत् कृतं पत्रं कूटमेतेन कारितम् ।अधरीकृत्य तत् पत्रमथ दिव्येन निर्णयः ॥
”इति ॥
* ॥
एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदाकृत्स्नमेवर्णन्दातुमसमर्थस्तदा किं कर्त्तव्यमित्यतआह ।“लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् ।धनी चोपगतं दद्यात् स्वहस्तपरिचिह्रितम् ॥
”यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदाशक्त्यनुसारेण दत्त्वा दत्त्वा पूर्व्वकृतस्य लेख्यस्यपृष्ठेऽभिलिखेदेतावन्मया दत्तमिति । उत्तमर्णोवा उपगतं प्राप्तं धनन्तस्यैव लेख्यस्य पृष्ठे दद्या-दभिलिखेदेतावन्मया लब्धमिति । कथं स्वहस्त-परिचिह्रितम् । स्वहस्तलिखिताक्षरचिह्रितम् ।यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्रित-मधमर्णायोत्तमर्णो दद्यात् ॥
* ॥
ऋणे तु कृत्स्नेदत्ते लेख्यं किं कर्त्तव्यमित्यत आह ।“दत्त्वर्णं पाटयेल्लेख्यं शुद्धौ चान्यत्तु कारयेत् ॥
”क्रमेण सकृदेव वा कृत्स्नमृणन्दत्त्वा पूर्व्वकृतंलेख्यम्पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यंनष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यलेख्यंकारयेदुत्तमर्णमधमर्णः पूर्व्वोक्तक्रमेणोत्तमर्णोविशुद्धिपत्रं अधमर्णाय दद्यादित्यर्थः ॥
* ॥
ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्त्तव्य-मित्यत आह ।“साक्षिमच्च भवेत् यद्वा तद्दातव्यं ससाक्षिकम् ।”यत्तु ससाक्षिकमृणन्तत् पूर्व्वसाक्षिसमक्षमेवदद्यात् । इति लेख्यप्रकरणम् । इति मिता-क्षरायां व्यवहाराध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
