| YouTube Channel

लेख्य (lekhya)

 
शब्दसागरः
English
लेख्य
mfn.
(-ख्यः-ख्या-ख्यं) To be written.
2. To be scarified.
n.
(-ख्यं)
1. A letter, an epistle.
2. A manuscript.
3. A drawing, a delinea-
tion.
4. A written accusation or defence.
E.
लिख् to write, ण्यत्
aff.
Capeller Eng
English
लेख्य
a.
to be scratched, written down, or painted.
n.
writing, copying, drawing, painting
picture, written document.
Yates
English
लेख्य (ख्यः-ख्या-ख्यं)
a. That may be
or should be written.
n.
A let-
ter
manuscript
drawing
writ-
ten accusation or defence.
Spoken Sanskrit
English
लेख्य - lekhya -
n.
- document [ computer ]
लेख्य - lekhya -
adj.
- to be drawn or painted
लेख्य - lekhya -
adj.
- to be portrayed
लेख्य - lekhya -
adj.
- painted
लेख्य - lekhya -
adj.
- to be scratched or scraped or scarified
लेख्य - lekhya -
adj.
- to be written down or numbered among
लेख्य - lekhya -
adj.
- to be written or transcribed
लेख्य - lekhya -
adj.
- favourable to the gods
लेख्य - lekhya -
n.
- drawing
लेख्य - lekhya -
n.
- any written document
लेख्य - lekhya -
n.
- act or the art of writing
लेख्य - lekhya -
n.
- written paper
लेख्य - lekhya -
n.
- painting
लेख्य - lekhya -
n.
- inscription
लेख्य - lekhya -
n.
- copying
लेख्य - lekhya -
n.
- file
लेख्य - lekhya -
n.
- writing
लेख्य - lekhya -
n.
- catalogue
लेख्य - lekhya -
n.
- transcribing
लेख्य - lekhya -
n.
- letter
लेख्य - lekhya -
n.
- list of
लेख्य - lekhya -
n.
- delineation
लेख्य - lekhya -
n.
- manuscript
लेख्य - lekhya -
n.
- painted figure
लेख्य-पत्र - lekhya-patra -
n.
- document
लेख्य lekhya
adj.
to be written or transcribed
लेख्य lekhya
adj.
to be portrayed
Wilson
English
लेख्य
mfn.
(-ख्यः-ख्या-ख्यं)
1 To be written.
2 To be scarified.
n.
(-ख्यं)
1 A letter, an epistle.
2 A manuscript.
3 A drawing, a delineation.
4 A written accusation or defence.
E.
लिख to write, ख्यत्
aff.
Apte
English
लेख्य [lēkhya],
a.
[लिख्-ण्यत्] To be drawn, written, painted, scratched
&c.
शैली दारुमयी लौही लेप्या लेख्या सैकती मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता
Bhāg.*
11.27.12.
ख्यम् The art of writing.
Writing, transcribing
चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु ततो लेख्यादिषु तथा शिल्पेषु परंतप
Mb.
* 5.189.1.
A writing, a letter, document, manuscript.
An inscription.
Painting, drawing.
A painted figure.
Comp.
-आरूढ, कृत
a.
committed to writing, done in writing. -गत
a.
painted, drawn in picture. -चूर्णिका a paint-brush, writing-pencil.
पत्रम्, पत्रकम् a writing, letter, document.
a palm-leaf. -प्रसंगः a document. -स्थानम् a writing place.
Apte 1890
English
लेख्य a. [लिख् ण्यत्] To be drawn, written, painted, scratched &c.
ख्यं 1 The art of writing.
2 Writing, transcribing.
3 A writing, a letter, document, manuscript.
4 An inscription.
5 Painting, drawing.
6 A painted figure.
Comp.
आरूढ, कृत a. committed to writing, done in writing.
गत a. painted, drawn in picture.
चूर्णिका a paint-brush, writing-pencil.
पत्रं,
पत्रकं {1} a writing, letter, document. {2} a palm-leaf.
प्रसंगः a document.
स्थानं a writing place.
Monier Williams Cologne
English
1. लेख्य
Nom.
P.
°यति
=
लेखाय g. कण्ड्वादि
2. लेख्य
mfn.
to be scratched or scraped or scarified,
Suśr.
to be written or transcribed,
Yājñ.
MārkP.
to be drawn or painted,
Yājñ.
to be portrayed, painted,
BhP.
to be written down or numbered among (loc. ), Kāvyād.
favourable to the gods (said of Viṣṇu), Viṣṇ. (Sch.)
लेख्य
n.
the act or the art of writing,
MBh.
R.
copying, transcribing,
VarBṛS.
delineation, drawing, painting, ib.
a writing, letter, manuscript,
Kām.
Kathās.
Sāh.
(in law) any written document (esp. a written accusation or defence), Viṣṇ.
Yājñ.
(cf.
IW.
293)
an inscription,
MBh.
xiii, 6330
(गणना-) a catalogue, list of
Ragh.
a painted figure,
BhP.
Monier Williams 1872
English
1. लेख्य, Nom. P. लेख्यति, &c., = लेखाय
above.
2. लेख्य, अस्, आ, अम्, to be scratched or scraped,
to be scarified
to be written or transcribed, proper
to be written
to be drawn or painted
portrayed,
painted
to be written down or numbered among
(loc.)
(अम्), n. writing, the art of writing
copying,
transcribing
delineation, drawing, painting
a writ-
ing, document, letter, manuscript
a written accusa-
tion or defence
an inscription
a painted figure.
—लेख्य-कृत, अस्, आ, अम्, done in writing, signed,
executed.
—लेख्य-गत, अस्, आ, अम्, represented
in painting, painted.
—लेख्य-चूर्णिका, f. a writing-
pencil, drawing-pencil, paint-brush.
—लेख्य-पत्त्र
or लेख्य-पत्त्रक, अस्, m. the palmyra or palm
tree
(अम्), n. a palm leaf for writing on
a written
paper, writing, letter.
—लेख्य-प्रसङ्ग, अस्, m.
a written contract, record, document.
—लेख्य-
मय, अस्, ई, अम्, delineated, painted.
—लेख्य-
स्थान, अम्, n. a writing place, office.
—लेख्या-
रूढ (°य-आर्°), अस्, आ, अम्, committed to writing,
recorded.
Macdonell
English
लेख्य lekh-ya, fp. to be scarified
written 🞄(down)
painted
depicted, painted
to 🞄be counted (—°)
n.
(art of) writing
transcription
🞄drawing, painting
written document, 🞄letter
inscription
painted figure
🞄—° (with gaṇanā-) = catalogue, roll of (—°): 🞄-gata, pp. painted
-pattra,
n.
document, 🞄letter
-maya,
a.
painted
-rūpa,
a.
id..
Apte Hindi
Hindi
लेख्य
वि* - लिख्+ण्यत्
"अंकित किये जाने के योग्य, लिखे जाने योग्य, रंग भरे जाने योग्य, खुरचे जाने योग्य"
लेख्यम्
नपुं*
- -
लिखने की कला
लेख्यम्
नपुं*
- -
"लिखना, प्रतिलिपि करना"
लेख्यम्
नपुं*
- -
"लेख् पत्र, दस्तावेज, हस्तलेख"
लेख्यम्
नपुं*
- -
शिलालेख
लेख्यम्
नपुं*
- -
"चित्रण, रेखांकण"
लेख्यम्
नपुं*
- -
चित्रित आकृति
L R Vaidya
English
leKya {% n. %} 1. Writing, transcribing
2. a writing, a letter, a manuscript
3. an inscription
4. the art of writing
5. painting, drawing
6. a painted figure.
भूतसङ्ख्या
Sanskrit
६, अङ्ग, अब्द, अराति अरि, ऋतु, काय, कारक, कार्तिक, काल, कुमार, कुमारवदन, कृत्तिका, कोष, क्ष्माखण्ड, खर, गुहक, गुहवक्त्र, गुहास्य, चक्रार्ध, चमू, चरक, जीव, तर्क, दर्शन, द्रव्य, भार्ध, मासार्ध, रस, राग, रासभ, रिपु, लेख्य, लेश्या, वर्ण, शक्ति, शास्त्र, शिलीमुखपद, शिशु, षट्, षण्मुख, समास, सेना, स्कन्द, स्वाद
Anekartha-Dvani-Manjari
Sanskrit
अङ्क
पु
अङ्क, युयुत्सा, उत्सङ्ग, लेख्य, लक्ष्म
युयुत्सोत्सङ्गयोरङ्कः स्यादङ्को लेख्यलक्ष्मयोः
verse 2.1.1.17
page 0009
Wordnet
Sanskrit
Synonyms:
लेख्य
adjective
लेखितुं योग्यः।
"लेखकः लेख्यस्य विषयस्य अन्वेषणं करोति।"
Synonyms:
लेख्य
adjective
यस्य लेखनं भविष्यति।
"लेख्यः विषयः क्लिष्टः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
लेख्यं, त्रि, (लिख + ण्यत ।) लेखितव्यम्लेखनीयम् इति लिखधातोः कर्म्मणि यप्रत्य-येन निष्पन्नम्
*
व्यवहाराङ्गकक्रियापादा-ङ्गम् यथा, --“षाण्मासिकेऽपि समये भ्रान्तिः संजायते यतः ।धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा
लेख्यन्तु द्विविधं प्रोक्तं स्वहस्तान्यकृतन्तथा ।असाक्षिकं साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः
मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः ।तदप्यपार्थं करणमृते त्वाधेः स्थिराश्रयात्
दर्शितं प्रतिकालञ्च पठितं श्रावितञ्च यत् ।लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि साक्षिषु
”इति व्यवहारतत्त्वे बृहस्पतिः
अपि साम्प्रतं लेख्यं निरूप्यते तत्र लेख्यंद्बिविधम् शासनं जानपदञ्चेति शासनं निरू-पितम् जानपदमभिधीयते तच्च द्विविधम् ।स्वहस्तकृतमन्यकृतञ्चेति तत्र स्वहस्तकृतम-साक्षिकम् अन्यकृतं ससाक्षिकम् अनयोश्चदेशाचारानुसारेण प्रामाण्यम् यदाहनारदः ।“लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतन्तथा ।असाक्षिमत् साक्षिमच्च सिद्धिदेशस्थितेस्तयोः
”इति
तत्रान्यकृतमाह ।“यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।लेख्यन्तु साक्षिमत् कार्य्यन्तस्मिन् धनिकपूर्व्वकम्
”धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परंस्वरुच्या इयता कालेनैतावद्देयमितीयती चप्रतिमास्रं वृद्धिरिति निष्णातो व्यवस्थित-स्तस्मिन्नर्थ कालान्तरे विप्रतिपत्तौ वस्तुतत्त्व-निर्णयार्थं लेख्यम् साक्षिमदुक्तलक्षणं साक्षि-युक्तम् धनिकः पूर्व्वो यस्मिन् तद्धनिकपूर्व्वकम् ।धनिकनामलेखनपूर्व्वकमिति यावत् कार्य्यंकर्त्तव्यम् उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः ।“कर्त्त्रा तु यत् कृतं कार्य्यं सिद्ध्यर्थन्तस्यसाक्षिणः ।प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेख्यकम्
”इति स्मरणात्
आप ।“समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः ।सब्रह्मचारिकात्मीयपितृनामादिचिह्रितम्
”समा संवत्सरः मासश्चैत्रादिस्तदर्द्धः पक्षःशुक्लः कृष्णो वा अहस्तिथिः प्रतिपदादिः ।नाम धनिकाधमर्णयोः जातिर्ब्राह्मणादिः ।स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्रि-तम् तथा सब्रह्मचारिकं बह्वृचादिशाखा-प्रयुक्तं गुणनामबह्वृचः कठ इति आत्मीय-पितृनाम धनिकर्णिकपितृनाम आदि ग्रह-णाद्द्रव्यजातिसंख्याचारादेर्ग्रहणम् एतैश्चि-ह्रितं लेख्यं कार्य्यमिति गतेन सम्बन्धः किञ्च ।“समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।मतं मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितम्
”धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थित-स्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोनामात्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितंतन्ममामुकपुत्त्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे लिखेत् तथा, --“साक्षिणश्च स्वहस्तेन पितृनामकपूर्व्वकम् ।अत्राहममुकः साक्षी लिखेयुरिति ते समाः
”तस्मिन् लेख्ये ये साक्षिणो लिखितास्तेऽप्या-त्मीयपितृनामलेखनपूर्व्वकमस्मिन्नर्थे अहममुकोदेवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुस्तेच समाः संख्यातो गुणतश्च कर्त्तव्याः यद्य-धमर्णः साक्षी वा लिपिज्ञो भवति तदाध-मर्णोऽन्यन साक्षी साक्ष्यन्तरेण सर्व्वसाक्षि-सन्निधौ स्वमतं लेखयेत् यथाह नारदः ।“अलिपिज्ञ ऋणी यः स्यात् स्वमतन्तु लेख-येत् ।साक्षी वा साक्षिणान्येन सर्व्वसाक्षी समीपतः
”इति ।अपि ।“उभयाभ्यर्थ्यते नैतन्मया ह्यमुकसूनुना ।लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्
ततो लेखको धनिकाधमर्णिकाभ्यां उभाभ्यांप्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुनाएतल्लेख्यं लिखितमित्यन्ते लिखेत्
*
साम्प्रतंस्वकृतलेख्यमाह ।“विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितन्तु यत् ।तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते
”यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षि-भिर्विनापि प्रमाणं स्मृतं मन्वादिभिः बलोप-धिकृतादृते बलेन बलात्कारेण उपधिनाछललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्मा-द्विना नारदोऽप्याह ।“मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् ।तदप्रमाणं लिखितं भयोपधिकृतन्तथेति
”तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशा-चारानुसारेण सवन्धकव्यवहारे वन्धकव्यवहार-युक्तमर्थक्रमापरिलोपन लिप्यक्षरापरिलोपेन चलेख्यमित्येतावन्न पुनः साधुशब्दैरेव प्रातिस्विक-देशभाषयापि लेखनीयम् यथाह नारदः ।“देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् ।तत् प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम्
”इति
विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्ष-णम् गोप्याधिर्भोग्याधिकालकृतमित्यादि तद्-व्यक्तं विस्पष्टं यस्मिंस्तद्ब्यक्ताधिविधिलक्षणम् ।अविलुप्तक्रमाक्षरं अर्थानाक्रमः क्रमञ्चाक्षराणिच क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिं-स्तदविलुप्तक्रमाक्षरम् तदेवं भूतं लिखितं प्रमा-णम् राजशासनवन्न साधुशब्दनियमोऽत्रेत्यभि-प्रायः लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेवदेयमित्याह ऋणं लेख्यकृतन्देयं पुरुषैस्त्रिभिरेवतु यथा साक्ष्यादिकृतमृणन्त्रिभिरेव देयं तथालेख्यकृतमप्याहर्त्तृपुत्त्रतत्पुत्रैस्त्रिभिरेव देयम् ।न चतुर्थादिभिरिति नियम्यते ननु पुत्त्रपौत्त्रै-रृणन्देयमित्यविशेषेणर्णमात्रन्त्रिभिरेव देयमितिनियतमेव वाढमस्यैवोत्सर्गस्य पत्रारूढर्ण-विषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदंवचनमारब्धम् तथा हि पत्रलक्षणमभिधायकात्यायनेनाभिहितम् एवं कालमतिक्रान्तंपितॄणान्दाप्यते ऋणमिति इत्थं पत्रारूढ-मतिक्रान्तकालमपि पितॄणामपि पितॄणां सम्बन्धिदाप्यते अत्र पितॄणामिति बहुवचननिर्द्देशात्कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्यत इतिप्रतीयते तथा हारीतेनापि लेख्यं यस्य भवे-द्धस्ते लाभन्तस्य विनिर्द्दिशेदिति अत्रापि यस्यहस्ते पत्रमस्ति तस्यर्णलाभ इति सामान्येन चतु-र्थादिभ्योऽप्यृणलाभोऽस्तीति प्रतीयते अतश्चै-तदाशङ्कानिवृत्त्यर्थं एतद्वचनमिति युक्तम् वचन-द्बयन्तु योगीश्वरवचनानुसारेण योजनीयम्
*
अस्यापवादमाह आधिस्तु भुज्यते तावद्-यावत्तन्न प्रदीयते सवन्धकेऽपि पत्रारूढे ऋणेत्रिभिरेव देयमिति नियमादृणापकरणानधि-कारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते ।यावच्चतुर्थेन पञ्चमेन वा ऋणं दीयते ताव-देवाधिर्भुज्यत इति वदता सवन्धकर्णापाकरणेचतुर्थादेरप्यधिकारो दर्शितः नन्वेतदप्ययुक्त-मेव फलभोग्यो नश्यतीति सत्यम् तदप्ये-तस्मिन्न सत्यपवादवचने पुरुषत्रयविषयमेवस्यादिति सर्व्वमनवद्यम्
*
प्रासङ्गिकं परि-समाप्य प्रकृतमेवानुसरति ।“देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।भिन्ने दग्धऽथवा च्छिन्ने लेख्यमन्यत्तु कारयेत्
”व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्य्यादिति विधी-यते व्यवहाराक्षमत्वञ्चात्यन्तव्यवहितदेशान्त-रस्थे पत्रे दुर्लेख्ये दुष्टानि सन्दिह्यमानानिअवाचकानि वा लेख्यानि लिप्यक्षराणि पदानिवा यस्मिंस्तद्दुर्लेख्यं तस्मिन्दुर्लेख्ये नष्टे कालवशेनउन्मृष्टे मसीदौर्ब्बल्यादिना मृदिते लिप्यक्षरेहृते तस्करादिभिर्भिन्ने विदलिते दग्धे अग्निनाछिन्ने द्विधा भूते सति द्विर्भवति एतच्चार्थि-प्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्यान्तुव्यवहाराप्राप्तौ देशान्तरस्थपत्रानयनाध्याना-पेक्षया कालो दातव्यः दुर्द्देशावस्थिते नष्टे वापत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्य्यः ।यथाह नारदः ।“लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।सतस्तत्कालकरणमसतो दृष्टदर्शनम्
इति
सतो विद्यमानपत्रस्य देशान्तरस्थस्यानयनायकालकरणं कालावधिदातव्यः असतः पुनर-विद्यमानस्य पत्रस्य पूर्व्वं ये द्रष्टारः साक्षिणस्तै-र्दर्शनं व्यवहारपरिसमापनं कुय्यम् यदा तुसाक्षिणो सन्ति तदा दिव्येन निर्णयः कार्य्यःअलेख्यसाक्षिके दैवीं व्यवहारे विनिर्द्दिशेदितिस्मरणात् एतच्च जानपदं व्यवस्थापत्रम् ।राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति ।इयांस्तु विशेषः ।“राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्रितन्तथा ।राजकीयं स्मृतं लेख्यं सर्व्वेष्वर्थेषु साक्षिमत्
”इति
*
तथान्यदपि राजकीयं जयपत्रं वृद्धवशिष्ठेनोक्तम् ।यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।सावधारणकञ्चैव जयपत्रकमिष्यते
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकमिति
तथा सभासदोऽपि मतं मेऽमुकपुत्त्रस्येतिस्वहस्तं दद्युः ।“सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।यथा लेख्यविधौ तद्बत् स्वहस्तं दद्युरेव ते
”इति मनुस्मरणात्
सभासदाञ्च परस्परानुमतिव्यतिरेकेण व्यवहारोनिःशल्यो भवति यथाह नारदः ।“यत्र सभ्यो जनः सर्व्वः साध्ये तदिति मन्यते ।स निःशल्यो विवादः स्यात् सशल्यस्त्वन्यथाभवेत्
इति ।एतच्चतुष्पाद्व्यवहार एव ।“साधयेत् साध्यमर्थं यच्चतुष्पादान्वितञ्च यत् ।राजमुद्राङ्कितञ्चैव जयपत्रकमिष्यते
”इति स्मरणात्
यत्र तु हीनता यथा ।“अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।आह्रतप्रपलायी हीनः पञ्चविधः स्मृतः
”इति
तत्र जयपत्रमस्ति अपि तु हीनपत्रमेव तच्चकालान्तरे दण्डप्राप्त्यर्थं जयपत्रं तु प्राङ्न्याय-विधिसिद्ध्यर्थमिति विशेषः लेख्यसन्देहेनिर्णयनिमित्तान्याह ।“सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखिता-दिभिः ।युक्तिप्राप्तिक्रियाचिह्रसम्बन्धागमहेतुभिः
”शुद्धमशुद्धञ्चेति सन्दिग्धस्य लेख्यस्य शुद्धिःस्वहस्तलिखितादिभिः स्यात् स्वहस्तेन लिखितंयल्लेख्यान्तरन्तेन शुद्धिः यदि सदृशान्यक्ष-राणि भवन्ति तदा शुद्धिः स्यादित्यर्थः आदि-शब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसम्बा-दाच्छुद्धिरिति युक्त्या प्राप्तिर्युक्तिप्राप्तिः देश-कालपुरुषाणां द्रव्येण सह सम्बब्धः प्राप्तिः ।अस्मिन्देशे अस्मिन् काले अस्य पुरुषस्येदं द्रव्यंघटत इति युक्तिः प्राप्तिः क्रिया तत्साक्ष्युप-न्यासः चिह्रमसाधारणं श्रीकारादि सम्बन्धःअर्थिप्रत्यर्थिनोः पूर्व्वमपि परस्परविश्वासेन दान-ग्रहणादिसम्बन्धः आगमोऽस्यैतावतोऽर्थस्यसम्भावितः प्राप्त्युपायः एत एव हेतवः ।एभिर्हेतुभिः सन्दिग्धलेख्यशुद्धिः स्यादित्यन्वयः ।यदा तु लेख्ये सन्देहनिर्णयो जायते तदासाक्षिभिर्निर्णयः कार्य्यः यथाह कात्यायनः ।“दूषिते पत्रके वादी तदारूढांस्तु निर्द्दिशेत्
”इति ।साक्षिसम्भवविषयमिदं वचनम् साक्ष्यसम्भव-विषयन्तु हारीतवचनम् ।“न मयैतत् कृतं पत्रं कूटमेतेन कारितम् ।अधरीकृत्य तत् पत्रमथ दिव्येन निर्णयः
”इति
*
एवं शोधिते पत्रे ऋणे दातव्ये प्राप्ते यदाकृत्स्नमेवर्णन्दातुमसमर्थस्तदा किं कर्त्तव्यमित्यतआह ।“लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् ।धनी चोपगतं दद्यात् स्वहस्तपरिचिह्रितम्
”यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदाशक्त्यनुसारेण दत्त्वा दत्त्वा पूर्व्वकृतस्य लेख्यस्यपृष्ठेऽभिलिखेदेतावन्मया दत्तमिति उत्तमर्णोवा उपगतं प्राप्तं धनन्तस्यैव लेख्यस्य पृष्ठे दद्या-दभिलिखेदेतावन्मया लब्धमिति कथं स्वहस्त-परिचिह्रितम् स्वहस्तलिखिताक्षरचिह्रितम् ।यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्रित-मधमर्णायोत्तमर्णो दद्यात्
*
ऋणे तु कृत्स्नेदत्ते लेख्यं किं कर्त्तव्यमित्यत आह ।“दत्त्वर्णं पाटयेल्लेख्यं शुद्धौ चान्यत्तु कारयेत्
”क्रमेण सकृदेव वा कृत्स्नमृणन्दत्त्वा पूर्व्वकृतंलेख्यम्पाटयेत् यदा तु दुर्गदेशावस्थितं लेख्यंनष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यलेख्यंकारयेदुत्तमर्णमधमर्णः पूर्व्वोक्तक्रमेणोत्तमर्णोविशुद्धिपत्रं अधमर्णाय दद्यादित्यर्थः
*
ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्त्तव्य-मित्यत आह ।“साक्षिमच्च भवेत् यद्वा तद्दातव्यं ससाक्षिकम् ।”यत्तु ससाक्षिकमृणन्तत् पूर्व्वसाक्षिसमक्षमेवदद्यात् इति लेख्यप्रकरणम् इति मिता-क्षरायां व्यवहाराध्यायः
वाचस्पत्यम्
Sanskrit
लेख्य
त्रि०
लिख--ण्यत् लेखनीये व्यवहारे स्वत्वाढ्यावेदके पत्रभेदे
न०
तल्लक्षणादि वीरमि० उक्तं यथा“अथ लेख्यं निरूप्यते तत्र वृहस्पतिः “साक्षिणा-मेष निर्दिष्टः संख्यालक्षणनिश्चयः लिखित-स्याधुना वच्मि विधानमनुपूर्वशः पाण्मासिकेऽपिसमये भ्रान्तिः सञ्जायते नृणाम् पात्राक्षराणिसृष्टानि पत्रारूढान्यतः पुरा राजलेख्यं स्थानकृतंस्वहस्तलिखितन्तथा लेख्यन्तु त्रिविधम्प्रोक्तं भिन्नन्त-द्वहुथा पुनः भागदानक्रयाधानसंविद्दास ऋणादिभिः ।सप्तधा लौकिकं लेख्यन्त्रिविधं राजशासनम्” मरीचिरपि “स्थावरे विक्रयाधाने विभागे दान एव लिखिते-नाप्नुयात् सिद्धिमविसंवादमेव च” विभागो दायभागःआधानमाधीकरणश संवित्समयः आदिशब्देन विशुद्ध्या-दिग्रहणम् भागपत्रादीनां लक्षणमाह वृहस्पतिः“भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् विभागपत्रं कुर्वन्ति भागलेख्यन्तदुच्यते भूमिन्दत्त्वा तु यत्पत्रंकुर्याच्चन्द्रार्ककालिकम् अनाच्छेद्यमनाहार्य्यन्दान-लेख्यन्तु तद्विदुः गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्या-क्षरान्वितम् पत्रं कारयते यत्तु क्रयलेख्यन्तदुच्यते ।जङ्गमं स्थावरम्बन्धं दत्त्वा लेख्यङ्करोति यः गोप्य-भोग्यक्रियायुक्तमाधिलेख्य न्तदुच्यते ग्रामे देशे चयत्कुर्य्यात् सत्यलेख्यम्परस्परम् राजाविरोधिधर्म्लार्थंसंवित्पत्र वदन्ति तत् वस्त्रान्नहीनः कान्तारे लि-खितं कुरुते तु यः कर्म्माणि ते करिष्यामि दासपत्र ६-न्तदुच्यते धनं वृद्ध्व्या गृहीत्वा तु स्वयं कुर्य्याच्च कार-येत् उद्धारपत्रन्तत्प्रोक्तमृणलेख्यं मनीषिभिरिति” ।विशुद्धिपत्रमुक्तं कात्यायनेन “अभिशापे समुत्तीर्णे प्राय-श्चित्ते कृते बुधैः विशुद्धिपत्रकन्देयन्तेभ्यः साक्षिसमन्वितम्” सन्धिपत्रमप्याह एव “उत्तमेषु समस्तेषु अभि-शापे समागते वृत्तानुवादलेख्यं यत् तज्ज्ञेयं सान्धपत्रकम्” अन्वाधिपत्रमाह प्रजापतिः धनी धनेनतेनैव परमाधिं नयेद्यदि कृत्वा तदाधिलिखितं पूर्वंवाऽस्य समर्पयेत्” पूर्वमाधिपत्रम् सीमापत्रमप्याहकात्यायनः सीमाविवादे निर्णीते सीमापत्रं विधीयते”इति ऋणशोधने कृते ऋणपत्रनाशादौ सतिप्राप्तिपत्रमुत्तमर्णेवाधसर्णाय देयमित्याह याज्ञबल्क्यः“दत्त्वर्णम्पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत्” अत्रलौकिक सप्तविधं लेख्यं स्वकृतान्यकृतभेदेन द्विविधन्नारदेनोक्तम् “लेख्यन्तु द्विविधं प्रोक्तं स्यहस्तान्यकृतन्तथा” ।स्वकृते साक्ष्यनियमोऽम्यकृते तन्नियम इत्याहोत्तरार्द्धेनस एव “असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयो-रिति” असाक्षिमदपीत्यर्थः याज्ञवल्क्यः “विनापिसाक्षिभिर्लेख्यं स्वहस्तलिखितञ्च यत् तत्प्रमाणं स्मृतंसर्वं बलोपधिकृताछते इत्यपिशब्दः प्रागुक्तबलोप-धिकृतत्वपर्थ्यदासः सर्वलेख्यविषयो स्वकृतमात्र-विषयः तथा मनुः “बलाद्भुक्तं बलाद्दत्तं बलाद्यच्चापि लेखितम् सर्वान् बलकृतानर्थानकृतान्ममु-रब्रवीत्” नारदोऽपि “मत्ताभियुक्तस्त्रीबालवलात्-कारकृतञ्च यत् तदपमाणं लिखितं भयोपधिकृत-न्तथेति” अन्यकृते विशेषान्तरमाह योगीश्वरः“यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् लेख्यन्तुसाक्षिमत्कार्य्यं तस्मिन्धनिकपूर्वकम् समामासतद-र्द्धाहर्नामजातिस्वगोत्रकैः सब्रह्मचारिकात्मीयपितृ-नामा दिचिह्नितम्” धनिकनामपूर्वकमित्यनेनोत्तमर्ण-नामोपरि लेख्यमधमर्णनाम तदध इत्यर्थः एतदधमर्ण-पत्रादिविषयमन्यत्राऽसम्भवात् समामासादि यथासम्भवमन्यत्रापि सब्रह्मचारिकम्बह्वृचादिशाखाप्रयुक्त-गुणनाम वह्वृचः कठ इत्यादि वशिष्ठोऽपि “कालंनिवेश्य राजानं स्थानं निवसनन्तथा दायकं ग्राहकञ्चैवपितृनाम्ना संयुतम् जातिडोत्रञ्च शाखाञ्च द्रव्य-माधिं ससङ्ख्यकम् वृद्धिं ग्राहकहस्तञ्च विदितार्थौ चसाक्षिणौ” स्थानं जनपदः निवसनं पुरग्रामादिकंग्राहकोऽधमर्णः तन्निवेशनप्रकारमाह योगीश्वरः“समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशवेत् मतंमेऽमुकपुत्त्रस्य यदत्रोपरि लेखितमिति” साक्षिणा-वित्यनेन द्वयोरम्यनुज्ञानात् अवरत्वनियमो नात्रेत्युक्त-मेकस्तु भवत्येवेति अत्र साक्षिलेखकाभ्यां स्यहस्त-चिह्नं कार्य्यमित्यप्याह एव “साक्षिणश्च स्यहस्तेनपिवृनामकपूर्वकम् अत्राहममुकः साक्षी लिक्षेयुरितिते समाः उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुनालिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” समाइत्यनेन गुणसाम्य सङ्ख्यासाम्यञ्च वैषम्यानियमाय विव-क्षितम् असमा इत्यकारप्रश्लेषस्तु वैषम्यस्य सामान्यतएव साक्षिषु प्राप्तेर्नोपादेयः ऋणिसाक्षिणोः सर्वथालिप्यनभिज्ञत्वे नारद आह “अलिपिज्ञ ऋणी यःस्यात् स्वमतं तु लेखयेत् साक्षी वा साक्षिणान्येनसर्वसाक्षिसमीपतः इति ।त्रिविधं राजशासनमित्युक्तम् त्रैविध्यं विविनक्ति वृह-स्पतिः “दत्त्वा भूम्यादिकं राजा ताम्रपद्दे पटेऽथ वा ।शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम् मातापित्रो-रात्मनश्च पुण्यायामुकसूनवे दत्तम्मयामुकायाद्य दानंसब्रह्मचारिणे चन्द्रार्कसमकालीनं पुत्त्रपौत्रान्वया-नुगम् अनाच्छेद्यमनाहार्य्यं सर्वभागविवर्जितम् ।दातुः पालयितुः स्वर्ग्यं हर्त्तुर्नरकमेव षष्टिंवर्पसहस्राणि दानाच्छेदफलं लिखेत् ज्ञातं मयेति लि-खित सन्धिविग्रहलेखकैः समुद्रं वर्षमासादिधनाध्यक्षा-क्षरान्वितम् एवंविधं राजकृतं शासनं समुदाहृतम् ।देशादिकं यस्य राजा लिखितेन प्रयच्छति सेवा-शौर्य्यादिना तुष्टः प्रसादलिखित न्तथा पूर्वोत्तरक्रिया-वादनिर्णयान्ते यदा नृपः प्रदद्याज्जयिने लेख्यंजयपत्रं तदुच्यते” सब्रह्मचारिणे अमुकशाखाध्यायिने सर्वभागविवर्जितम् सकलराजपुरुषादिदेयांशरहितम् योगीश्वरः शासनपत्रमाह “भूमिंदत्त्वा निबन्धं वा कृत्वा लेख्यत्तु कारयेत् आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः पटे वा ताम्रपट्टे वास्वमुद्रोपरिचिह्नितम् अभिलेख्यात्मनोऽवंश्यानात्सानञ्चमहीपतिः प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।स्वहस्तकालसम्पन्न शामनं कारयेत् स्थिरमिति” इयन्तिपर्णक्रमुकभारादावियन्ति पर्णक्रमुकादीन्यस्मै देयानीतिराज्ञो नियतदानाज्ञानिबन्धं कारयेत् सन्धिविग्रहाद्यधि-कारिद्वारेत्यर्थात् तथा व्यासः “राज्ञा तु स्वय-मुद्देष्टः सन्धिविग्रहलेखकः ताम्रपट्टे पटे वापिप्रलिखेद्राजशासनमिति” प्रतिगृह्यत इति प्रतिग्रहोभूम्यादिस्तत्परीमाणं प्रतिग्रहपरीमाणं उपसर्गस्य दीर्घोबाहुलकः दीयत इति दानम् भूम्यादि तस्य च्छेदःक्षेत्रादेर्मर्य्यादा तदुपवर्णनं तन्निर्देशम् आत्मवंश्यादी-नभिलिख्येत्यन्वयः इदञ्च साधुशब्दैरेव लेखनीयं नलौकिकवत्तदनियमः तथा संग्रहकारः “राजास्वहस्तचिह्नेन राजादेशेन संयुतम् युक्तं राजाभि-धानेन मण्डितं राजमुद्रया सुलिप्यनपशब्दोक्तिसम्पू-र्णापयवाक्षरम् शासनं राजदत्तं स्यात् सन्धिपिग्रह-लेखकैः” अन्तिमपादोत्तरं लिखितमिति शेषः तस्मि-न्निव लौकिके देशभाषादिप्रतिशेधो नेत्याह नारदः“देशाचाराविरुद्ध यद्व्यक्तापिविधिलक्षणम् तत्प्रमाणंस्मृतं लेख्यमविलुप्तक्रमाक्षरमिति” शासने राज्ञास्वहस्तेनैव स्वसम्मतं लेख्यमित्यप्याह व्यासः “सन्निवेशंप्रमाणञ्च स्वहस्तेन लिखेत्स्वयम् मतम्मेऽमुकपुत्त्रस्यअमुकस्य महीपतेः” सन्निवेशं प्रमाणञ्चेत्यस्य गूर्ववाक्येप्रलिखेदित्यत्रान्वयः तयोराजस्वहस्तलिखनानियमात् ।इदञ्च राज्ञा प्रतिग्रहीत्रे समर्पणीयमित्याह विष्णुः“पटे वा ताम्रपट्टे वा लिखितं स्वमुद्राङ्कमागामिनृपतिपरिज्ञानार्थे दद्यादिति” अतएप दत्तापहार-दोषप्रतिपादनमपि भाविनृपप्रत्यायनार्थं तत्रावश्यक-मित्यप्याह व्यासः “षष्टिवर्षसहस्राणि दानच्छेद-फलत्तथा आगामिनृपसामन्तबोधनायाभिलेखयेत्”इति पष्टिवर्षसहस्राणीत्यादि पुराणवचतप्रसिद्धन्दा-गाच्छेदयोः दानापहारयोः स्वर्गाद्रिनरकादिफलंलेखयेद्राजेत्यर्थः ।”
Burnouf
French
लेख्य लेख्य pf. ps. de लिख्। -- S.
n.
lettre missive
manuscrit
pièce écrite d'un procès.
Esquisse, dessin.
लेख्यचूर्णिका
f.
pinceau.
लेख्यपत्रक
m.
palmier [dont les feuilles servent de papier].
लेख्यस्थान
n.
bureau, lieu l'on fait des écritures.
Stchoupak
French
लेख्य-
a. v. peint
à compter parmi
à écrire
nt. fait d'écrire,
de peindre
écrit, lettre, document
liste.
°गत- a. v. représenté en peinture.
°पत्त्र- nt. document écrit, lettre.
°पद्म- nt. lotus peint.
°रूप- a. peint.