| YouTube Channel

लुबि (lubi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लुम्ब्
मूलधातुः:
लुबि
धात्वर्थः:
अदर्शने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लुम्बति
धातुप्रदीपः
Sanskrit
लुबिँ लुबि
मानकरूपान्तरम् - कुबिँ
कुबि अर्दने
- लुम्बति तुम्बति तुम्बी लुम्बयति तुम्बयतीति चुरादिपाठात् ।। 427, 428 ।।
लुबिँ लुबि
मानकरूपान्तरम् - तुबिँ
तुबि
मानकरूपान्तरम् - तुपिँ
तुपि अर्द्दने
- लुम्बयति तुम्बयति तुम्बी तुम्पयति 117-119
क्षीरतरङ्गिणी
Sanskrit
लुबिँ लुबि
मानकरूपान्तरम् - तुबिँ
तुबि अर्दने
- लुम्बयति प्रवासफललुम्बिभिः तुम्बयति तुम्बी, तुम्बकः तुपि इति दौर्गाः चान्द्रे त्रयोऽपि भ्वादौ सिद्धाः 115, 116
धातुवृत्तिः
Sanskrit
लुबिँ लुबि
मानकरूपान्तरम् - तुबिँ
तुबि (अर्थः) अर्दने
(लुम्बति तुम्बतीत्यादि तुम्बी) अलाबूः गौरादित्वान् ङीष् 425
लुबिँ लुबि
मानकरूपान्तरम् - तुबिँ
तुबि (अर्थः) अदर्शने
अर्दन इति मैत्रेयः ( लुम्बयति तुम्बयति ) अनयोरिदित्त्वादेव लुम्बति तुम्बतीति सिद्धेरर्दनेऽर्थे भ्वादौ पाठो व्यर्थः स्यात् इहार्शनेऽर्थेत्त्वर्थभेदात्सोपि सार्थकः 121-122
कृदन्तरूपमाला
Sanskrit
1 {@“लुबि अर्दने”@} 2 ‘लुम्बयेत् तुम्बयेदर्दे शपि लुम्बति तुम्बति।।’ 3 इति देवः।
क्षीरतरङ्गिण्यामयं धातुः दृश्यते।
लुम्बकः-म्बिका, लुम्बकः-लुम्बिका, लुलुम्बिषकः-षिका, लोलुम्बकः-म्बिका
लुम्बिता-त्री, लुम्बयिता-त्री, लुलुम्बिषिता-त्री, लोलुम्बिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुण्ठतिवत् 4 ऊह्यानि।
कर्मणि क्तप्रत्यये 5 परिलुम्बितः इति।
प्रासङ्गिक्यः
01
=>
(१५१२)
02
=>
(१-भ्वादिः-४२७। सक। सेट्। पर।)
03
=>
(श्लो। १३९)
04
=>
(२०९)
05
=>
[[आ। ‘… दिक्कुम्बितेऽर्के परिलुम्बिताम्बुजे।।’ धा। का। १-५५।]]
1 {@“लुबि अदर्शने”@} 2 ‘लुम्बयेद् तुम्बयेदर्दे शपि लुम्बति तुम्बति।।’ 3 इति देवः।
क्षीरतरङ्गिण्यां ‘--अर्दने’ इत्युक्तम्।
देवमैत्रेयौ ‘अर्दने’ इत्येव पठतः।
चुरादिपाठादेव इदित्करणात् लुम्बयति-लुम्बति इति सिद्धेः अर्दनेऽर्थे भ्वादौ पाठोऽस्य व्यर्थः स्यात्।
इह 4 अदर्शनेऽर्थे तु अर्थभेदात् सोऽपि 5 सार्थकः स्यात्।
अत एव ‘अदर्शने’ इत्येव समञ्जसमिति भाति।
लुम्बकः-म्बिका, लुलुम्बयिषकः-षिका, लुम्बकः-म्बिका, लुलुम्बिषकः-षिका, लोलुम्बकः-म्बिका
लुम्बयिता-त्री, लुलुम्बयिषिता-त्री, लुम्बिता-त्री, लुलुम्बिषिता-त्री, लोलुम्बिता-त्री
इत्यादीनि रूपाणि भाषार्थकचौरादिककुंशयतिवत् 6 ऊह्यानि।
कर्मणि क्तप्रत्यये 7 लुम्बितम्-तः इति।
प्रासङ्गिक्यः
01
=>
(१५१३)
02
=>
(१०-चुरादिः-१६५७। अक। सेट्। उभ।)
03
=>
(श्लो। १३९)
04
=>
[चुरादौ]
05
=>
[भ्वादौ पाठः]
06
=>
(२३२)
07
=>
[[B। ‘किं कुम्ब्यते सदसि लुम्बितवैभवोऽहम्…।’ धा। का। ३-२९।]]