| YouTube Channel

लुक्कायित (lukkAyita)

 
शब्दकल्पद्रुमः
Sanskrit
लुक्कायितः, त्रि, (लुक् कायस्य यस्य तादृश इवा-चरतीति लुक्काय + क्विप् ततः क्तः ।)अन्तर्हितः यथा अन्तर्धानं लुक्कायनमितियावत् यथा गुरोरन्तर्द्धत्ते शिशुः निलीयतेयलायते लुक्कायते लुक्कायतीति लुञ्चापनयने-ऽपि लुक् लुक् कायः शरीरं यस्य लुक्कायःततः इव आचरतीति क्वौ साध्यम् इतिकारकटीकायां दुर्गादासः
कर्म्मणि क्तप्रयेननिष्पन्नोऽयम्
वाचस्पत्यम्
Sanskrit
लुक्कायित
त्रि०
लुच्यते लुन्च--अपनयने क्विप् लुक् कायोयस्य तादृश इवाचरति लुक्काय + क्विप्--क्त अन्तर्हितदेहे