| YouTube Channel

लीङ् (lIG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ली
मूलधातुः:
लीङ्
धात्वर्थः:
श्लेषणे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
लीयते
अनुबन्धादिविशेषः:
ओदित्
धातुप्रदीपः
Sanskrit
लीङ् श्लेषणे
- लीयते लिल्ये विलेता विलाता विलेष्यते विलास्यते जटाभिरालापयते घृतं विलीनयति विलाययति विलापयति विलालयति लिलीषते लीनः विलयः विलाय विलीय लीत्वा लीनातीति क्र्य्यादिपाठात् 33
क्षीरतरङ्गिणी
Sanskrit
लीङ् श्लेषणे
- लीयते विलिल्ये लीनः विभाषा लीयतेः (6151) इत्यात्त्वं वा-विलाता विलेता, विलास्यते विलेष्यते निमिमीलिलियां खलचोः प्रतिषेधः (6150 वा0)-दुर्लयः, निलयः प्रलयः, विलयः लियः सम्माननशालीनीकरणयोश्च (1370) इति तङ्-जटाभिरालापयते लियःप्रलम्भनशालीनीकरणयोः णौ नित्यमात्त्वमिष्टम् लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपाटने-घृतं विलीनयति प्रश्लेषनिर्देशाद् ईकारान्तादेव नुगिष्टः, नेह-विलापयति विलाययति श्याद्व्यध (31141) इति णः-विलायः क्र्य्यादौ (932) लिनाति लेष्यति चुरादौ ली द्रवीकरणे (10106) आधृषीयः-विलापयति, विलयति, उल्लापयते 31
धातुवृत्तिः
Sanskrit
लीङ् (अर्थः) श्लेषणे
( लीयते लिल्ये लिल्यिषे लाता, लेता लास्यते, लेष्यते लीयतां लीयस्व, लीयै, अलीयत लीयेत ) आशिषि, ( लासीष्ट लेषीष्ट अलास्त, अलेष्ट ) "विभाषा लीयतेः'' इति विभाषात्वमेज्विषये ल्यपि लिङि त्वयं विकल्पो भवति, तस्य कित्वेनानेज्विषयत्वात् ( लिलीषते ) "इको झल्'' इति कित्त्वान्न गुणात्वविकल्पौ ( लेलीयते लेलेति ) "लीयते'' इति श्तिपा निर्देशाद् आत्वविकल्पो भवति ( विलापयति घृतं, विलीनयति, विलाययति वा ) पूर्ववदात्वविकल्पः तत्रात्वपक्षे "लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने'' इति वा लुगागमः तदभावे पुक् तत्र हि ला इति लाक्षणिकमपि गृह्यते अनात्वे तु नुक् तदभावे वृद्ध्यायौ एकदेशविकृतन्यायेन कृतात्वस्य नुङ् भवति, ली इति ईकारप्रश्लेषेण ईकारान्तस्य तद्विधानात् स्नेहविपातनादन्यत्र नुक्लुकौ भवत इत्यात्वे पुक्, अन्यदा वृद्ध्यायौ ( विलापयति विलाययति ) इति स्यादिषु चिण्वदिटि आत्वपक्षे णेर्लोपे ( विलालिष्यते) इत्यादि अनात्वे ( विलीनिष्यते विलायिष्यते ) इत्यादीति शुद्धेऽटि तु ( विलालयिष्यते, विलापयिष्यते, विलीनयिष्यते विलाययिष्यते ) इत्यादि तदेवमष्ट रूपाणि लुङ्येकवचने तु "चिण्भावकर्मणोः'' इति चिण्यात्वे नुकि तदभावे वृद्धौ ( अलालि अलापि अलीनि अलायि ) इति चातूरूप्यम् द्विवचनादौ सिचि पूर्ववदष्ट रूपाणि कर्मकर्तरि "णिश्रन्थिग्रन्थि'' इति चिणो निषेधाच्चङिद्विर्वचनादावात्वपक्षे ( अलीलयत, अलीलपत ) अन्यदा ( अलीलनत, अलीलयत ) इति चातूरूप्यम् एवं द्विवचनादावपि ( जटाभिरालापयते, अलाययत ) इति वा, पूजामधिगच्छतीत्यर्थः (श्येनो वर्तिकामुल्लापयते) न्यक्करोतीत्यर्थः "लियः सम्माननशालिनीकरणयोश्च'' इत्यनयोश्चकारात् प्रलम्भने चाकर्त्रभिप्रायेऽपि तङ् तत्र सम्माननं पूजनम् तच्च धात्वर्थस्य कर्मतया विषयःतस्य चात्मनेपदसहितेन धातुनोपात्तत्वात् असिमन्विषयेऽकर्मकोऽयं पुत्रीयतिवदित्याहुः शालिनीकरणं न्यक्करणम् प्रलम्भनं मिथ्याफलाख्यानमित्युक्तम् "विभाषा लीयतेः'' इत्यात्वं व्यवस्थितविभाषाविधानात्सम्मानने विकल्पितम्
अन्यत्र नित्यम् ( विलाय, विलीय ) "विभाषा लीयतेः'' इति वाऽऽत्वम् ( विलयः ) अच् (ईषद्विलयः, ) खल् [निमिमील्यां खलचोरात्वप्रतिषेधः] इति वा व्यवस्थितविभाषात्वेन वाऽऽत्वाभावः (लीनः) ली श्लेषण इति क्र्यादौ ली द्रवीकरणे इति चुरादौ 31
कृदन्तरूपमाला
Sanskrit
1 {@“लीङ् श्लेषणे”@} 2 ‘लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
लायकः-यिका, लालकः-लीनकः-निका, लापकः-पिका, लिलीषकः-षिका, लेलीयकः-यिका
लेता-त्री, लालयिता-लीनयिता-लापयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
इत्यादीनि रूपाणि सर्वाणि क्रैयादिकलिनातिवत् 4 ज्ञेयानि।
खल्प्रत्यये-ईषद्विलयः-दुर्विलयः-सुविलयः इति।
प्रासङ्गिक्यः
01
=>
(१४९४)
02
=>
(४-दिवादिः-११३९। अक। अनि। आत्म।)
03
=>
(श्लो। १८)
04
=>
(१४९२)