| YouTube Channel

लालनं (lAlanaM)

 
शब्दकल्पद्रुमः
Sanskrit
लालनं,
क्ली,
(लल् + णिच् + ल्युट् ।) अत्यन्त-स्नेहकरणम् प्रेमपूर्व्वकवालकादरणम् ।सोहाग इति भाषा लड कोपसेवे उपसेवइह अत्यन्तपालनम् क, लालयेत् पञ्च वर्षाणिपुत्त्रमिति अत्र डलयोरेकत्वाल्लत्वम् इतिकविकल्पद्रुमटीकायां दुर्गादासः
तथा हि ।“लालने बहवो दोषास्ताडने बहवो गुणाः ।तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत्
”अपि ।“लालयेत् पञ्च वर्षाणि दशवर्षाणि ताडयेत् ।प्राप्ते तु षोडशे वर्षे पुत्त्रं मित्रवदाचरेत्
”इति चाणक्यशतकम्