| YouTube Channel

लवणाचल (lavaNAcala)

 
Monier Williams Cologne
English
लवणाचल
m.
=
लवण-पर्वत, q.v.,
Cat.
शब्दकल्पद्रुमः
Sanskrit
लवणाचलः,
पुं,
(लवणनिर्म्मितः अचलः ।) दानार्थ-लवणादिनिर्म्मितपर्व्वतः यथा, --“अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ।यत्प्रदाता नरो लोकं प्राप्नोति शिवसंयुतम्
उत्तमः षोडशद्रोणः कर्त्तव्यो लवणाचलः ।मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः
वित्तहीनो यथाशक्त्या द्रोणादूर्द्धन्तु कारयेत् ।चतुर्थांशेन विष्कम्भान् पर्व्वतान् कारयेत् पृथक्
विधानं पूर्व्ववत् कुर्य्यात् ब्रह्मादीनाञ्च सर्व्वदा ।तद्बद्धेमतनून् सर्व्वान् लोकपालान्निवेशयेत्
सरांसि कामदेवादींस्तद्बच्चात्र निवेशयेत् ।कुर्य्याज्जागरमत्रापि दानमत्र निबोधत
सौभाग्यरससम्भूतो यतोऽयं लवणो रसः ।तदात्मकत्वेन मां पाहि पापान्नगोत्तम
यस्मादन्नरसाः सर्व्वे नोत्कटा लवणं विना ।प्रियञ्च शिवयोर्नित्यं तस्मात् शान्तिप्रदो भव
विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्द्धनम् ।तस्मात् पर्व्वतरूपेण पाहि संसारसागरात्
अनेन विधिना यस्तु दद्याल्लवणपर्व्वतम् ।उमालोके वसेत् कल्पं ततो याति परां गतिम्
”इति मात्स्ये ७७ अध्यायः
वाचस्पत्यम्
Sanskrit
लवणाचल
पु०
दानार्थं कल्पिते अचलाकारे लवणस्तूपे धान्यशैलशब्दे ३८८१ पृ० दृश्यम्