| YouTube Channel

लवणधेनुः (lavaNadhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
लवणधेनुः,
स्त्री,
(लवणनिर्म्मिता धेनुः ।) दानार्थ-लवणादिनिर्म्मितधेनुः तद्विवरणं यथा, --होतोवाच ।“लवणधेनुं वक्ष्यामि तां निबोध महीपते ।अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे
धेनुं लवणमयीं कृत्वा षोडशप्रस्थसंयुताम् ।वत्सं चतुर्भी राजेन्द्र इक्षुपादांश्च कारयेत्
सौवर्णमुखशृङ्गाणि खुरा रौप्यमयास्तथा ।मुखं गुडमयं तस्या दन्ताः फलमया नृप !
जिह्वां शर्करया राजन् घ्राणं गन्धमयन्तथा ।नेत्रे रत्नमये कुर्य्यात् कर्णौ पत्रमयौ तथा
श्रीखण्डं शृङ्गकोटौ नवनीतमयाः स्तनाः ।सूत्रपुच्छां ताम्रपृष्ठां दर्भरोम्णीं पयस्विनीम्
कांस्योपदोहां राजेन्द्र घण्टाभरणभूषिताम् ।सुगन्धपुष्पधूपैश्च पूजयित्वा विधानतः ।आच्छाद्य वस्त्रयुग्मेन ब्राह्मणाय निवेदयेत्
ग्रहणे वाथ संक्रान्तौ व्यतीपाते तथायने ।नक्षत्रग्रहपीडासु सर्व्वकालं प्रदापयेत्
द्विजाय साधुवृत्ताय कुलीनाय धीमते ।वेदवेदाङ्गविदुषे श्रोत्रियायाहिताग्नये
ईदृशाय प्रदातव्या तथामत्मरिणे नृप ! ।जमव्यमेव मन्त्रन्तु पुच्छदेशोपरिस्थितः
छत्रकोपानहौ देयौ मुद्रिकापर्णपत्रके ।आच्छाद्य वस्त्रयुग्मेन दक्षिणां कनकं ददेत्
पूर्व्वोक्तेन विधार्नन स्वशक्त्या कनकेन तु ।इमां गृहाण भो विप्र रुद्ररूपे नमोऽस्तु ते
रसज्ञा सर्व्वभूतानां सर्व्वदेवनमस्कृता ।कामं कामदुघे कामा क्षारधेनो नमोऽस्तु ते
दत्त्वा धेनुं लवणेन एकाहश्चैव तिष्ठति ।स्वयं त्रिरात्रं विप्रेण तथैव लवणाशिना
सहस्रेण शतेनाथ स्वशक्त्या कनकेन तु ।दत्त्वेमां स्वर्गमाप्नोति यत्र देवो वृषध्वजः
इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।मुच्यते सर्व्वपापेभ्यो रुद्रलोकञ्च गच्छति
”इत्यादि वाराहपुराणे श्वेतोपाख्याने लवणधेनु-माहात्म्यम्