| YouTube Channel

लवणं (lavaNaM)

 
पुराणम्
English
लवणम् / LAVAṆA(M). A hell. (See under kāla I).
शब्दकल्पद्रुमः
Sanskrit
लवणं,
क्ली,
(लुनाति जाड्यमिति लू + नन्द्यादि-त्वात् ल्युः पृषोदरादित्वात् णत्वम् ।) क्षार-रसयुक्तद्रव्यम् तत्तु पञ्चविधं यथा सौव-र्च्चलम् सैन्धवम् विटम् औद्भिदम् ४सामुद्रम् तथा हि ।“सामुद्रं यत्तु लवणमक्षीवं वसिरञ्च तत् ।सैन्धवोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धुजे
रौमकं वमुकं पाक्यं विडञ्च कृतके द्वयम्
”सौवर्च्चलेऽक्षरुचके इत्यमरः
(अस्य विवरणंयथा “सैन्धवसामुद्रविडसौवर्च्चलरोमकोद्भिद-प्रभृतीनि लवणानि यथोत्तरमुष्णानि वात-हराणि कफपित्तकराणि यथापूर्व्वं स्निग्धानिस्वादूनि सृष्टमूत्रपुरीषाणि चेति
“चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् ।स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम्
सामुद्रं मधुरं पाके नात्युष्णमविदाहि ।भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम्
सक्षारं दीपनं रूक्षं शूलहृद्रोगनाशनम् ।रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम्
लघुसौवर्च्चलं पाके वीर्य्योष्णं विशदं कटु ।गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम्
रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि ।वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम्
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् ।सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम्
कफवातक्रिमिहरं लेखनं पित्तकोपनम् ।दीपनं पाचनं भेदि लवणं गुटिकाह्वयम्
ऊषसूतं बालुकेलं शैलमूलाकरोद्भवम् ।लवणं कटुकं छेदि विहितं कटु चोच्यते
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
*
लू + भावे ल्युट् ।) छेदनम् यथा लवोऽभि-लावो लवणे इति चामरः (खड्गयुद्ध-प्रकारविशेषः यथा, हरिवंशे भविष्य-पर्व्वणि ५३ १७ ।“आहितं चित्रकं क्षिप्तं कुद्रवं लवणं धृतम्
”)