| YouTube Channel

लवङ्गं (lavaGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
लवङ्गं,
क्ली,
(लुनाति श्लेष्मादिकमिति लू +“तरत्यादिभ्यश्च ।” उणा० ११९ इतिअङ्गच् ।) स्वनामख्यातबणिग्द्रव्यभेदः तत्-पर्य्यायः देवकुसुमम् श्रीसंज्ञम् इत्य-मरः
श्रीप्रसूनम् इति भावप्रकाशः
लवङ्गकम् इति शब्दरत्नावली
लवङ्ग-कलिका दिव्यम् शेखरम् लवम् ९श्रीपुष्पम् १० रुचिरम् ११ वारिसम्भवम् १३भृङ्गारम् १४ गीर्व्वाणकुसुमम् १५ चन्दन-पुष्पम् १६ अस्य गुणाः शीतलत्वम् तिक्त-त्वम् चक्षुष्यत्वम् भुक्तरोचनत्वम् वात-पित्तकफनाशित्वम् ताक्ष्णत्वम् मूर्द्धरुजा-पहत्वञ्च इति राजनिर्घण्टः
आध्मानानाह-शूलघ्नत्वम् दीपनत्वम् लघुत्वञ्च इति राज-वल्लभः
अपि ।“लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम् ।दीपनं पाचनं रुच्यं कफपित्तास्ननाशकृत्
तृष्णां छर्द्दिं तथाध्मानं शूलमाशु विनाशयेत् ।कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम्
”इति भावप्रकाशः
(यथा, --“विरहानलसन्तप्ता तापिनी कापि कामिनी ।लवङ्गानि समुत्सृज्य ग्रहणे राहवे ददौ
”इत्युद्भटः
)