| YouTube Channel

लतासाधनं (latAsAdhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
लतासाधनं,
क्ली,
(लतया स्त्रिया साधनम् ।)योषिदधिकरणकेष्टदेवताराधनम् तद्यथा, --“लतायाः साधनं वक्ष्ये शृणुष्व हरवल्लभे ।शतं केशे शतं भाले शतं सिन्दूरमण्डले
स्तनन्द्वन्द्वे शतद्बन्द्वं शतं नाभौ महेश्वरि ।शतं योनौ महेशानि उत्थाय शतत्रयम्
एवं दशशतं जप्त्वा सर्व्वसिद्धीश्वरो भवेत् ।अथान्यत् संप्रवक्ष्यामि साधनं भुवि दुर्लभम्
रजोऽवस्थां समानीय तद्योनौ स्वेष्टदेवताम् ।पूजयित्वा महारात्रौ त्रिदिनं पूजयेन्मनुम्
शतत्रयञ्च षट्त्रिंशदधिकं प्रत्यहं जपन् ।अष्टोत्तरशतं पूर्व्वं चक्रवक्त्रे जपेद्बुधः
ततस्तां नवभिः पुष्पैर्यजेदष्टोत्तरं शतम् ।ततः पूर्णाहुतिं दत्त्वा जपेदष्टोत्तरं शतम्
धनवान् बलवान् वाग्मी सर्व्वयोषित्प्रियङ्करः ।षोडशाहेन भवेत् सत्यं सत्यं सशयः
”इति मायातन्त्रे १२ पटलः
अन्यत् अन्नदाकल्पे १६ पटले गुप्तसाधनतन्त्रे४ पटले द्रष्टव्यम्