| YouTube Channel

लडकः-डिका (laDakaH-DikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लड जिह्वोन्मथने”@} 2 घटादिः।
जिह्वया उन्मथनम् 3 जिह्वोन्मथनम् इति केचित्।
जिह्वायाः उन्मथनम् 4 इति मैत्रेयः।
जिह्वा च, उन्मथनं द्वावर्थौ, जिह्वा = जिह्वाव्यापारः इति केचित्।
निरुक्तेषु त्रयेष्वर्थेषु भ्वादिरयं मित्संज्ञक इति समुदितार्थः।
लडयोरेकत्वस्मरणात् ण्यन्तात् युचि-ललना इति रूपम्।
अत्र पदे यथासम्भवमर्थो बोध्यः।
लडकः-डिका, लडकः-डिका, लिलडिषकः-षिका, लालडकः-डिका
लडिता-त्री, लडयिता-त्री, लिलडिषिता-त्री, लालडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४६४)
02
=>
(१-भ्वादिः-८१४। सक। सेट्। पर।)
03
=>
(= क्लेशकरणं)
04
=>
(=क्षोभणम्)
05
=>
(१५७, १५८)