| YouTube Channel

लज्जालुः (lajjAluH)

 
वैजयन्तीकोषः
Sanskrit
Word: लज्जालुः
Root: लज्जालु
Gender: स्त्री
Number: all
अर्थः
Meaning(s):
Different species of the sensitive plant
Tamil Varaḻam cuṇḍibhēdam
Shloka(s):
3|3|148|2 गण्डकाली खदिर्यां तु लज्जालुः स्याच्छमीफला॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|148|2 लज्जालुः (लज्जालु) (स्त्री) Different species of the sensitive plant
Tamil Varaḻam cuṇḍibhēdam
3|3|148|2 शमीफला (शमीफला) (स्त्री) Sensitive plant
Tami Varal̤añjuṇḍibhēdam
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
लज्जालुः,
पुं,
स्त्री,
(लज्जेवास्या अस्तीत्यर्थे आलुः ।)क्षुपविशेषः तत्पर्य्यायः रक्तपादी शमी-पत्रा स्पृक्का खदिरपत्रिका सङ्कोचिनी६ समङ्गी नमस्कारी प्रसारिणी सप्त-पर्णी १० खदिरी ११ गण्डमालिका १२लज्जा १३ लज्जिरी १४ स्पर्शलज्जा १५ अस्र-रोधिनी १६ रक्तमूला १७ ताम्रमूला १८स्वगुप्ता १९ अञ्जविकारिका २० इति राज-निर्घण्टः
महाभीता २१ वशिनी २२ महौ-षधिः २३ इति शब्दचन्द्रिका
अस्यागुणाः कटुत्वम् शीतत्वम् पित्तातिसार-शोफदाहश्रमश्वासव्रणकुष्ठ-कफार्त्तिनाशित्वञ्च
तद्भेदो यथा, --“लज्जालुर्विपरीतान्या अल्पक्षुपबृहद्वला ।वैपरीत्या लज्जालुर्ह्याभिधाने प्रयोजयेत्
लज्जालुर्वैपरीत्याहुः कटुरुष्णः कफापनुत् ।रसे नियामकश्चैव नानाविज्ञानकारकः
”इति राजनिर्घण्टः
अन्या हंसपादीशब्दे द्रष्टव्या
*
अपि ।“लज्जालुः स्यात् शमीपत्रा समङ्गाञ्जलि-कारिका ।रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि
लज्जालुः शीलता तिक्ता कषाया कफपित्त-जित् ।रक्तपित्तमतीसारं योनिरोगान् विनाशयेत्
”अत लज्जालुभेदः ।“अलम्बुषा खरत्वक् तथा मेदोगला स्मृता ।अलम्बुषा लघुः स्वादुः कृमिपित्तकफापहा
”इति भावप्रकाशः
अन्या दुग्धिकाशब्दे द्रष्टव्या