| YouTube Channel

लघि (laghi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लङ्घ्
मूलधातुः:
लघि
धात्वर्थः:
गतौ, भोजननिवृत्तावपि
गणः:
भ्वादिः
कर्मकत्वं:
गतौ सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
लङ्घते
धातुः:
लङ्घ्
मूलधातुः:
लघि
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
लङ्घयति-ते
धातुप्रदीपः
Sanskrit
लघिँ लघि शोषणे
- लङ्घति ललङ्घ लङ्घनम् लङ्घत इति गत्यर्थस्यात्मनेपदिनः अस्यापि गतौ वृत्तिर्दृश्यते तथा भट्टिः ''अन्ये चालङ्घिषुः शैलान् गुहास्वन्ये न्यनेषत '' इति (36) ।। 156 ।।
क्षीरतरङ्गिणी
Sanskrit
लघिँ लघि भोजननिवृत्तौ
चाद् गत्यर्थः - नवज्वरो लङ्घनीयः 104
कृदन्तरूपमाला
Sanskrit
1 {@“लघि गत्यर्थः”@} 2 ‘लघि भोजननिवृत्तौ च’ इति क्षीरस्वामी।
‘लघि शोषणे इत्यग्रे’ इति माधवधातुवृत्तिवचनादयं भ्वादावेवोत्तरत्र शोषणार्थकोऽपीति ज्ञायते।
लङ्घकः-ङ्घिका, लङ्घकः-ङ्घिका, लिलङ्घिषकः-षिका, लालङ्घकः-ङ्घिका
लङ्घिता-त्री, लङ्घयिता-त्री, लिलङ्घिषिता-त्री, लालङ्घिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककङ्कतिवत् 3 ज्ञेयानि।
4 लघुः।
प्रासङ्गिक्यः
01
=>
(१४५३)
02
=>
(१-भ्वादिः-१०८। सक। सेट्। आत्म।)
03
=>
(१४०)
04
=>
[[१। लङ्घ्यतेऽसौ बालैरिति लघुः। ‘लङ्घिबंह्योर्नलोपश्च’ (द। उ। १-११४) इति कुप्रत्ययो नकारलोपश्च निपात्यते।]]
1 {@“लघि भाषार्थः”@} 2 आस्वदीयः।
‘भाषणे लङ्घयेत्, शोषे लङ्घेत्, गत्यां तु लङ्घते’ 3 इति देवः।
अयं धातुर्भासार्थकः सकर्मक इति पारायणम् इति क्षीरस्वामी।
लङ्घकः-ङ्घिका, लिलङ्घयिषकः-षिका, लङ्घकः-ङ्घिका, लिलङ्घिषकः-षिका, लालङ्घकः-ङ्घिका
लङ्घयिता-त्री, लिलङ्घयिषिता-त्री
लङ्घिता-त्री, लिलङ्घिषिता-त्री, लालङ्घिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुंशयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४५४)
02
=>
(१०-चुरादिः-१७६१। अक। सेट्। उभ।)
03
=>
(श्लो। ४५)
04
=>
(२३२)