लग्नं (lagnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritलग्नं, (लगति फले इति । लग सङ्गे + “क्षुब्ध-स्वान्तध्वान्तलग्नेति ।” ७ । २ । १८ । इतिनिपातनात् साधु ।) राशीनामुदयः । इत्यमरः ॥
राति फलं राशिस्तालव्यशकारः । अहोरात्र-मध्ये द्वादशराशय उदयन्ति । उदयः पूर्व्वा-चलसंयोगः । तेषां क्रमेण उदयाचलसंयोगोलग्नं ओ लसजी व्रीडे ओदित्वान्नः निपातना-ज्जस्य गः । इति तट्टीकायां भरतः ॥
तेषांशून्यायनांशपरिमाणं यथा, --“रामोऽगवेदै -३ । ४७ र्जलधिस्तु मैत्रै -४ । १७र्व्वाणो रसैः ५ । ६ पञ्च खसागरैश्च ५ । ४० ।वाणः कुवेदै -५ । ४१ र्विषयोऽङ्कयुग्मैः ५ । २९क्रमोत्क्रमान्मेषतुलादिमानम् ॥
”तथा हि ।मेषस्य ३ । ४७ ॥
तुलायाः ५ । २९ ॥
वृषस्य ४ । १७ ॥
वृश्चिकस्य ५ । ४१ ॥
मिथुनस्य ५ । ६ ॥
धनुषः ५ । ४० ॥
कर्क्कटस्य ५ । ४० ॥
मकरस्य ५ । ६ ॥
सिंहस्य ५ । ४१ ॥
कुम्भस्य ४ । १७ ॥
कन्यायाः ५ । २९ ॥
मीनस्य ३ । ४७ ॥
इति दीपिका ॥
* ॥
दशव्यङ्गुलाधिकपञ्चाङ्गुल-प्रभे कलिकाताख्यदेशे वर्त्तमानोनविंशायनांशेप्रामाणिककारिका यथा, --“वेदोऽङ्गैः । ४ । ६ सोऽन्तवेदै ४ । ४८ रिषुरगन-यनैः ५ । २७ सोऽन्तरीक्षाम्बुनाथैः ५ । ४० ।पारावाराश्रयासै -५ । ३४ र्गगनगनयनैः ५ । २९षट्त्रिभि -५ । ३६ श्चन्द्रवेदैः ५ । ४१ ।अङ्कक्ष्माभिः ५ । १९ समुद्रोऽसुशुचिभि -४ । ३५रनलोऽष्टेषुभिः ३ । ५८ सोऽगवेदै -३ । ४७ ।र्मेषादेकोनविंशे गणितपरिगतं मानमत्रा-यनांशे ॥
” * ॥
उदयलग्नास्तलग्नयोर्दिनं प्रति रविभोग्यं यथा, “लग्नदण्डपलं द्विघ्नं तत्संख्यं क्रमतः पलम् ।विपलञ्च रवेर्भोग्यमेवं कल्पनमस्तभे ॥
”इति ज्योतिषम् ॥
एतयोर्विवरणं यथा, --तत्र प्राचीनलग्नमानम् ।लग्नाः दिनमुक्तम् । मासभुक्तम् ।यथा पलम् । विपलम् । दण्डः । पलम् ।१ मेषः । ७ । ३४ ॥
३ । ४७ ॥
२ वृषः । ८ । ३४ ॥
४ । १७ ॥
३ मिथुनम् । १० । १२ ॥
५ । ६ ॥
४ कर्कटः । ११ । २० ॥
५ । ४० ॥
५ सिंहः । ११ । २२ ॥
५ । ४१ ॥
६ कन्या । १० । ५८ ॥
५ । २९ ॥
लग्नाः दिनभुक्तम् । मासभुक्तम् ।यथा पलम् । विपलम् । दण्डः । पलम् ।७ तुला । १० । ५८ ॥
५ । २९ ॥
८ वृश्चिकः । ११ । २२ ॥
५ । ४१ ॥
९ धनुः । ११ । २० ॥
५ । ४० ॥
१० मकरः । १० । १२ ॥
५ । ६ ॥
११ कुम्भः । ८ । ३४ ॥
४ । १७ ॥
१२ मीनः । ७ । ३४ ॥
३ । ४७ ॥
तत्र स्वदेशाधुनिकलग्नमानम् ।लग्नाः दिनभुक्तम् । मासभुक्तम् ।यथा पलम् । विपलम् । दण्डः । पलम् ।१ मेषः । ८ । १२ ॥
४ । ६ ।२ वृषः । ९ । ३६ ॥
४ । ४८ ॥
३ मिथुनम् । १० । ५४ ॥
५ । २७ ॥
४ कर्कटः । ११ । २० ॥
५ । ४० ॥
५ सिंहः । ११ । ८ ॥
५ । ३४ ॥
६ कन्या । १० । ५८ ॥
५ । २९ ॥
७ तुला । ११ । १२ ॥
५ । ३६ ॥
८ वृश्चिकः । ११ । २२ ॥
५ । ४१ ॥
९ धनुः । १० । ३८ ॥
५ । १९ ॥
१० मकरः । ९ । १० ॥
४ । ३५ ॥
११ कुम्भः । ७ । ५६ ॥
३ । ५८ ॥
१२ मीनः । ७ । ३४ ॥
३ । ४७ ॥
अथ जन्मकालीनलग्नस्थग्रहसूचितफलम् ।“लग्ने सूर्य्येऽक्षिरोगी शशिनि बलयुतोरूपवान् वित्तयुक्तोभौमे व्यङ्गः सुवाग्मी शशधरतनये सर्व्व-शास्त्रार्थवेत्ता ।जीवे दाता पवित्रः सुकविरथ गते भार्गवेमण्डलेशःसौरौ कण्डूतिगात्रस्तमसि च नियतं वञ्चितोधर्म्महीनः ॥
”इति ज्योतिस्तत्त्वम् ॥
* ॥
अपि च ।हरिरुवाच ।“उदयन्तु समारभ्य राशौ भानुः स्थितो हर ।स्वराश्यादौ व्रजेदह्रि षड्भिः षड्भिस्तथानिशाम् ॥
मीने मेषे च पञ्च स्युश्चतस्रो वृषकुम्भयोः ।मकरे मिथुने तिस्रः पञ्च चापे च कर्कटे ॥
सिंहे च वृश्चिके षट् च सप्त कन्या तुले तथा ।एता लग्नप्रमाणेन घटिकाः परिकीर्त्तिताः ॥
शरपूर्व्वावशानेषुरसाब्धीष्वधिसागराः ।लङ्कोदया हि है वस्तुं लग्ना मेषादयोऽथवा ॥
मेषलग्ने भवेद्वन्ध्या वृषे भवति कामिनी ।मिथुने सुभगा कन्या वेश्या भवति कर्कटे ॥
सिंहे चैवाल्पपुत्त्रा च कन्यायां रूपसंयुता ।तुलायां रूपमैश्वर्य्यं वृश्चिके कर्कशा भवेत् ॥
सौभाग्यं धनुषि स्याच्च मकरे नीचगामिनी ।कुम्भे चैवाल्पपुत्त्रा स्यान्मीने वैराग्यसंयुता ॥
तुला कर्कटको मेषो मकरश्चैव राशयः ।चरकार्य्याणि कुर्य्याच्च स्थिरकार्य्याणि चैव हि ॥
पञ्चाननो वृषः कुम्भो वृश्चिकः स्युः स्थिराणि हि ।कन्या धनुश्च मीनश्च मिथुनं द्विस्वभावतः ॥
द्विस्वभावानि कर्म्माणि कुर्य्यादेषु विचक्षणः ।यात्रा चरेण कर्त्तव्या प्रवेष्टव्यं स्थिरेण तु ।देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ॥
”इति गारुडे ६२ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
