| YouTube Channel

लकुचः (lakucaH)

 
Apte Hindi
Hindi
लकुचः
पुं*
- -
"बडहर का पेड़, बडहर का फल"
Wordnet
Sanskrit
Synonyms:
लकुचः, लिकुचः, डहुः, लकचः, शालः, कषायी, दृढवल्कलः, कार्श्यः, शूरः, स्थूलकन्धः
noun
वृक्षविशेषः यस्य अरूपि मधुरं फलं खादितुम् अर्हति।
"मर्कटः लकुचे उपविशति।"
Synonyms:
लकुचः, अश्वसक्तुः
noun
यवसदृशः क्षुपविशेषः।
"गौः लकुचस्य क्षेत्रे चरति।"
Synonyms:
लकुचः, अश्वसक्तुः
noun
यवसदृशः धानविशेषः।
"सः प्रतिदिने अश्वाय लकुचं यच्छति।"
शब्दकल्पद्रुमः
Sanskrit
लकुचः,
पुं,
(लक्यते इति लक स्वादे + बाहु-लकादुचः ।) वृक्षविशेषः डेहुया इतिमादार इति भाषा तत्पर्य्यायः लिकुचः २शालः कषायी दृढवल्कलः डहुः ६कार्श्यः शूरः स्थूलस्कन्धः अस्य गुणाः ।तिक्तरसत्वम् कषायत्वम् उष्णत्वम् लघु-त्वम् कण्ठदोषहरत्वम् दाहित्वम् मल-संग्रहदायकत्वञ्च इति राजनिर्घण्टः
*
अपि ।“लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि ।आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा
मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत् ।शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम्
सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् ।कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्
”इति भावप्रकाशः
*
अन्यच्च ।“लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् ।श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम्
”इति वैद्यकम्