| YouTube Channel

लकः-लिका (lakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मिल श्लेषणे”@} 2 3 चुरादिषु ‘बहुलम्
एतन्निदर्शनम्’ 4 इति पठ्यते।
तस्यायमर्थः-- भ्वादिगणपठिता धातवो निदर्शनार्थाः।
धातूनामसङ्ख्येयत्वात् बहुलमुपलम्भाच्च, अनुक्ता अपि धातवो यथासम्भवं तत्तद्विकरणेषु शिष्टप्रयोगानुसारेणोन्नेयाः इति।
अत्रानुक्तेषु = अपठितेषु धातुष्वयमप्येक इति मत्वा भोजप्रभृतिभिः ‘मिलन्त्या- शासु जीमूताः, विक्लबन्ते दिवि ग्रहाः।’ इत्यादीनां बहूनां धातूनां सङ्ग्राहकाः श्लोकाः पठिताः।
परं तु मिलधातोरस्य तुदादावेव द्विवारं पाठोऽधुनोपलभ्यते।
क्षीरस्वा- मी तु भ्वादावपि मिलधातुं ‘मील--’ धातुस्थाने पाठान्तरत्वेन पपाठ।
काव्याल- ङ्कारसूत्रवृत्तौ 5 वामनोऽपि-- “तत्र मिलि क्लबिक्षपिप्रभृतीनां कथं धातुत्वम्? गणापाठात्, गणपठितानामेव धातुसंज्ञाविधानात्।
तत्राह धातुगणस्या- समाप्तेः।
‘वर्धते धातुगणः’ इति हि शब्दविद आचक्षते।
तेनैषां गणपाठो- ऽनुमतः, शिष्टप्रयोगात्--इति।” इत्युक्तवान्।
एतेन ज्ञायते--मिलप्रभृतीनां धातुपाठे औपदेशिकः पाठः प्राङ् नासीत् इति।
भोजवामनग्रन्थदर्शिभिः पाश्चात्यैः पुनः एकस्यैव धातोः एकविकरणकेऽपि गणे द्विवारमपि पाठोऽत्यल्पप्रयो- जनकः प्रक्षिप्त इति।
विद्वांसोऽत्र प्रमाणम्।]] 6 ‘श्लेषे मिलेत्, संगमे तु मिलते मिलतीति च।’ 7 इति देवः।
मेलकः-लिका, मेलकः-लिका, मिमिलिषकः-मिमेलिषकः-षिका, मेमि- लकः-लिका
मेलिता-त्री, मेलयिता-त्री, मिमिलिषिता-मिमेलिषिता-त्री, मेमि- लिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 8 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१२५९)
02
=>
(६-तुदादिः-१३६४। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(ग। सू।)
05
=>
(५-२-२)
06
=>
[पृष्ठम्१०२६+ २५]
07
=>
(श्लो। १६०)
08
=>
(१९३)
1 {@“मिल संगमे”@} 2 ‘श्लेषे मिलेत्, संगमे तु मिलते मिलतीति च।’ 3 इति देवः।
मेलकः-लिका, मेलकः-लिका, मिमिलिषकः-मिमेलिषकः-षिका, मेमि- लकः-लिका
मेलिता-त्री, मेलयिता-त्री, मिमिलिषिता-मिमेलिषिता- त्री, मेमिलिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 4 ज्ञेयानि।
“-- ‘मिल संश्लेषणे’ इति पठितस्येह पुनः पाठः-- कर्त्रभिप्राये तङर्थः।
इति आत्रेयः।” इति मा।
धा।
वृत्तिः।
क्षीर- स्वामी त्वमुं धातुं पठति।
अस्य धातोरुभयपदित्वात् शानचि -- 5 मिलमानः, 6 मिलिष्यमाणः, मिमिलिषमाणः, मिमेलिषमाणः, मिमिलिषिष्य- माणः, इत्यादीनि तत्तत्प्रत्यये रूपाण्यूह्यानि।
7 मेलनम्।
8 मेला-कुम्भमेला।
9
प्रासङ्गिक्यः
01
=>
(१२६०)
02
=>
(६-तुदादिः-१४२९। सक। सेट्। उभ।)
03
=>
(श्लो। १६०)
04
=>
(१९३)
05
=>
[[१। शानचि, ‘तुदादिभ्यः--’ (३-१-७७) इति विकरणप्रत्ययः शः। तस्य ङिद्वद्भा- वेनाङ्गस्य गुणो न।]]
06
=>
[[आ। ‘मित्रैः सम्मिलमान एत्य नगरोद्यानं विमुञ्चन् भियम्…।’ धा। का। २। ८५।]]
07
=>
[[२। ल्युटि अनादेशे गुणे रूपमेवम्। ‘परिमिलनमप्राप्य हरितम्’, ‘मुक्तांशुजाल- मिलनाद् रुचिरैः प्रवालैः बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्।’ (पादुकासहस्रे ५५२ श्लो।) इत्यादिषु ‘संज्ञापूर्वको विधिरनित्यः’ (परि। ९५) इति गुणनिषेधः इति तत्तद्व्याख्यासु प्रतिपादितम्। बोपदेवव्याकरणे मुग्धबोधे तु मिलधातोः (लिख- धातोश्च) कुटादित्वमङ्गीकृत्य, ल्युटि ‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’ (१-२-१) इति ङिद्वद्भावेन गुणनिषेधः साधितः। अत एव ‘लिखनसंक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इत्यादिकानि गदाधरादिवाक्यान्यपि साधून्येवेति ज्ञेयम्।]]
08
=>
[[३। स्त्रियां भावादौ, भिदादेः (३-३-१०४) आकृतिगणत्वेन अङ्प्रत्ययः, उपधागुणश्च। मिलन्त्यत्रेति अधिकरणेऽङ्।]]
09
=>
[पृष्ठम्१०२७+ २४]