| YouTube Channel

रोदस्यौ (rodasyau)

 
Shabdartha Kaustubha
Kannada
रोदस्यौ
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸ್ವರ್ಗ ಮತ್ತು ಭೂಮಿ
विस्तारः - > "भूद्यावौ रोदस्यौ रोदसी ते" - अम०
अभिधानचिन्तामणिः
Sanskrit
--source--
द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ९३८
दिवस्पृथिव्यौ रोदस्यौ रोदसी रोदसी ते
-wordlist-
द्यावापृथिव्यौ (स्त्रीद्वि), द्यावाभूमी (स्त्रीद्वि), द्यावाक्षमे (स्त्रीद्वि), दिवस्पृथिव्यौ (स्त्रीद्वि), रोदस्यौ (स्त्रीद्वि), रोदसी (स्त्री), रोदसी (क्लीद्वि)
अभिधानरत्नमाला
Sanskrit
द्यावाभूमी
द्यावाभूमी, रोदस्यौ, रोदस्, रोदसी
द्यावाभूमी रोदस्यौ रोदसी रोदसीति
verse 1.1.1.121
page 0015
शब्दकल्पद्रुमः
Sanskrit
रोदस्यौ,
स्त्री,
भूमिस्वर्गौ यथा, --“प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी ते
”इत्यमरः २२८
“भूर्भूमिः द्यौराकाशं एते सहिते विगृहीते चरोदसीरोदःशब्दयोर्वाच्येते इति भूद्यावौ परा-मृष्येते एतेन ईवन्तसान्तशब्दद्वयेन एकवच-नान्तेनापि भूद्यावौ समुदिते उच्येते ।‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् ।सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी
’इति विश्वः
‘रोदसी रोदसा सार्द्धं पृथ्वीस्वर्गे दिवि क्षितौ
’इत्यजयः
रोदसीत्यव्ययमप्यस्ति यथा द्यावापृथिव्यौरोदस्यौ रोदसी रोदसीति चेति ।” इतितट्टीकायां भरतः