| YouTube Channel

रेखापुर (rekhApura)

 
वाचस्पत्यम्
Sanskrit
रेखापुर
न०
भुवो मध्यसूत्रस्थः पुरम् “राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः रोहितकमवन्ती तथा सन्निहितंसरः” सू० सि० उक्ते पुरे “राक्षसालयं लङ्का देवानांगृहरूपः पर्वतो मेरुरनयोर्मध्ये ऋजुसूत्रं तत्र स्थितादेशा रेखाख्याः लङ्कादक्षिणसूत्रस्थास्त्वनुपयुक्तास्तत्रमनुष्यागोचरत्वादिति नोक्ताः ज्ञानार्थमुदाहरति ।रोहीतकमिति यथा रोहीतकं नमरमवन्त्युज्जयिनी-सन्निहितं सरः कुरुक्षेत्रम् चकारस्तथेत्यव्ययपरः ।तथान्यानि परस्परं सन्निहिततया ज्ञेयानि” रङ्ग०