| YouTube Channel

रूपधारी (rUpadhArI)

 
Wordnet
Sanskrit
Synonyms:
रूपधारी
noun
यः विविधान् रूपान् धारयित्वा जनान् विस्माययति।
"एकः रूपधारी द्वारे द्वारे गत्वा भिक्षां याचते।"
शब्दकल्पद्रुमः
Sanskrit
रूपधारी, [न्] (रूपं धरतीति धृ + णिनिः ।)सौन्दर्य्यविशिष्टः यथा, --“ततो विकटरूपोऽसौ सर्व्वशास्त्रार्थपारगः ।विवाहयद्द्विजसुतां रूपेणानुपमां द्विजः
सावमेने भर्त्तारं सुशीलमपि भाविनी ।विरूपमिति मन्वाना ततः सोऽभूत् सुदुःखितः
ततो निर्व्वेदसंयुक्तो गत्वाश्रमपदं महत् ।इरावत्यास्तटे श्रीमान् रूपधारिणमासदत्
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि ।सुरूपतामवाप्याग्र्यां तस्मिन्नेव जन्मनि
”इति वामनपुराणे ७६ अध्यायः