| YouTube Channel

रुद्रकवच (rudrakavaca)

 
Monier Williams Cologne
English
रुद्र—कवच
n.
N.
of wk.
Shabdartha Kaustubha
Kannada
रुद्रकवच
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸಕಲ ಅವಯವಗಳನ್ನೂ ರಕ್ಷಿಸುವ ಈಶ್ವರನ ನಾಮಗಳು
विस्तारः - > "रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः कपर्दी दक्षिणे पातु वामपार्श्वे तथा हरः शिवः शिरो मे पातु ललाटे नीललोहितः नेत्रयोस्त्र्यम्बकः पातु मुखे पातु महेश्वरः कर्णयोर्नासिकायां जिह्वायां शम्भुरव्ययः श्रीकण्ठस्तु गले पातु बाह्वोः पातु पिनाकधृक् हृदयं मे महादेवः ईश्वरस्तु तथोदरम् नाभौ कुक्षौ कटिस्थाने पातु सर्वं प्रजापतिः ऊरू जानू महादेवः पादौ पातु महेश्वरः सर्वं रक्षतु भूतेशः सर्वगात्राणि यत्नतः ॥" - तन्त्रसा०
Aufrecht Catalogus Catalogorum
English
रुद्रकवच Oppert 7217.
रुद्रकवच Gov. Or. Libr. Madras 78.
शब्दकल्पद्रुमः
Sanskrit
रुद्रकवचं,
क्ली,
(रुद्रस्य कवचम् ।) शिवनाम-समूहेन सर्व्वाङ्गरक्षकम् यथा, --“वक्ष्यामि रुद्रकवचमाद्यं प्राणस्य रक्षणम् ।अहोरात्रं महादेव रक्षार्थं देवनिर्म्मितम्
ओँ रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः ।कपर्द्दी दक्षिणे पातु वामपार्श्वे तथा हरः
शिवः शिरो मे पातु ललाटे नीललोहितः ।नेत्रयोस्त्र्यम्बकः पातु मुखे पातु महेश्वरः
कर्णयोर्नासिकायाञ्च जिह्वायां शम्भुरव्ययः ।श्रीकण्ठस्तु गले पातु बाह्वोः पातु पिणाकधृक्
हृदयं मे महादेव ईश्वरस्तु तथोदरम् ।नाभौ कुक्षौ कटिस्थाने पातु सर्व्वं प्रजापतिः
ऊरू जानू महादेवः पादौ पातु महेश्वरः ।सर्व्वं रक्षतु भूतेशः सर्व्वगात्राणि यत्नतः
परशुं शूलखट्टाङ्गं दिव्यास्त्रं रौद्रमेव ।नमस्काराय देवेशं रक्ष मां जगदीश्वरः
रक्षोभ्यो ग्रहपीडाभ्यो रोगशोकार्णवेषु ।पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल
जन्म मृत्युर्ज्जरा व्याधिः कामः क्रोधः शमोदमः ।लोभमोहमदाश्चापि त्यजन्तु भुवनेश्वर
त्वं गतिस्त्वं मतिश्चैव त्वं वुद्धिस्त्वं परायणः ।कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे
इत्येतद्रुद्रकवचं पठतः पापनाशनम् ।महादेवप्रसादेन दुर्व्वासःपरिकीर्त्तितम्
तस्य पापलेशोऽस्ति भयं तस्य विद्यते ।प्राप्नोति सुखमारोग्यं पुण्यमात्मप्रबन्धनम्
पुत्त्रार्थी लभते पुत्त्रं धनार्थी लभते धनम् ।विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नु-यात्
देहे चेदं हृदि न्यस्य शिवकल्पो भवेन्नरः ।मुच्यते सर्व्वपापेभ्यो रुद्रलोकं गच्छति
”इति स्कन्दपुराणे रुद्रकवचं समाप्तम् इतितन्त्रसारः