| YouTube Channel

रुचकं (rucakaM)

 
शब्दकल्पद्रुमः
Sanskrit
रुचकं,
क्ली,
(रोचतेऽनेनेति रुच् + “बहुलमन्य-त्रापि ।” उणा० ३७ इति क्वुन् ।) सर्जि-काक्षारम् अश्वाभरणम् माल्यम् सौव-र्च्चलम् (यथा, --“सौवर्च्चलं स्याद्रुचकमन्यपाकञ्च तन्मतम्
”तथास्य गुणाः ।“रुचकं रोचनम्भेदि दीपनम्पाचनम्परम् ।सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु ।उद्गारशुद्धिदं सूक्ष्मं विवन्धानाहशूलजित्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमभागे
)माङ्गल्यद्रव्यम् (यथा, भागवते २३ ३१ ।“हारेण महार्हेण रुचकेन भूषितम्
”“रुचकेन मङ्गलद्रव्येण ।” इति श्रीधरः
) उत्कटः ।इति मेदिनी के, १४६
स्वाद्यरसः इतिशब्दरत्नावली
रोचना विडङ्गम् इतिहेमचन्द्रः
लवणम् इति हारावली
(दक्षिण-दिक् यथा, बृहत्संहितायाम् ५३ ३५ ।“प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौशेषौ ।रुचके द्वारं शुभदमुत्तरतोऽन्यानि शस्तानि
”“रुचकं मातुलुङ्गकम् ।” इत्युज्ज्वलदत्तः ।२ ३७
)