| YouTube Channel

रुङ् (ruG)

 
Monier Williams Cologne
English
रुङ् in comp. for 2. रुज्.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रु
मूलधातुः:
रुङ्
धात्वर्थः:
गति-रेषणयोः
गणः:
भ्वादिः
कर्मकत्वं:
गतौ सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
रवते
धातुप्रदीपः
Sanskrit
रुङ् गति, रेषणयोः
- रवते रुरुवे रुतम् ।। 967 ।।
क्षीरतरङ्गिणी
Sanskrit
रुङ् गति, रेषणयोः
- (अर्थविवरणम्) रेषणं हिंसाशब्दः
रवते आरावः आरवः (द्र0 3350) सुयुरुवृञो युच् (उ0 274) रवणः रुशतिभ्यां क्रुन् (उ0 4112 श्वेत0) रुरुः अच इः (उ0 4139) रविः अदादौ रु शब्दे (226) रौति 930
धातुवृत्तिः
Sanskrit
रुङ् (अर्थः) गति, रेषणयोः
( 1 ) ( 1 ) शोषणयोरिति 2 पुस्त पा ( रवते रुरुवे ) इत्यादि, गवतिवत् ( रावयति अरीरवत् ) "ओः पुयण्जि'' इति यण्परत्वादभ्यासस्येत्वे दीर्घः रु शब्दे इत्यदादौ अस्यैव निरनुबन्धकस्य "उपसर्गे रुवः'' "विभाषाङि रुप्लुवोः'' इत्यत्र ग्रहणं वृत्यादौ कृतम् 940
कृदन्तरूपमाला
Sanskrit
1 {@“रुङ् गतिरेषणयोः”@} 2 3 अनिट्कारिकाप्रकरणे, पर्युदस्तेषु ‘गणस्थमूदन्तम्, उतां रुस्नुवौ--’ 4 इत्यत्र ‘रु’ इत्यनेन निरनुबन्धकपरिभाषया 5 आदादिकरौतेरेव ग्रहणम्, नास्य
तेनास्यानिट्त्वमिति न्यास- कारादयः।
तत्त्वबोधिन्यादिषु तु “-- ‘रु शब्दे, रुङ् गतिरेषणयोः’ इत्युभयोर्ग्रहणं निरनुबन्धकपरिभाषया, ‘लुग्विकरणालुग्विकरणयोः--’ 6 इति परिभाषया च।
साहचर्यात् लुग्विकरणस्यैव ग्रहणम् इति शङ्क्यम्।
तस्यानित्यत्वात्।” इति प्रतिपादनात् आदादिकरौतिवत् भौवादिकरवतेरपि पर्युदासेषु ग्रहणात् अस्यापि सेट्त्वमिति ज्ञायते।
‘संनत्स्याम्यथ योद्धुं किं रोष्ये सत्त्वहीनवत्।’ 7 इत्यत्र रोष्ये इति अनिट्त्वेन प्रयोगात् अनिट्- कारिकायां पर्युदासे भौवादिकस्य ग्रहणमिति शब्दरस्नम्।
परं तु जयमङ्ग- लादिप्राचीनव्याख्यादृतः, साम्प्रतमुपलभ्यमानश्च सार्वत्रिकः पाठः-- ‘संनत्स्याम्यथ वा योद्धुं कोष्ये सत्त्वहीनवत्।’ इत्येवम्।
अतो नैतदत्र गमकत्वेन प्रतीम इत्यलमत्र।
उभयथाऽपि सन्नन्ते, ‘सनि ग्रहगुहोश्च’ 8 इतीण्निषेधः।
तत्त्वबोधिनीकारादीनां मतेतृजादिषु इडागमे रविता-त्री, रवितव्यम् इत्या- दीनि रूपाणि यथायथं बोध्यानि।]] ‘-- रवते रौति 9 शब्दने।।’ 10 इति देवः।
रावकः-विका, रावकः-विका, रुरूषकः-रिरावयिषकः-षिका, रोरूयकः-यिका
11 रोता-रोत्री, रावयिता-त्री, रुरूषिता-त्री, रोरूयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककवतिवत् 12 ज्ञेयानि।
13 रुतम् 14।
प्रासङ्गिक्यः
01
=>
(१४१३)
02
=>
(१-भ्वादिः-९५९। सक। अनि। आत्म।)
03
=>
[[[अ]
04
=>
(व्याघ्रभूति- कारिका, काशिकायां ७-२-१०)
05
=>
(परि। ८३)
06
=>
(परि। ९२)
07
=>
(भ। का। १६-२९)
08
=>
(७-२-१२)
09
=>
[[८। पाठेनानेन देवस्य शब्दार्थकत्वं भौवादिकस्यापि धातोः सम्मतमिति ज्ञायते। रेषणशब्दस्य वृकशब्दार्थत्वात् कथञ्चिदेवं नेयमिति पुरुषकारे विवेचितम्। ‘-- गतिरोषणयोः’ इति कुत्रचिद् दृष्टः पाठः।]]
10
=>
(श्लो। २३)
11
=>
[पृष्ठम्११२५+ २७]
12
=>
(१९८)
13
=>
[[१। इड्भाववादिनां मतेऽपि निष्ठादिषु कित्प्रत्ययेषु ‘श्रयुकः क्किति’ (७-२-११) इति निषेधात् इण्नेति बोध्यम्।]]
14
=>
[[आ। ‘प्रवे भवाब्धिप्लवमारुतानां धृतामयं भक्तिनिमेयमङ्घ्रिम्।।’ धा। का। २-३६।]]